Book 6 • Chapter 104
Sarga 104
31 verses
Verse 1
तस्यक्रुद्धस्यवदनंदृष्टवारामस्यधीमतः सर्वभूतानिवित्रेसुःप्राकम्पत च मेदिनी
Verse 2
सिंहशार्दूलान्शैलस्सञ्चचालचलद्द्रुमः बभूवचापिक्षुभितःसमुद्रःसरिताम्पतिः
Verse 3
खराश्चखरनिर्घोषागगनेपरुषाघनाः औत्पातिकानिनर्दन्तस्समन्तात्परिचक्रमुः
Verse 4
रामंदृष्टवासुसङ्क्रुद्धमुत्पातांश्चैवसुदारुणान् वित्रेसुस्सर्वभूतानिरावणस्याभवद्भयम्
Verse 5
विमानस्थास्तदादेवागन्धर्वाश्चमहोरगाः ऋषिदावनदैत्याश्चगरुत्मन्तश्चखेचराः ददृशुस्तेतदायुद्धंलोकसम्वर्तसंस्थितम् नानाप्रहरणैर्भीमैश्शूरयोस्सम्प्रयुध्यतोः
Verse 6
विमानस्थास्तदादेवागन्धर्वाश्चमहोरगाः ऋषिदावनदैत्याश्चगरुत्मन्तश्चखेचराः ददृशुस्तेतदायुद्धंलोकसम्वर्तसंस्थितम् नानाप्रहरणैर्भीमैश्शूरयोस्सम्प्रयुध्यतोः
Verse 7
ऊचुस्सुरासुरास्सर्वेतदाविग्रहमागताः प्रेक्षमाणामहर्युद्धंवाक्यंभक्त्याप्रहृष्टवत्
Verse 8
दशग्रीवंजयेत्याहुरसुराःसमवस्थिताः देवाराममवोचंस्तेत्वंजयेतिपुनःपुनः
Verse 9
एतस्मिन्नन्तरेक्रोधाद्राघवस्य स रावणः प्रहर्तुकामोदुष्टात्मास्पृशन् प्रहरणंमहत् वज्रसारंमहानादंसर्वशत्रुनिबर्हणम् शैलशृङ्गनिभैःकूटैश्चित्तदृष्टिभयावहम् सधूममिवतीक्ष्णाग्रंयुगान्ताग्निचमोपमम् अतिरौद्रमनासाद्यंकालेनापिदुरासदम् त्रासनंसर्वभूतानांदारणंभेदनंतथा प्रदीप्तमिवरोषेणशूलंजग्राहरावणः
Verse 10

Verse 11

Verse 12

Verse 13
तच्छूलंपरमक्रुद्धोमध्येजग्राहवीर्यवान् अनेकैःसमरेश्शूरैराक्षसैःपरिवारितः
Verse 14
समुद्यम्यमहाकायोननादयुधिभैरवम् संरक्तनयनोरोषात्स्वसैन्यमभिहर्षयन्
Verse 15
पृथिवींचान्तरिक्षं च दिशश्चप्रदिशस्तथा प्राकम्पयत्तदाशब्दोराक्षसेन्द्रस्यदारुणः
Verse 16
अतिनादस्य्यदानेनतेनतस्यदुरात्मनः सर्वभूतानिवित्रेसुस्सागरश्चप्रचुक्षुभे
Verse 17
स गृहीत्वामहावीर्यश्शूलंतद्रावणोमहत् विनद्यसुमहानादंरामंपरुषमब्रवीत्
Verse 18
शूलोऽयंवज्रसारस्तेरामरोषान्मयोद्यतः तवभ्रातृसहायस्यसम्यक् प्राणान् हरिष्यति
Verse 19
रक्षसामद्यशूराणांनिहतानांचमूमुखे त्वांनिहत्यरणश्लाघीकरोमितरसासमम्
Verse 20
तिष्ठेदानींनिहमनित्वामेषशूलेनराघव एवमुक्त्वा स चिक्षेपतच्छूलंराक्षसाधिपः
Verse 21
तद्रावणकरान्मुक्तंविद्युन्मालासमावृतम् अष्टघण्टंमहानादंवियद्गतमशोभत
Verse 22
तच्छूलंराघवोदृष्टवाज्वलन्तंघोरदर्शनम् ससर्जविशिखान्रामश्चापमायम्यवीर्यवान्
Verse 23
आपतन्तंशरौघेणवारयामासराघवः उत्पतन्तंयुगान्तानगिंजलौघैरिववासवः
Verse 24
निर्ददाह स तान्बाणान्रामकार्मुकनिःसृतान् रावणस्यमहान् शूलःपतङ्गानिवपावकः
Verse 25
तान्दृष्टवाभस्मसाद्भूतान्शूलसम्स्पर्शचूर्णितान् सायकानन्तरिक्षस्थान् राघवःक्रोधमाहरत्
Verse 26
स तांमातलिनानीतांशक्तिंवासवसम्मताम् जग्राहपरमक्रुद्धोराघवोरघुनन्दनः
Verse 27
सातोलिताबलवताशक्तिर्घण्टाकृतस्वना नभःप्रज्वालयामासयुगान्तोल्केवसप्रभा
Verse 28
साक्षिप्ताराक्षसेन्द्रस्यतस्मिन्कूलेपपात ह भिन्नःशक्त्यामहान् शूलोनिपपातहतद्युतिः
Verse 29
निर्भिभेदततोबाणैर्हयानस्यमहाजवान् रामस्त्रीक्ष्णैर्महावेगैर्भाणवद्भिरजिह्मगैः
Verse 30
निर्बिभेदोरपितदारावणंनिशितैश्शरैः राघवःपरमायत्तोललाटेपत्रतिभिस्त्रिभिः
Verse 31
स शरैर्भिन्नसर्वाङ्गोगात्रप्रसृतशोणितः राक्षसेन्द्रस्समूहस्थःफुल्लाशोकइवाबभौ
0:000:00
Speed: