Book 7 • Chapter 39
Sarga 39
30 verses
Verse 1
ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम्
Verse 2
अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः भरतस्याज्ञया ऽनेकाः प्रहृष्टा बलवाहनाः
Verse 3
ऊचुस्ते च महीपाला बलदर्पसमन्विताः न रामरावणं युद्धे पश्यामः पुरतः स्थितम्
Verse 4
भरतेन वयं पश्चात्समानीता निरर्थकम् हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः
Verse 5
रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च सुखं पारेसमुद्रस्य युध्येम विगतज्वराः
Verse 6
एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः
Verse 7
स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च समृद्धधनधान्यानि पूर्णानि वसुमन्ति च
Verse 8
यथापुराणि ते गत्वा रत्नानि विविधान्यथ रामस्य प्रियकामार्थमुपहारान् नृपा ददुः
Verse 9
अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् चन्दनानि च मुख्यानि दिव्यान्याभरणानि च
Verse 10
मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः अजाविकांश्च विविधान् रथांस्तु विविधान्ददुः
Verse 11
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः आदाय तानि रत्नानि स्वां पुरीं पुनरागताः
Verse 12
आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः तानि रत्नानि चित्राणि रामाय समुपाहरन्
Verse 13
प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे
Verse 14
बिभीषणाय च ददौ तथान्येभ्यो ऽपि राघवः राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान्
Verse 15
ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः
Verse 16
हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान्
Verse 17
रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् अङ्गदस्ते सुपुत्रो ऽयं मन्त्री चाप्यनिलात्मजः
Verse 18
सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर
Verse 19
इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः स बबन्ध महार्हाणि तदाङ्गदहनूमतोः
Verse 20
आभाष्य च महावीर्यान्राघवो यूथपर्षभान् नीलं नलं केसरिणं कुमुदं गन्धमादनम्
Verse 21
सुषेणं पनसं वीरं मैन्दं द्विविदमेव च जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च
Verse 22
वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम्
Verse 23
मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा
Verse 24
युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः
Verse 25
एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः वज्राणि च महार्हाणि सस्वजे च नरर्षभः
Verse 26
ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः मांसानि च सुमृष्टानि मूलानि च फलानि च
Verse 27
एवं तेषां निवसतां मासः साग्रो ययौ तदा मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे
Verse 28
रामो ऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः
Verse 29
एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् वानराणां प्रहृष्टानां राक्षसानां च सर्वशः
Verse 30
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ
0:000:00
Speed: