Book 7 • Chapter 42
Sarga 42
36 verses
Verse 1
स विसृज्य ततो रामः पुष्पकं हेमभूषितम् प्रविवेश महाबाहुरशोकवनिकां तदा
Verse 2
चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि देवदारुवनैश्चापि समन्तादुपशोभिताम्
Verse 3
चम्पकाशोकपुन्नागमधूकपनसासनैः शोभितां पारिजातैश्च विधूमज्वलनप्रभैः
Verse 4
लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः मन्दारकदलीगुल्मलताजालसमावृताम्
Verse 5
प्रियङ्गुभिः कदम्बैश्च तथा च वकुलैरपि जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम्
Verse 6
सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः
Verse 7
तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः
Verse 8
कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः
Verse 9
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः
Verse 10
सुरभीणि च पुष्पाणि माल्यानि विविधानि च दीर्घिका विविधाकाराः पूर्णाः परमवारिणा
Verse 11
माणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः
Verse 12
दात्यूहशुकसङ्घुष्टा हंससारसनादिताः तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः
Verse 13
प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः
Verse 14
शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् तत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम्
Verse 15
प्रस्तराः पुष्पशबला नभस्तारागणैरिव नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा
Verse 16
तथाभूतं हि रामस्य काननं सन्निवेशनम् बह्वासनगृहोपेतां लतागृहसमावृताम्
Verse 17
अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः आसने च शुभाकारे पुष्पप्रकरभूषिते
Verse 18
कुशास्तरणसंस्तीर्णे रामः सन्निषसाद ह सीतामादायं हस्तेन मधुमैरेयकं शुचि
Verse 19
पाययामास काकुत्स्थः शचीमिव पुरन्दरः मांसानि च समृष्टानि फलानि विविधानि च
Verse 20
रामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन्उ उपानृत्यंश्च राजानं नृत्यगीतविशारदाः
Verse 21
बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः मनोभिरामा रामास्ता रामो रमयतां वरः
Verse 22
उपानृत्यन्त काकुत्स्थं नृत्यगीतविशारदाः मनोभिरामा रामास्ता रामो रमयतां वरः
Verse 23
रमयामास धर्मात्मा नित्यं परमभूषितः स तया सीतया सार्धमासीनो विरराज ह
Verse 24
अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम्
Verse 25
रमयामास वैदेहीमहन्यहनि देववत्त था तयोर्विहरतोः सीताराघवयोश्चिरम्
Verse 26
अत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः
Verse 27
पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् शेषं दिवसभागार्धमन्तःपुरगतो ऽभवत्
Verse 28
सीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः
Verse 29
अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची
Verse 30
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्
Verse 31
अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः
Verse 32
किमिच्छसि वरारोहे कामः किं क्रियतां तव स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत्
Verse 33
तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम्
Verse 34
फलमूलाशिनां देव पादमूलेषु वर्तितुम् एष मे परमः कामो यन्मूलफलभोजिनाम्
Verse 35
अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम्
Verse 36
एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः
0:000:00
Speed: