Book 6 • Chapter 101
Sarga 101
46 verses
Verse 1
तस्मिन्प्रतिहतेऽस्त्रेतुरावणोराक्षसाधिपः क्रोधं च द्विगुणंचक्रेक्रोधाच्चास्त्रमनन्तरम्
Verse 2
मयेनविहितंरौद्रमन्यदस्त्रंमहाद्युतिः उत्सृष्टुंरावणोभीमंराघवायप्रचक्रमे
Verse 3
ततःशूलानिनिश्चेरुर्गदाश्चमुसलानि च कार्मुकाद्दीप्यमानानिवज्रसाराणिसर्वशः
Verse 4
मुद्गराःकूटपाशाश्चदीप्ताश्चाशनयस्तथा निष्पेतुर्विविधास्तीक्ष्णावाताइवयुगक्षये
Verse 5
तदस्त्रंराघव्श्रीमानुत्तमास्त्रविदांवरः जघानपरमास्त्रणगान्धर्वेणमहाद्युतिः
Verse 6
तस्मिन्प्रतिहतेऽतुराघवेणमहात्मना रावणःक्रोधाताम्राक्षस्सौरमस्त्रमुदैरयत्
Verse 7
ततश्चक्राणिनिष्पेतुर्भास्वराणिमहान्ति च कार्मुकाद्भीमवेगस्यदशग्रीवस्यधीमतः
Verse 8
तैरासीद्गगनंदीप्तंसन्ततद्भिःरितस्ततः पतद्भिश्चदिशोदीप्ताश्चन्द्रसूर्यग्रहैरिव
Verse 9
तानिचिच्छेदबाणौघैश्चक्राणितु स राघवः आयुधानि च चित्राणिरावणस्यचमूमुखे
Verse 10
तदस्त्रंतुहतंदृष्टवारावणोराक्षसाधिपः विव्याथदशभिर्बाणैरामंसर्वेषुमर्मसु
Verse 11
स विद्धोदशभिर्बाणैर्महाकार्मुकनिस्सृतैः रावणेनमहातेजा न प्राकम्पतराघवः
Verse 12
ततोविव्याथगात्रेषुसर्वेषुसमितिञ्जयः राघवस्तुसुसङ्क्रुद्धोरावणंबहुभिश्शरैः
Verse 13
एतस्मिन्नन्तरेक्रुद्धोराघवस्यानुजोबली लक्ष्मणःसायकान्सप्तजग्राहपरवीरहा
Verse 14
तै: स्सायकैर्महावेगैरावणस्यमहाद्युति ध्वजंमनुष्यशीर्षंतुतस्यचिच्छेदनैकधा
Verse 15
सारदथेश्चापिबाणेनशिरोज्वलितकुण्डलम् जहारलक्ष्मणःश्रीमान्नैरृतस्यमहाबलः
Verse 16
तस्यबाणैश्चचिच्छेदधनुर्गजकरोपमम् लक्ष्मणोराक्षसेन्द्रस्यपञ्चभिर्निशितैस्तदा
Verse 17
नीलमेघनिभांश्चास्यसदश्वान् पर्वतोपमान् जघानाप्लुत्यगदयारावणस्यविभीषणः
Verse 18
हताश्वात्त्तुस्वोवेगादवप्लुत्यमहारथात् कोपमाहारत्तीव्रंभ्रातरंप्रतिरावणः
Verse 19
ततश्शक्तिंमहाशक्तिर्दीप्तार्दीप्ताशनीमिव विभीषणस्यचिक्षेपराक्षसेन्द्रःप्रतापवान्
Verse 20
अप्राप्तामेवतांबाणैस्त्रिभिश्चिच्छेदलक्ष्मणः अथोदतिष्ठत्सन्नादोवानराणांमहारणे
Verse 21
स पपातत्रिधाछिन्नाशक्तिःकाञ्चनमालिनी सविस्फुलिङ्गाज्वलितामहोल्केवदिवश्च्युता
Verse 22
ततःसम्भाविततरांकालेनापिदुरासदाम् जग्राहविपुलांशक्तिंदीप्यमानांस्वतेजसा
Verse 23
सावेगिताबलवतारावणेनदुरात्मना जज्वालसुमहातेजादीप्ताशनिसमप्रभा
Verse 24
एतस्मिन्नन्तरेवीरोलक्ष्मणस्तंविभीषणम् प्राणसंशयमापन्नंतूर्णमभ्यवपद्यत
Verse 25
तंविमोक्षयितुंवीरश्चापमायम्यलक्ष्मणः रावणंशक्तिहस्तंवैशरवर्षैरवाकिरत्
Verse 26
कीर्यमाणश्शरौघेणविसृष्टेनमहात्मना न प्रहर्तुंमनश्चक्रेविमुखीकृतविक्रमः
Verse 27
मोक्षितंभ्रातरंदृष्टवालक्ष्मणेन स रावणः लक्ष्मणाभिमुखस्तिष्ठन्निदंवचनमब्रवीत्
Verse 28
मोक्षितस्तेबलश्लाघिन्यस्मादेवंविभीषणः विमुच्यराक्षसंशक्तिस्त्वयीयंविनिपात्यते
Verse 29
एषातेहृदयंभित्त्वाशक्तिर्लोहितलक्षणा मद्भाहुपरिघोत्सृष्टाप्राणानादाययास्यति
Verse 30
इत्येवमुक्तातांशक्तिमष्टघण्टांमहास्वनाम् मयेनमायाविहिताममोघंशत्रुघातिनीम् लक्ष्मणायसमुद्धिश्यज्वलन्तीमिवतेजसा रावणःपरमक्रुद्धश्चिक्षेप च ननाद च
Verse 31
इत्येवमुक्तातांशक्तिमष्टघण्टांमहास्वनाम् मयेनमायाविहिताममोघंशत्रुघातिनीम् लक्ष्मणायसमुद्धिश्यज्वलन्तीमिवतेजसा रावणःपरमक्रुद्धश्चिक्षेप च ननाद च
Verse 32
साक्षिप्ताभीमवेगेनवज्राशनिसमस्वना शक्तिरभ्यपतद्वेगाल्लक्ष्मणंरणमूर्धनि
Verse 33
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः स्वस्त्यस्तुलक्ष्मणआयेतिमोघाभवहतोद्यमा
Verse 34
रावणेनरणेशक्तिःक्रुद्धेनाशीविषोपमाः मुक्ताशूरस्यभीतस्यलक्ष्मणस्यममज्जसा
Verse 35
न्यपतत्सामहावेगालक्ष्मणस्यमहोरसि जिह्वेवोरगराजस्यदीप्यमानामहाद्युतिः
Verse 36
ततोरावणवेगेनसुदूरमवगाढया शक्त्याविभिन्नहृदयःपपातभुविलक्ष्मणः
Verse 37
तदवस्थंसमीपस्थोलक्ष्मणंप्रेक्ष्यराघवः भ्रातृस्नेहान्महातेजाविषण्णहृदयोऽभवत्
Verse 38
स मुहूर्तमिवध्यात्वाबाष्पपर्याकुलेक्षणः बभूवसम्रब्धतरोयुगान्तइवपावकः
Verse 39
न विषादस्यकालोऽयमितिसञ्चिन्त्यराघवः चक्रेसुतुमुलंयुद्धंरावणस्यवधेधृतः सर्वयत्नेनमहतालक्ष्मणंपरिवीक्ष्य च
Verse 40
सददर्शततोरामःशक्त्याभिन्नंमहाहवे लक्ष्मणंरुधिरादिग्धंसपन्नगमिवाचलम्
Verse 41
तामपिप्रहितांशक्तिंरावणेनबलीयसा यत्नतस्तेहरिश्रेष्ठा न शेकुरवमर्दितुम् अर्दिताश्चैवबाणौघैस्तेक्षिप्रहस्तेनरक्षसा 6.101.42
Verse 42
तामपिप्रहितांशक्तिंरावणेनबलीयसा यत्नतस्तेहरिश्रेष्ठा न शेकुरवमर्दितुम् अर्दिताश्चैवबाणौघैस्तेक्षिप्रहस्तेनरक्षसा 6.101.42
Verse 43
सौमित्रिंसाविनिर्भिद्यप्रविष्टाधरणीतलम् तांकराभ्यांपरामृश्यरामःशक्तिंभयावहाम् बभञ्जसमरेक्रुद्धोबलवान्विचकर्ष च
Verse 44
तस्यनिष्कर्षतःशक्तिंरावणेनबलीयसा शराःसर्वेषुगात्रेषुपातितामर्मभेदिनः
Verse 45
अचिन्तयित्वातान्बाणान्समालशिष्य च लक्ष्मणम् अब्रवीच्चहनूमन्तंसुग्रीवं च महाकपिम्
Verse 46
क्ष्मणंपरिवार्यैवतिष्ठध्वंवानरोत्तमाः पराक्रमस्यकालोऽयंसम्प्राप्तोमेचिरेप्सितः पापात्मायंदशग्रीवोवध्यतांपापनिश्चयः काङ्क्षितस्स्तोककस्येवघर्मान्तेमेघदर्शनम्
0:000:00
Speed: