Book 7 • Chapter 43
Sarga 43
23 verses
Verse 1
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः कथानां बहुरूपाणां हास्यकाराः समन्ततः
Verse 2
विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः सुराजः कालियो भद्रो दन्तवक्रः सुमागधः
Verse 3
एते कथा बहुविधाः परिहाससमन्विताः कथयन्ति स्म संहृष्टा राघवस्य महात्मनः
Verse 4
ततः कथायां कस्याञ्चिद्राघवः समभाषत काः कथा नगरे भद्र वर्तन्ते विषयेषु च
Verse 5
मामाश्रितानि कान्याहुः पौरजानपदा जनाः किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम्
Verse 6
किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च
Verse 7
एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम्
Verse 8
अमुं तु विजयं सौम्य दशग्रीववधार्जितम् भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ
Verse 9
एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् कथयस्व यथातत्त्वं सर्वं निरवशेषतः
Verse 10
शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च
Verse 11
कथयस्व च विस्रब्धो निर्भयं विगतज्वरः कथयन्ति यथा पौराः पापा जनपदेषु च
Verse 12
राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः
Verse 13
शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् चत्वरापणरथ्यासु वनेषूपवनेषु च
Verse 14
दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः
Verse 15
रावणश्च दुराधर्षो हतः सबलवाहनः वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः
Verse 16
हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत्
Verse 17
कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम्
Verse 18
लङ्कामपि पुरा नीतामशोकवनिकां गताम् रक्षसां वशमापन्नां कथं रामो न कुत्सते
Verse 19
अस्माकमपि दारेषु सहनीयं भविष्यति यथा हि कुरुते राजा प्रजा तमनुवर्तते
Verse 20
एवं बहुविधा वाचो वदन्ति पुरवासिनः नगरेषु च सर्वेषु राजञ्जनपदेषु च
Verse 21
तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम्
Verse 22
सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च प्रत्यूचू राघवं दीनमेवमेतन्न संशयः
Verse 23
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् विसर्जयामास तदा वयस्याञ्छत्रुसूदनः
0:000:00
Speed: