Book 6 • Chapter 110
Sarga 110
38 verses
Verse 1
तौतथायुध्यमानौतुसमरेरामरावणौ ददृशुस्सर्वभूतानिविस्मितेनान्तरात्मना
Verse 2
अर्धयन्तौतुसमरेतयोस्तौस्यन्दनोत्तमौ परस्परमभिक्रुद्धौपरस्परमभिद्रुतौ
Verse 3
परस्परवधेयुक्तौघोररूपौबभूवतुः मण्डलानि च वीधीश्चगतप्रत्यागतानि च दर्शयन्तौबहुविधांसूतसामर्थ्यजांगतिम्
Verse 4
अर्धयन्रावणंरामोराघवंचापिरावणः गतिवेगंसमापन्नौप्रतिवेगप्रवर्तने
Verse 5
क्षिपतोश्शरजालानितयोस्तौस्यन्दनोत्तमौ चेरतुस्सम्युगमहीं सासारौ जलदाविव
Verse 6
दर्शयित्वातदातौतुगतिंबहुविधांरणे परस्परस्याभिमुखौपुनरेव च तस्थतुः
Verse 7
धुरंधुरेणरथयोर्वक्त्रंवक्त्रेणवाजिनाम् पताकाश्चपताकाभिस्समीयुस्स्थितयोस्तदा
Verse 8
रावणस्यततोरामोधनुर्मुस्तैश्शितैश्शरैः चतुर्भिश्चतुरोदीप्तान्हयान्प्रत्यपसर्पयत्
Verse 9
सक्रोधवशमापन्नोहयानामपसर्पणे मुमोचनिशितान्बाणान्राघवायदशाननः
Verse 10
सोतिविद्धोबलवतादशग्रीवेणराघवः जगाम न विकारं च न चापिव्यथितोऽभवत्
Verse 11
चिक्षेप च पुनर्भाणान्वज्रपातसमस्वनान् सारथिंवज्रहस्तस्यसमुद्दिश्यदशाननः
Verse 12
मातलेस्तुमहावेगाश्शरीरेपतिताश्शराः न सूक्ष्ममपिसम्मोहंव्यथांवाप्रददुर्युधि
Verse 13
तयाधर्षणयाक्रुद्धोमातलेर्नतथात्मनः चकारशरजालेनराघवोविमुखंरिपुम्
Verse 14
विंशतिंत्रिंशतिंषष्टिंशतशोऽथसहस्रशः मुमोचराघवोवीरस्सायकान्स्यन्दनेरिपोः
Verse 15
रावणोऽपिततःक्रुद्धोरथस्थराक्षसेश्वरः गदामुसलवर्षेणरामंप्रत्यर्दयद्रणे
Verse 16
तत्प्रवृतंपुनर्युद्धंतुमुलंरोमहर्षणम् गदानांमुसलानां च परिघाणांचनिस्स्वनैः शराणांपुङ्खवातैश्चक्षुभितास्सप्तसागराः
Verse 17
तत्प्रवृतंपुनर्युद्धंतुमुलंरोमहर्षणम् गदानांमुसलानां च परिघाणांचनिस्स्वनैः शराणांपुङ्खवातैश्चक्षुभितास्सप्तसागराः
Verse 18
क्षुब्दानांसागराणां च पातालतलवासिनः व्यथितादानवाःसर्वेपन्नगाश्चसहस्रशः
Verse 19
चकम्पेमेदिनीकृत्स्नासशैलवनकानना भास्करोनिष्प्रभश्चासीन्नवनौचापिमारुतः
Verse 20
ततोदेवास्सगन्धर्वास्सिद्धाश्चपरमर्षयः चिन्तामापेदिरेसर्वेसकिन्नरमहोरगाः
Verse 21
स्वस्तिगोब्राह्मणेभ्योऽस्तुलोकास्तिष्ठन्तुशाश्वताः जयतांराघयसङ्ख्येरावणंराक्षसेश्वरम् एवंजपन्तोऽपश्यंस्तेदेवास्सर्षिगणास्तदा रामरावणयोर्युद्धंसुघोरंरोमहर्षणम्
Verse 22
स्वस्तिगोब्राह्मणेभ्योऽस्तुलोकास्तिष्ठन्तुशाश्वताः जयतांराघयसङ्ख्येरावणंराक्षसेश्वरम् एवंजपन्तोऽपश्यंस्तेदेवास्सर्षिगणास्तदा रामरावणयोर्युद्धंसुघोरंरोमहर्षणम्
Verse 23
गन्धर्वाप्सरसांसङ्घादृष्टवायुद्धमनूपमम् गगनंगगनाकारंसागरस्सागरोपमः रामरावणयोर्युद्धंरामरावणयोरिव एवंब्रुवन्तोददृशुस्तद्युद्धंरामरावणम्
Verse 24
गन्धर्वाप्सरसांसङ्घादृष्टवायुद्धमनूपमम् गगनंगगनाकारंसागरस्सागरोपमः रामरावणयोर्युद्धंरामरावणयोरिव एवंब्रुवन्तोददृशुस्तद्युद्धंरामरावणम्
Verse 25
ततःक्रोधान्महाबासूरघूणांकीर्तिवर्धनः सन्धायधनुषारामश्शरमाशीविषोपमम् रावणस्यशिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् तछचिरःपतितंभूमौदृष्टंइलोकैस्त्रिभिस्तदा
Verse 26
ततःक्रोधान्महाबासूरघूणांकीर्तिवर्धनः सन्धायधनुषारामश्शरमाशीविषोपमम् रावणस्यशिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् तछचिरःपतितंभूमौदृष्टंइलोकैस्त्रिभिस्तदा
Verse 27
तस्यैवसदृशंचान्यद्रावणस्योत्थितंशिरः तत्क्षिप्तंक्षिप्रहस्तेनरामेणक्षिप्रकारिणा
Verse 28
द्वितीयंरावणशिरश्छिन्नंसम्यतिसायकैः छिन्नमात्रं च तच्चीर्षंपुनरेवप्रदृश्यते
Verse 29
तदप्यशनिसङ्काशैश्छिन्नंरामस्यसायकैः एवमेवशतंछिन्नंशिरसांतुल्यवर्चसाम्
Verse 30
न चैवरावणस्यान्तोदृश्यतेजीवितक्षये ततस्सर्वास्त्रविद्वीरःकौसल्यानन्दवर्धनः मार्गणैर्बहुभिर्युक्तश्चिन्तयामासराघवः
Verse 31
मारीचोनिहतोयैस्तुखरोयैस्तुसदूषणः क्रौञ्चावनेविराधस्तुकबन्धोदण्डकेवने यैस्सालागिरयोभग्नावाली च क्षुभितोऽम्बुधिः त इमेसायकास्सर्वेयुद्धेप्रात्ययिकामम किनुतत्कारणंयेनरावणेमन्दतेजसः
Verse 32
मारीचोनिहतोयैस्तुखरोयैस्तुसदूषणः क्रौञ्चावनेविराधस्तुकबन्धोदण्डकेवने यैस्सालागिरयोभग्नावाली च क्षुभितोऽम्बुधिः त इमेसायकास्सर्वेयुद्धेप्रात्ययिकामम किनुतत्कारणंयेनरावणेमन्दतेजसः
Verse 33
मारीचोनिहतोयैस्तुखरोयैस्तुसदूषणः क्रौञ्चावनेविराधस्तुकबन्धोदण्डकेवने यैस्सालागिरयोभग्नावाली च क्षुभितोऽम्बुधिः त इमेसायकास्सर्वेयुद्धेप्रात्ययिकामम किनुतत्कारणंयेनरावणेमन्दतेजसः
Verse 34
इतिचिन्तापरश्चासीदप्रमत्तश्चसम्युगे ववर्षशरवर्षाणीराघवोरावणोरसि
Verse 35
रावणोऽपिततःक्रुद्धोरथस्थोराक्षसेश्वरः गदामुसलवर्षेणरामंप्रत्यर्दयद्रणे
Verse 36
तत्प्रवृत्तंमहद्युद्धंतुमुलंरोमहर्षणम् अन्तरिक्षे च भूमौ च पुनश्चगिरिमूर्धनि
Verse 37
देवदानवयक्षाणांपिशाचोरगरक्षसाम् पश्यतांतन्महायुद्धंसप्तरात्रमवर्तत
Verse 38
नैव रात्रिं न दिवसंमुहूर्तं न च क्षणम् रामरावणयोर्युद्धंविराममुपगच्छति
0:000:00
Speed: