Book 7 • Chapter 44
Sarga 44
21 verses
Verse 1
विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत्
Verse 2
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् भरतं च महाभागं शत्रुघ्नमपराजितम्
Verse 3
रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः
Verse 4
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम्
Verse 5
बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् प्राद्रवद्रथमारुह्य राघवस्य निवेशनम्
Verse 6
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः
Verse 7
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम्
Verse 8
उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः
Verse 9
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति
Verse 10
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात्
Verse 11
शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान्
Verse 12
कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत्
Verse 13
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम
Verse 14
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः
Verse 15
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम्
Verse 16
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते
Verse 17
ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत्
Verse 18
तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह
Verse 19
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः
Verse 20
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः सम्भूय च मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः
Verse 21
तथा वदति काकुत्स्थे अवधानपरायणाः उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति
0:000:00
Speed: