Book 6 • Chapter 106
Sarga 106
26 verses
Verse 1
सतुमोहात्सुसङ्क्रुद्धःकृतान्तबलचोदितः क्रोधसंरक्तनयनोरावणंसूतमब्रवीत्
Verse 2
हीनवीर्यमिवाशक्तंपौरुषेणविवर्जितम् भीरुंलघुमिवासत्त्वंविहीनमिवतेजसा विमुक्तमिवमायाभिरस्त्रैरिवबहिष्कृतम् मामवज्ञायदुर्बुद्धेस्वयाबुद्ध्याविचेष्टसे
Verse 3
हीनवीर्यमिवाशक्तंपौरुषेणविवर्जितम् भीरुंलघुमिवासत्त्वंविहीनमिवतेजसा विमुक्तमिवमायाभिरस्त्रैरिवबहिष्कृतम् मामवज्ञायदुर्बुद्धेस्वयाबुद्ध्याविचेष्टसे
Verse 4
किमर्थंमामवज्ञायमच्छन्दमनवेक्ष्य च त्वयाशत्रुसमक्षंमेरथोऽयमपवाहितः
Verse 5
त्वयाद्यहिममानार्य चिरकालसमार्जितम् यशोवीर्यं च तेजश्चप्रत्ययश्चविनाशितः
Verse 6
प्रख्यातवीर्यस्यरञ्जनीयस्यविक्रमैः पश्यतोयुद्धलुब्धोऽहंकृतंकापुरुषस्त्वया
Verse 7
यस्त्वंरथमिदंमोहान्नचेद्वहसिदुर्मते सत्योऽप्रतितर्कोमेपरेणत्वमुपस्कृतः
Verse 8
न हितद्विद्यतेकर्मसुहृदोहितकाङ्क्षिणः रिपूणांसदृशंत्वेतद्यतत्त्वयैतदनुष्ठितम्
Verse 9
निवर्तयरथंशीघ्रंयावन्नापैतिमेरिपुः यदिवाध्युषितोऽसित्वंस्मर्यतेयदिमेगुणः
Verse 10
एवंपुरुषमुक्तस्तुहितबुद्धिबुद्धिना अब्रवीद्रावणंसूतोहितंसानुनयंवचः
Verse 11
न भीतोऽस्मि न मूढोऽस्मिनोपजप्तोऽस्मिशत्रुभिः न प्रमत्तो न निःस्नेहोविस्मृता न च सत्क्रिया
Verse 12
मयातुहितकामेवयशश्चपरिरक्षता स्नेहप्रसन्नमनसाहितमित्यप्रियंकृतम्
Verse 13
नास्मिन्नर्थेमहाराज त्वंमांप्रियहितेरतम् कश्चिल्लघुरिवानार्योदोषतोगन्तुमर्हसि
Verse 14
श्रूयतांप्रतिदास्यामियन्निमित्तंमयारथः नदीवेगइवामंभोभिेसंयुगेविनिवर्तितः
Verse 15
श्रमंतवावगच्छामिमहतारणकर्मणा न हितेवीर्यसौमुख्यंप्रकर्षंवोपधारये
Verse 16
रथोद्वहनखिन्नाश्चभग्नामेरथवाजिनः दीनाघर्मपरिश्रान्तागावोवर्षहताइव
Verse 17
निमित्तानि च भूयिष्ठंयानिप्रादुर्भवन्तिनः तेषुतेष्वभिपन्नेषुलक्ष्याम्यप्रदक्षिणम्
Verse 18
देशकालौ च विज्ञेयौलक्षणानीङ्गितानि च दैन्यंहर्षश्चखेदश्चरथिनश्चबलाबलम्
Verse 19
स्थलनिम्नानिभूमेश्चसमानिविषमाणि च युद्धकालश्चविज्ञेयःपरस्यान्तरदर्शनम्
Verse 20
उपयानापयाने च स्थानंप्रत्यपसर्पणम् सर्वमेतद्रथस्थेनज्ञेयंरथकुटुम्भिना
Verse 21
तवविश्रामहेतोस्तुतथैषांरथवाजिनाम् रौद्रंवर्जयताखेदंक्षमंकृतमिदंमया
Verse 22
स्वेच्छयान मयावीररथोऽयमपवाहितः भर्तृस्नेहपरीतेनमयेदंयत्कृतंप्रभो
Verse 23
आज्ञापययथातत्त्वंवक्ष्यस्यरिनिषूदन तत्करिष्याम्यहंवीरगतानृण्येनचेतसा
Verse 24
सन्तुष्टस्तेनवाक्येनरावणस्तस्यसारथेः प्रशस्यैनंबहुविधंयुद्धलुब्धोऽब्रवीदिदम्
Verse 25
रथंशीघ्रमिदंसूतराघवाभिमुखंनय नाहत्वासमरेशत्रून्निवर्तिष्यतिरावणः
Verse 26
एवमुक्त्वाततस्तुष्टोरावणोराक्षसेश्वरः ददौतस्यशुभंह्येकंहस्ताभरणमुत्तमम् श्रुत्वारावणवाक्यानिसारथिस्सन्यवर्तत
0:000:00
Speed: