🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 40

Sarga 40

29 verses

Verse 1
तथा स्म तेषां वसतामृक्षवानररक्षसाम् राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत्
Verse 2
गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः पालयस्व सहामात्यो राज्यं निहतकण्टकम्
Verse 3
अङ्गदं  महाबाहो प्रीत्या परमया युतः पश्य त्वं हनुमन्तं  नलं  सुमहाबलम्
Verse 4
सुषेणं श्वशुरं वीरं तारं  बलिनां वरम् कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम्
Verse 5
वीरं शतवलिं चैव मैन्दं द्विविदमेव  गजं गवाक्षं गवयं शरभं  महाबलम् पश्य प्रीतिसमायुक्तो गन्धमादनमेव 
Verse 6
ऋषभं  सुविक्रान्तं जाम्बवन्तं महाबलम् ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः
Verse 7
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः
Verse 8
एवमुक्त्वा तु सुग्रीवमाश्लिष्य  पुनः पुनः विभीषणमुवाचाथ रामो मधुरया गिरा
Verse 9
लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम पुरस्य राक्षसानां  स्वभ्रातुस्सम्मतो ह्यसि
Verse 10
मा  बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम्
Verse 11
अहं  नित्यशो राजन्सुग्रीवसहितस्त्वया स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः
Verse 12
रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः
Verse 13
तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव  माधुर्यं परमं राम स्वयम्भोरिव नित्यदा
Verse 14
तेषामेवं ब्रुवाणानां वानराणां  राक्षसाम् हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत्
Verse 15
स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु
Verse 16
वायद्रामकथा वीर चरिष्यति महीतले तावच्छरीरे वत्स्यन्ति प्राणा मम  संशयः
Verse 17
यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ
Verse 18
तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः
Verse 19
एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच 
Verse 20
एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः चरिष्यति कथा यावदेषा लोके  मामिका तावत्ते भविता कीर्तिः शरीरे ऽप्यसवस्तथा
Verse 21
लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा
Verse 22
लोके  मामिका एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम्
Verse 23
ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः वैडूर्यतरलं कण्ठे बबन्ध  हनूमतः
Verse 24
तेनोरसि निबद्धेन हारेण महता कपिः रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः
Verse 25
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः
Verse 26
सुग्रीवः   रामेण निरन्तरमुरोगतः विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः
Verse 27
सर्वे  ते बाष्पकलाः साश्रुनेत्रा विचेतसः सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा
Verse 28
कृतप्रसादास्तेनैवं राघवेण महात्मना जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन्
Verse 29
ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः
0:000:00
Speed: