Book 6 • Chapter 10
Sarga 10
29 verses
Verse 1
ततःप्रत्युषसिप्राप्तेप्राप्तधर्मार्थनिश्चयः राक्षसाधिपतेर्वेश्मभीमकर्माविभीषणः
Verse 2
शैलाग्रचयसङ्काशंशैलशृङ्गमिवोन्नतम् सुविभक्तमहाकक्षंमहाजनपरिग्रहम्
Verse 3
मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम् राक्षसैराप्तपर्याप्तैस्सर्वतःपरिरक्षितम्
Verse 4
मत्तमातङ्गनिश्श्वासैर्व्याकुलीकृतमारुतम् शङ्खघोषमहाघोषंतूर्यनादानुनादितम्
Verse 5
प्रमदाजनसम्बाधंप्रजल्पितमहापथम् तप्तकाञ्चननिर्यूहंभूषणोत्तमभूषितम्
Verse 6
गन्धर्वाणामिवाऽवासमालयंमरुतामिव रत्नसञ्चयसम्बाधंभवनंभोगिनामिव
Verse 7
तंमहाभ्रमिवाऽदित्यस्तेजोविस्तृतरश्मिमान् अग्रजस्यालयंवीरःप्रविवेशमहाद्युतिः
Verse 8
पुण्यान्पुण्याहघोषांश्चवेदविद्भिरुदाहृतान् शुश्रावसुमहातेजाभ्रातुर्विजयसंश्रितान्
Verse 9
पूजितान् दधिपात्रैश्चसर्पिर्भिस्सुमनोक्षतैः मन्त्रवेदविदोविप्रान्ददर्शसमहाबलः
Verse 10
सपूज्यमानोरक्षोभिद्दीप्यमानस्स्वतेजसा आसनस्थंमहाबाहुर्ववन्देधनदानुजम्
Verse 11
सराजदृष्टिसम्पन्नमासनंहेमभूषितम् जगामसमुदाचारंप्रयुज्याचारकोविदः
Verse 12
सरावणंमहात्मानंविजनेमन्त्रिसन्निधौ उवाचहितमत्यर्थंवचनंहेतुनिश्चितम्
Verse 13
प्रसाद्यभ्रातरंजेष्ठंसान्त्वेनोपस्थितक्रमः देशकालार्थसंवादिदृष्टलोकपरावरः
Verse 14
यदाप्रभृतिवैदेहीसम्प्रास्तेमांपुरींतव तदाप्रभृतिदृश्यन्तेनिमित्तान्यशुभानिनः
Verse 15
सस्फुलिङ्गस्सधूमार्चिस्सधूमकलुषोदयः मन्त्रसङ्घहुतोऽप्यग्निर्नसम्यगभिवर्थते
Verse 16
अग्निष्ठेष्वग्निशलासुतथाब्रह्मस्थालीषुच सरीसृपाणिदृश्यन्तेहन्येषुचपिपीलिकाः
Verse 17
गवांसयांसिस्कन्नानिविमदावीरकुञ्जराः दीनमश्वाःप्रहेषन्तेनचग्रासाभिनन्दिनः
Verse 18
खरोष्ट्राश्वतराराजभनभिन्नरोमास्स्रवन्तिच नस्वभावेऽवतिष्ठन्तिविधानैरपिचिन्तिताः
Verse 19
वायसाःसङ्घशःक्रूराव्याहरन्तिसमन्ततः समवेताश्चदृश्यन्तेविमानाग्रेषुसङ्घशः
Verse 20
गृध्राश्चपरिलीयन्तेपुरीमुपरिपिण्डिताः उपपन्नाश्चस्नध्येद्वेव्याहऱ्नत्यशिवंशिवाः
Verse 21
क्रव्यादानांमृगाणांचपुरीद्वारेषुसङ्घशः श्रूयन्तेविपुलाघोषास्सविस्फूर्जितनिस्स्वनाः
Verse 22
तदेवंप्रस्तुतेकार्येप्रायश्चित्तमिदंक्षमम् रोचतेयदिवैदेहीराघवायप्रदीयताम्
Verse 23
इदंचयदिवामोहाल्लोभाद्वाव्याहृतंमया तत्रापिचमहाराज नदोषंकर्तुमर्हसि
Verse 24
अयंहिदोषस्सर्वस्यजनस्यास्योपलक्ष्यते रक्षसांराक्षसीनांचपुरस्यान्तःपुरस्यच
Verse 25
श्रावणेचास्यमन्त्रस्यनिवृत्तास्सर्वमन्त्रिणः अवश्यंचमयावाच्यंयद्दृष्टमपिवाश्रुतम् सम्विधाययथान्यायंतद्भवान् कर्तुमर्हति
Verse 26
इतिस्ममन्त्रिणांमध्येभ्राताभ्रातरमूचिवान् रावणंराक्षसांश्रेष्ठंपथ्यमेतद्विभीषणः
Verse 27
हितंमहार्थंमृदुहेतुसंहितंव्यतीतकालायतिसम्प्रतिक्षमम् निशम्यतद्वाक्यमुपस्थितज्वरःप्रसङ्गवानुत्तरमेतदब्रवीत्
Verse 28
भयंनपश्यामिकुतश्चिदप्यहंनराघवःप्राप्स्यतिजातुमैथिलीम् सुरैस्सहेन्द्रैरपिसङ्गरेकथंममाग्रतस्स्थास्यतिलक्ष्मणाग्रजः
Verse 29
इत्येवमुक्त्वासुरसैन्यनाशनोमहाबलस्संयतिचण्डविक्रमः दशाननोभ्रातरमाप्तवादिनंविसर्जयामासतदाविभीषणम्
0:000:00
Speed: