Book 6 • Chapter 115
Sarga 115
25 verses
Verse 1
तेरावणवधंदृष्टवादेवगन्धर्वदानवाः जग्मुस्स्वैस्वैर्विमानैस्तेकथयन्तश्शुभाःकथाः
Verse 2
रावणस्यवधंघोरंराघवस्यपराक्रमम् सुयुद्धंवानराणां च सुग्रीवस्य च मन्त्रितम् अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च पतिव्रतात्वंसीतायाहनूमतिपराक्रमम् कथयन्तोमहाभागाजग्मुर्हष्टायथागतम्
Verse 3
रावणस्यवधंघोरंराघवस्यपराक्रमम् सुयुद्धंवानराणां च सुग्रीवस्य च मन्त्रितम् अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च पतिव्रतात्वंसीतायाहनूमतिपराक्रमम् कथयन्तोमहाभागाजग्मुर्हष्टायथागतम्
Verse 4
राघवस्तुरथंदिव्यमिन्द्रदत्तंशिखिप्रभम् अनुज्ञायमहाभागोर्मातलिंप्रत्यपूजयत्
Verse 5
राघवेणाभ्यनुज्ञातोमातलिश्शक्रसारथिः दिव्यंतंरथमास्थायदिवमेवारूरोहसह
Verse 6
तस्मिंस्तुदिवमारूढेसुसारथिसन्तमे राघवःपरमप्रीतस्सुग्रीवंपरिषस्वजे
Verse 7
परिष्वज्य च सुग्रीवंलक्ष्मणेनाभिवादितः पूज्यमानोहरिगणैराजगामबलालयम्
Verse 8
अथोवाच स काकुत्स्थस्समीपपरिवर्तिनम् सौमित्रिंसत्त्वसम्पन्नंलक्ष्मणंशुभलक्षणम्
Verse 9
भीषणमिमंसौम्य लङ्कायामभिषेचय अनुरक्तं च भक्तं च तथापूर्वोपकारिणम्
Verse 10
एषमेपरमःकामोयदिमंरावणानुजम् लङ्कायांसौम्य पश्येमभिषिक्तंविभीषणम्
Verse 11
एवमुक्तस्तुसौमित्रीराघवेणमहात्मना तथेत्युक्त्वासुसम्हृष्टःसौवर्णंघटमाददे
Verse 12
तम्घटंवानरेन्द्राणांहस्तेदत्त्वामनोजवान् व्यादिदेशमहासत्त्व: समुद्रसलिलंतदा
Verse 13
अतिशीघ्रंततोगत्वावानरास्तेमनोजवाः आगतास्तुजलंगृह्यसमुद्राद्वानरोत्तमाः
Verse 14
ततःस्त्वेकंघटंगृह्यसम्स्थाप्यपरमासने घटेनतेनसौमित्रिरभ्यषिञ्चद्विभीषणम् लङ्कायांरक्षसांमध्येराजानंरामशासनात् विधिनामन्त्रदृष्टेनसुहृद्गणसमावृतः
Verse 15
ततःस्त्वेकंघटंगृह्यसम्स्थाप्यपरमासने घटेनतेनसौमित्रिरभ्यषिञ्चद्विभीषणम् लङ्कायांरक्षसांमध्येराजानंरामशासनात् विधिनामन्त्रदृष्टेनसुहृद्गणसमावृतः
Verse 16
अभ्यषिञ्चंस्तदासर्वेराक्षसावानरास्तथा प्रहर्षमतुलंगत्वातुष्टुवूराममवे ह
Verse 17
तस्यामात्याजहृषिरेभक्तायेचास्यराक्षसाः दृष्टवाभिषिक्तंलङ्कायांराक्षसेन्द्रंविभीषणम्
Verse 18
राघवःपरमांप्रीतिंजगामसहलक्ष्मणः स तद्राज्यंमहत्प्राप्यरामदत्तंविभीषणः
Verse 19
प्रकृतयस्सान्त्वयित्वा च ततोराममुपागमत् दध्यक्षतान्मोदकांश्चलाजास्सुमनसस्तथा आजह्रुरथसन्तुष्टाःपौरास्तस्मैनिशाचराः
Verse 20
प्रकृतयस्सान्त्वयित्वा च ततोराममुपागमत् दध्यक्षतान्मोदकांश्चलाजास्सुमनसस्तथा आजह्रुरथसन्तुष्टाःपौरास्तस्मैनिशाचराः
Verse 21
सःतान् गृहीत्वादुर्धर्षोराघवायन्यवेदयत् माङ्गल्यंमङ्गलंसर्वंलक्ष्मणाय च वीर्यवान्
Verse 22
कृतकार्यंसमृद्धार्थंदृष्टवारामोविभीषणम् प्रतिजग्राहतत्सर्वंतस्यैवप्रियकाम्यया
Verse 23
ततःशैलोपमंवीरंप्राञ्जलिंप्रणतंस्थितम् उवाचेदंवचोरामोहनूमन्तंप्लवङ्गमम्
Verse 24
अनुज्ञाप्यमहाराजमिमंसौम्य विभीषणम् प्रविश्यनगरींलङ्कांकौशलंब्रूहिमैथिलीम्
Verse 25
वैदेह्यैमांकुशलिनंसुग्रीवं च सलक्ष्मणम् आचक्ष्ववदतांश्रेष्ठरावणं च हतंरणे
0:000:00
Speed: