🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 107

Sarga 107

30 verses

Verse 1
ततोयुद्धपरिश्रान्तंसमरेचिन्तयास्थितम् रावणंचाग्रतोदृष्टवायुद्धायसमुपस्थितम् दैवतैश्चसमागम्यद्रष्टुमभ्यागतोरणम् उपागम्याब्रवीद्राममगस्त्योभगवान् ऋषिः
Verse 2
ततोयुद्धपरिश्रान्तंसमरेचिन्तयास्थितम् रावणंचाग्रतोदृष्टवायुद्धायसमुपस्थितम् दैवतैश्चसमागम्यद्रष्टुमभ्यागतोरणम् उपागम्याब्रवीद्राममगस्त्योभगवान् ऋषिः
Verse 3
राम राम महाबाहो शृणुगुह्यंसनातनम् येनसर्वानरीस्वत्ससमरेविजयिष्यसे
Verse 4
आदित्यहृदयंपुण्यंसर्वशत्रुविनाशनम् जयावहंजपेन्नित्यमक्षय्यंपरमंशिवम् सर्वमङ्गलमङ्गल्यंसर्वपापप्रणाशनम् चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम्
Verse 5
आदित्यहृदयंपुण्यंसर्वशत्रुविनाशनम् जयावहंजपेन्नित्यमक्षय्यंपरमंशिवम् सर्वमङ्गलमङ्गल्यंसर्वपापप्रणाशनम् चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम्
Verse 6
रस्मीमन्तंसमुद्यन्तंदेवासुरनमस्कृतम् पूजयस्वविवस्त्वन्तंभास्करंभुवनेश्वरम्
Verse 7
सर्वदेवात्मकोह्येषतेजस्वीरस्मीभावनः एषदेवासुरगणान्लोकान्पातिगभस्तिभिः
Verse 8
एषब्रह्मा  विष्णुश्चशिवःस्कन्धःप्रजापतिः महेन्द्रोधनदःकालोयमःसोमोह्यपांपतिः
Verse 9
पितरोवसवस्साध्याअश्विनौमरुतोमनुः वायुर्वह्निःप्रजाःप्राणऋतुकर्ताप्रभाकरः
Verse 10
आदित्यःसवितासूर्यःखगःपूषागभस्तिमान् सुवर्णसदृशोभानुर्हिरण्यरेतादिवाकरः
Verse 11
हरिदश्वस्सहस्रार्चिस्सप्तसप्तिर्मरीचिमान् तिमिरोन्मथनश्शम्भुस्त्वष्टामार्तण्डकोऽंशुमान्
Verse 12
हिरण्यगर्भश्शिशिरस्तपनोभास्करोरविः अग्निगर्भोऽदितेःपुत्रःशङ्घश्शिशिरनाशनः
Verse 13
व्योमनाथस्तमोभेदीऋग्यजुस्सामपारगः घनवृष्टिरपांमित्रोविन्ध्यवीथीप्लवङ्गमः
Verse 14
आतपीमण्डलेमृत्युःपिङ्गलस्सर्वतापनः कविर्विश्वोमहातेजारक्तस्सर्वभवोद्भव:
Verse 15
नक्षत्रग्रहताराणामधिपोविश्वभावनः तेजसामपितेजस्वीद्वादशात्मन्नमोऽस्तुते
Verse 16
नमःपूर्वायगिरयेपश्चिमायाद्रयेनमः ज्योतिर्गणानांपतयेदिनाधिपतयेनमः
Verse 17
जयायजयभद्रायहर्यश्वायनमोनमः नमोनमस्सहस्रांशोआदित्यायनमोनमः
Verse 18
नमउग्रायवीरायसारङ्गायनमोनमः नमःपद्मप्रबोधायमार्ताण्डायनमोऽस्तुते
Verse 19
ब्रह्मेशानाच्युतेशायसूर्यायादित्यवर्चसे भास्वतेसर्वभक्षायरौद्रायवपुषेनमः
Verse 20
तमोघ्नायहिमघ्नायशत्रुघ्नायामितात्मने कृतघ्नघ्नायदेवायज्योतिषांपतयेनमः
Verse 21
तप्तचामीकराभायहरयेविश्मकर्मणे नमस्तमोभिनिघ्नायरुचयेलोकसाक्षिणे
Verse 22
नाशयत्येषवैभूतंतदेवसृजतिप्रभुः पायत्येषतपत्येषवर्षत्येष गभस्तिभिः 1.107.22
Verse 23
एषसुप्तेषुजागर्तिभूतेषुपरिनिष्ठितः एषचैवाग्निहोत्रं  फलंचैवाग्निहोत्रिणाम्
Verse 24
वेदश्चक्रतवश्चैवक्रतूनांफलमेव  यानिकृत्यानिलोकेषुसर्वेषुपरमप्रभुः
Verse 25
एनमापत्सुकृच्छ्रेषुकान्तारेषुभयेषु  कीर्तयन्पुरुषःकश्चिनावसीदतिराघव
Verse 26
पूजयस्वैनमेकाग्रोदेवदेवंजगत्पतिम् एतत्त्रिगुणितंजप्त्वायुद्धेषुविजयिष्यसि
Verse 27
अस्मिन् क्षणेमहाबाहोरावणंत्वंवधिष्यसि एवमुक्त्वाततोऽगस्त्योजगाम  यथागतम्
Verse 28
एतच्छ्रुत्वामहातेजानष्टशोकोऽभवत्तदा धारयामाससुप्रीतोराघवःप्रयतात्मवान्
Verse 29
आदित्यंप्रेक्ष्यजप्त्वातुपरंहर्षमवाप्तवान् त्रिराचम्यशुचिर्भूत्वाधनुरादायवीर्यवान् रावणंप्रेक्ष्यहृष्टात्मायुद्धार्थंसमुपागमत् सर्वयत्नेनमहतावधेतस्यधृतोऽभवत्
Verse 30
आदित्यंप्रेक्ष्यजप्त्वातुपरंहर्षमवाप्तवान् त्रिराचम्यशुचिर्भूत्वाधनुरादायवीर्यवान् रावणंप्रेक्ष्यहृष्टात्मायुद्धार्थंसमुपागमत् सर्वयत्नेनमहतावधेतस्यधृतोऽभवत्
0:000:00
Speed: