Book 6 • Chapter 113
Sarga 113
25 verses
Verse 1
रावणंनिहतंदृष्टवाराघवेणमहात्मना अन्तःपुराद्विनिष्पेतूराक्षस्यश्शोककर्शिताः
Verse 2
वार्यमाणास्सुबहुशोवेष्टन्त्यःक्षितिपांसुषु विमुक्तकेश्यश्शोकार्तागावोवत्सहतायथा
Verse 3
उत्तरेणविनिष्क्रम्यद्वारेणसहराक्षसैः प्रविश्यायोधनंघोरंविचिन्वन्त्वोहतंपतिम् आर्यपुत्रेतिवादिन्योहानाथेति च सर्वशः परिपेतुःकबन्धाङ्कांमहींशोणितकर्दमाम्
Verse 4
उत्तरेणविनिष्क्रम्यद्वारेणसहराक्षसैः प्रविश्यायोधनंघोरंविचिन्वन्त्वोहतंपतिम् आर्यपुत्रेतिवादिन्योहानाथेति च सर्वशः परिपेतुःकबन्धाङ्कांमहींशोणितकर्दमाम्
Verse 5
ताबाष्पपरिपूर्णाक्ष्योभर्तृशोकपराजिताः करेण्वइवनर्द्नत्योविनेदुर्हतयूथपाः
Verse 6
ददृशुस्तामहाकायंमहावीर्यंमहाद्युतिम् रावणंनिहतम्भूमौनीलाञ्जनचयोपमम्
Verse 7
ताःपतिंसहसादृष्टवाशयानंरणपांसुषु निपेतुस्तस्यगात्रेषुछिन्नावनलताइव
Verse 8
बहुमानात्परिष्वज्यकाचिदेवंरुरोद ह चरणौकाचिदालम्ब्यकाचित्कण्ठेऽवलम्ब्य च
Verse 9
उत्क्षिप्य च भुजौकाचिद्भूमौसुपरिवर्तते हतस्यवदनंदृष्टवाकाचिन्मोहमुपागमत्
Verse 10
काचिदङ्केशिरःकृत्वारुरोदमुखमीक्षती स्नापयन्तीमुखंबाष्पैस्तुषारैरिवपङ्कजम्
Verse 11
एवमार्ताःपतिंदृष्टवारावणंनिहतंभुवि चुक्रुशुर्भहुधाशोकाद्भूयस्ताःपर्यदेवयन्
Verse 12
येनमित्रासितःशक्रोयेनवित्रासितोयमः येनवैश्रवणोराजापुष्पकेणवियोजितः गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् भयंयेनरणेदत्तंसोऽयंशेतेरणेहतः
Verse 13
येनमित्रासितःशक्रोयेनवित्रासितोयमः येनवैश्रवणोराजापुष्पकेणवियोजितः गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् भयंयेनरणेदत्तंसोऽयंशेतेरणेहतः
Verse 14
असुरेभ्यःसुरेभ्योवापन्नगेभ्योऽपिवातथा भयंयो न विजानातितस्येदंमानुषाद् भयम्
Verse 15
अवध्योदेवतानांयस्तथादानवराक्षसाम् हतःसोऽयंरणेशेतेमानुषेणपदातिना
Verse 16
यो न शक्यस्सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा सोऽयंकश्चिदिवासत्त्वोमृत्युंमर्त्येनलम्भितः
Verse 17
एवंवदन्त्योरुरुदुस्तस्यतादुःखिताःस्त्रियः भूयएव च दुःखार्ताविलेपुश्चपुनःपुनः
Verse 18
अशृण्वतातुसुहृदांसततंहितवादिनाम् मरणायहृतासीताराक्षसाश्चनिपातिताः एतास्सममिदानींतेवयमात्मा च पातितः
Verse 19
ब्रुवाणोऽपिहितंवाक्यमिष्टोभ्राताविभीषणः धृष्टंपरुषितोमोहत्त्वयात्मवथकाङ्क्षिणा
Verse 20
दिनिर्यातितातेस्वासतीतारामायमैथिली ननस्स्याद्व्यसनंघोरमिदंमूलहरंमहत्
Verse 21
वृत्तकामोभवेद्भ्रातारामोमित्रकुलंभवेत् वयंचाध्विवाःसर्वाःसकमा न च शत्रवः
Verse 22
त्वयापुनर्नृशंशंसेनसीतांसंरुन्धताबलात् राक्षसावयमात्मा च त्रयंतुल्यंनिपातितम्
Verse 23
न कामकारःकामंवातवराक्षसपुङ्गव दैवंचेष्टयतेसर्वंहतंदैवेनहन्यते
Verse 24
वानराणांविनाशोऽयंराक्षसानां च तेरणे तवचैवमहाबाहो दैवयोगादुपागतः
Verse 25
नैवार्थेन न कामेनविक्रमेण न चाज्ञया शक्यादैवगतिर्लोकेनिवर्तयितुमुद्यता
0:000:00
Speed: