Book 7 • Chapter 41
Sarga 41
22 verses
Verse 1
विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी
Verse 2
अथापराह्णसमये भ्रातृभिः सह राघवः शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम्
Verse 3
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो
Verse 4
तव शासनमाज्ञाय गतो ऽस्मि भवनं प्रति उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत
Verse 5
निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम्
Verse 6
ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि रावणे सगणे चैव सपुत्रे सहबान्धवे
Verse 7
स त्वं रामेण लङ्कायां निर्जितः परमात्मना वह सौम्य तमेव त्वमहमाज्ञापयामि ते
Verse 8
परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः
Verse 9
सो ऽहं शासनमाज्ञाय धनदस्य महात्मनः त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम्
Verse 10
अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया चराम्यहं प्रभावेण तवाज्ञां परिपालयन्
Verse 11
एवमुक्तस्तदा रामः पुष्पकेण महाबलः उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम्
Verse 12
यद्येवं स्वागतं ते ऽस्तु विमानवर पुष्पक आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत्
Verse 13
लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः पूजयित्वा महाबाहू राघवः पुष्पकं तदा
Verse 14
गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा सिद्धानां च गतौ सौम्य मा विषादेन योजय प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः
Verse 15
एवमस्त्विति रामेण पूजयित्वा विसर्जितम् अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा
Verse 16
एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम्
Verse 17
विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः
Verse 18
अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम् जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव
Verse 19
अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः
Verse 20
काले वर्षति पर्जन्यः पातयन्नमृतं पयः वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः
Verse 21
ईदृशो ऽनश्वरो राजा भवेदिति नरेश्वरः कथयन्ति पुरे राजन्पौरजानपदास्तथा
Verse 22
एता वाचः सुमधुरा भरतेन समीरिताः श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः
0:000:00
Speed: