Book 6 • Chapter 105
Sarga 105
30 verses
Verse 1
स तेनतुतदाक्रोधात्काकुत्स्थेनार्दितोरणे रावणस्समरश्लाघिमहाक्रोधामुपागमत्
Verse 2
स दीप्तनयनोरोषाच्चापमायाम्यवीर्यवान् अभ्यर्दयत्सुसङ्कृद्धोराघवंपरमाहवे बाणधारसहस्रैस्तैस्सतोयदइवाम्बरात् राघवंरावणोबाणैस्तटकमिवपूरयन्
Verse 3
स दीप्तनयनोरोषाच्चापमायाम्यवीर्यवान् अभ्यर्दयत्सुसङ्कृद्धोराघवंपरमाहवे बाणधारसहस्रैस्तैस्सतोयदइवाम्बरात् राघवंरावणोबाणैस्तटकमिवपूरयन्
Verse 4
पूरितःशरजालेनधनुर्मुक्तेनसम्युगे महागिरिरिवाकम्प्यःकाकुत्स्थो न प्रकम्पते
Verse 5
स शरैश्शरजालानिवारयन् समरेस्थितः गभस्तीनिवसूर्यस्यप्रतिजग्राहवीर्यवान्
Verse 6
ततश्शरसहस्राणिक्षिप्रहस्तोनिशाचरः निजघानोरसिक्रुद्धोराघवस्यमहात्मनः
Verse 7
स शोणितसमादिग्धस्समरेलक्ष्मणाग्रजः दृष्टःफुल्लइवारण्येसुमहान् किंशुकद्रुमः
Verse 8
शराभिघातसम्रब्दःसोऽभिजग्राहसायकान् काकुत्स्थ: सुमहातेजायुगान्तादित्यतेजसः
Verse 9
ततोऽन्योन्यंसुसम्रब्धौतावुभौरामरावणौ शरान्धकारेसमरेनोपलक्ष्यतांतदा
Verse 10
ततःक्रोधसमाविष्टोरामोदशरथात्मजः उवाचरावणंवीरःप्रहस्यपरुषंवचः
Verse 11
ममभार्याजनस्थानादज्ञानाद्राक्षसाधम हृतातेविवशायस्मात्तस्मात्त्वंनासिवीर्यवान्
Verse 12
मयाविरहितांदीनांवर्तमानांमहावने वैदेहींप्रसभंहृत्वाशूरोऽहमितिमन्यसे
Verse 13
स्त्रीषुशूरविनाथासुपरदाराभिमर्शक कृत्वाकापुरुषंकर्मशूरोऽहमितिमन्यसे
Verse 14
भिन्नमर्यादनिर्लज्ज चारित्रेष्वनवस्थित दर्पान्मृत्युमुपादायशूरोऽहमितिमन्यसे
Verse 15
शूरेणधनदभ्रात्राबलैःसमुदितेन च श्लाघनीयंमहत्कर्मयशस्यं च कृतंत्वया
Verse 16
उत्सेकानाभिपन्नस्यगर्हितस्याहितस्य च कर्मणःप्राप्नुहीदानांतस्याद्यसुमहत्फलम्
Verse 17
शूरोऽहमितिचात्मानमवगच्छसिदुर्मते नैवलज्जास्तितेसीतांचौरवद्वृपकर्षतः
Verse 18
यदिमत्सन्निधौसीताधर्षितास्यात्त्वयाबलात् भ्रातरंतुखरंपश्येस्तदामत्सायकैर्हतः
Verse 19
दिष्ट्यासिममदुष्टात्मश्चक्षुर्विषयमागतः अद्यत्वांसायकैस्तीक्ष्णैर्नयामियमसादनम्
Verse 20
अद्यतेमच्छरैश्चिन्नंशिरोज्वलितकुण्डलम् क्रव्यादाव्यपकर्षन्तुविकीर्णंरणपांसुषु
Verse 21
निपत्योरसिगृध्रास्तेक्षितौक्षिप्तस्यरावण पिबन्तुरुधिरंतर्षाद्बाणशल्यान्तरोत्थितम्
Verse 22
अद्यमद्बाणभिन्नस्यगतासोःपतितस्यते कर्षन्त्वन्त्राणिपतगागरुत्मन्तइवोरगान्
Verse 23
इत्येवं स वदन्वीरोरामश्शत्रुनिबर्हणः राक्षसेन्द्रंसमीपस्थंशरवर्षैरवाकिरत्
Verse 24
बभूवद्विगुणंवीर्यंबलंहर्षश्चसंयुगे रामस्यास्त्रबलंचैवशत्रोर्निधनकाङ्क्षिणः
Verse 25
प्रादुर्भभूवुरस्त्राणिसर्वाणिविदितात्मनः प्रहर्षाच्चमहातेजाश्शीघ्रहस्ततरोऽभवत्
Verse 26
शुभान्येतानिचिह्नानिविज्ञायात्मगतानिसः भूयएवार्दयद्रामोरावणंराक्षसान्तकृत्
Verse 27
हरीणांचाश्मनिकरैश्शरवर्षाच्चराघवात् हन्यमानोदशग्रीवोविघूर्णहृदयोऽभवत्
Verse 28
यदा च शस्त्रंनारेभे न चकर्षशरासनम् नास्यप्रत्यकरोवदीर्यंविक्लबेनान्तरात्मना
Verse 29
क्षिप्ताःश्चाशुशरास्तेनशस्त्राणिविविधानि च मरणार्थायवर्तन्तेमृत्युकालोऽभ्यवर्तत
Verse 30
सूतस्तुरथनेतास्यतदवस्थंनिरीक्ष्यतम् शनैर्युद्धासम्भ्रान्तोरथंतस्यापवाहयत्
0:000:00
Speed: