Book 7 • Chapter 45
Sarga 45
25 verses
Verse 1
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता
Verse 2
सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा पौराणां मम सीतायां यादृशी वर्तते कथा
Verse 3
पौरापवादः सुमहांस्तथा जनपदस्य च वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति
Verse 4
अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् सीता ऽपि सत्कुले जाता जनकानां महात्मनाम्
Verse 5
जानासि त्वं यथा सौम्य दण्डके विजने वने रावणेन हृता सीता स च विध्वंसितो मया
Verse 6
तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति अत्रोषितामिमां सीतामानयेयं कथं पुरीम्
Verse 7
प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः अपापां मैथिलीमाह वायुश्चाकाशगोचरः
Verse 8
चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ऋषीणां चैव सर्वेषामपापां जनकात्मजाम्
Verse 9
एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता
Verse 10
अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ततो गृहीत्वा वैदेहीमयोध्यामहमागतः
Verse 11
अयं तु मे महान्वादः शोकश्च हृदि वर्तते पौरापवादः सुमहांस्तथा जनपदस्य च
Verse 12
अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते
Verse 13
अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम्
Verse 14
अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः अपवादभयाद्भीतः किं पुनर्जनकात्मजाम्
Verse 15
तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतो ऽधिकम्
Verse 16
श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् आरुह्य सीतामारोप्य विषयान्ते समुत्सृज
Verse 17
गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः
Verse 18
तत्रैनां विजने देशे विसृज्य रघुनन्दन शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम
Verse 19
न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा
Verse 20
अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते शापिता हि मया यूयं भुजाभ्यां जीवितेन च
Verse 21
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन अहिता नाम ते नित्यं मदभीष्टविघातनात्
Verse 22
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम
Verse 23
पूर्वमुक्तो ऽहमनया गङ्गातीरे ऽहमाश्रमान् पश्येयमिति तस्याश्च कामः संवर्त्यतामयम्
Verse 24
एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः
Verse 25
शोकसंलग्नहृदयो निशश्वास यथा द्विपः
0:000:00
Speed: