Book 6 • Chapter 111
Sarga 111
33 verses
Verse 1
अथसंस्मारयामासमातलिराघवंतदा अजानन्निवकिंवीरत्वमेनमनुवर्तसे
Verse 2
विसृजास्मैवधायत्वमस्त्रंपैतामहंप्रभो विनाशकालःकथितोःयःसुरैःसोऽद्यवर्तते
Verse 3
ततःसंस्मारितोरामस्तेनवाक्येनमातलेः जग्राह स शरंदीप्तंनिःश्वसन्तमिवोरगम् यंतस्मैप्रथमंप्रादादगस्त्योभगवानृषिः ब्रह्मदत्तंमहाबाणममोघंयुधिवीर्यवान्
Verse 4
ततःसंस्मारितोरामस्तेनवाक्येनमातलेः जग्राह स शरंदीप्तंनिःश्वसन्तमिवोरगम् यंतस्मैप्रथमंप्रादादगस्त्योभगवानृषिः ब्रह्मदत्तंमहाबाणममोघंयुधिवीर्यवान्
Verse 5
ब्रह्मणानिर्मितंपूर्वमिन्द्रार्थममितौजसा दत्तंसुरपतेःपूर्वंत्रिलोकजयकाङ्क्षिणः
Verse 6
यस्यवाजेषुपवनःफलेपावकभास्करौ शरीरमाकाशमयंगौरवेमेरुमन्दरौ
Verse 7
जाज्वल्यमानंवपुषासुपुङ्खंहेमभूषितम् तेजसासर्वभूतानांकृतंभास्करवर्चसम्
Verse 8
सधूममिवकालानगिंदीप्तमाशीविषोपमम् नरनागाश्ववृद्धानांभेदनंक्षिप्रकारिणम्
Verse 9
द्वाराणांपरिघाणां च गिरीणांचापिभेदनम् नानारुधिरदिग्धाङ्गंमेदोदिग्धंसुदारुणम्
Verse 10
वज्रसारंमहानादंनानासमितिदारणम् सर्ववित्रासनंभीमंश्वसन्तमिवपन्नगम्
Verse 11
कङ्कगृध्रबकानां च गोमायुगणरक्षसाम् नित्यंभक्षप्रदंयुद्धेयमरूपंभयापहम्
Verse 12
नन्दनंवानरेन्द्राणांरक्षसामवसादनम् वाजितंविविधैर्वाजैश्चारुचित्रैर्गरुत्मतः
Verse 13
तमुत्तमेषुंलोकानामिक्ष्वाकुभयनाशनम् द्विषतांकीर्तिहरणंप्रहर्षकरमात्मनः अभिम्नत्यततोरामस्तंमहेषुंमहाबलः वेदप्रोक्तेनविधिनासन्दधेकार्मुकेबली
Verse 14
तमुत्तमेषुंलोकानामिक्ष्वाकुभयनाशनम् द्विषतांकीर्तिहरणंप्रहर्षकरमात्मनः अभिम्नत्यततोरामस्तंमहेषुंमहाबलः वेदप्रोक्तेनविधिनासन्दधेकार्मुकेबली
Verse 15
तस्मिन् सधनीयमानेतुराघवेणशरोत्तमे सर्वभूतानिसन्त्रेसुश्चचाल च वसुन्धरा
Verse 16
स रावणायसङ्रुद्धोभृशमायम्यकार्मुकम् चिक्षेपपरमायत्तःशरंमर्मविदारणम्
Verse 17
स वज्रइवदुर्धर्षोवज्रिबाहुविसर्जितः कृतान्तइवचावार्योन्यपतद्रावणोरसि
Verse 18
स विसृष्टोमहावेगश्शरीरान्तकरश्शरः चिच्छेदहृदयंतस्यरावणस्यदुरात्मनः
Verse 19
रुधिराक्तस्सवेगेनशरीरान्तकरःशरः रावणस्यहरन्प्राणान्विवेशधरणीतलम्
Verse 20
स शरोरावणंहत्वारुधिरार्द्रीकृतच्छविः कृतकर्मानिभृतवत्स्वतूणींपुनराविशत्
Verse 21
तस्यहस्ताद्धतस्याशुकार्मुकं च ससायकम् निपपातसहप्राणैर्भ्रश्यमानस्यजीवितात्
Verse 22
गतासुर्भीमवेगस्तुनैरृतेन्द्रोमहाद्युतिः पपातस्यन्दनाद्भूमौवृत्रोवज्रहतोयथा
Verse 23
तंदृष्टवापतितंभूमौहतशेषानिशाचराः हतनाधाभयत्रस्तास्सर्वतस्सम्प्रदुद्रुवुः
Verse 24
सर्वतश्चाभिपेतुस्तान्वानराद्रुमयोधिनः दशग्रीववधंदृष्टवावानराजितकाशिनः
Verse 25
अर्दितावानरैर्भ्रष्टालङ्कामभ्यपतन् भयात् हताश्रयात्वात्करुणैर्भाष्पप्रस्रवणैर्मुखैः
Verse 26
ततोविनेदुःसम्हृष्टावानराःजितकाशिनः वदन्तोराघवजयंरावणस्य ज तद्वधम्
Verse 27
अथान्तरिक्षेव्यनदत्सौम्यस्त्रिदशदुन्धुभिः दिव्यगन्धशहस्तत्रमारुतस्सुसुकोववौ
Verse 28
निपपातान्तरिक्षाच्चपुष्पवृष्टिस्तदाभुवि किरन्तीराघवरथंदुरवापामनोहरा
Verse 29
राघवस्तवसंयुक्तागगने च विशुश्रुवे साधुसाध्वितिवागग्य्रादेवतानांमहात्मनाम्
Verse 30
अविवेशमहान् हर्षोदेवानांचारणैःसह रावणेनिहतेरौद्रेसर्वलोकभयङ्करे
Verse 31
ततःसकामंसुग्रीवमङ्गदं च विभीषणम् चकारराघवःप्रीतोहत्वाराक्षसपुङ्गवम्
Verse 32
ततःप्रजग्मुःप्रशमंमरुद्गणादिशःप्रसेदुर्विमलंनभोऽभवत् महीचकम्पे न च मारुतोववौस्थिरप्रभश्चाप्यभवद्दिवाकरः
Verse 33
ततस्तुसुग्रीवविभीषणाङ्गदाःसुहृद्विशिष्टास्सहलक्ष्मणास्तदा समेत्यहृष्टाविजयेनराघवंरणेऽभिरामंविधिनाभ्यपूजयन्
0:000:00
Speed: