Book 6 • Chapter 122
Sarga 122
38 verses
Verse 1
एतच्छ्रुत्वाशुभंवाक्यंराघवेणानुभाषितम् ततश्शुभतरंवाक्यंव्याजहारमहेश्वरः
Verse 2
पुष्कराक्ष महाबाहो महावक्ष परन्तप दिष्ट्याकृतमिदंकर्मत्वयाधर्मभृतांवर
Verse 3
दिष्ट्यासर्वस्यलोकस्यप्रवृद्धंदारुणंतमः अपावृत्तंत्वयासङ्ख्येरामरावणजंभयम्
Verse 4
आश्वास्यभरतंदीनंकौसल्यां च यशस्विनीम् कैकेयीं च सुमित्रां च दृष्टवालक्ष्मणमातरम् प्राप्यराज्यमयोध्यायांनन्दयित्वासुहृज्जनम् इक्ष्वाकूणांकुलेवंशंस्थापयित्वामहाबल इष्टवातुरगमेधेनप्राप्यचानुत्तमंयशः ब्राह्मणेभ्योधनंदत्त्वात्रिदिवंगन्तुमर्हसि
Verse 5

Verse 6

Verse 7
एषराजादशरथोविमानस्थःपितातव काकुत्स्थमानुषेलोकेगुरुस्तवमहायशाः
Verse 8
इन्द्रलोकंगतःश्रीमांस्त्वयापुत्रेणतारितः लक्ष्मणेनसहभ्रात्रात्वमेममभिवादय
Verse 9
महदेववच्श्रुत्वाराघवःसहलक्ष्मणः लक्ष्मणेनसहभ्रात्राददर्शपितरंप्रभुः
Verse 10
दीप्यमानंस्वयालक्ष्मविरजोऽम्भरधारिणम् लक्ष्मणेनसहभ्रात्राददर्शपितरंप्रभुः
Verse 11
हर्षेणमहताविष्टोविमनस्थोमहीपतिः प्राणैःप्रियतरंदृष्टवापुत्रंदशरथस्तदा आरोप्याङ्केमहबाहुर्वरासनगतःप्रभुः बाहुभ्यांसम्परिष्वज्यततोवाक्यंसमाददे
Verse 12
हर्षेणमहताविष्टोविमनस्थोमहीपतिः प्राणैःप्रियतरंदृष्टवापुत्रंदशरथस्तदा आरोप्याङ्केमहबाहुर्वरासनगतःप्रभुः बाहुभ्यांसम्परिष्वज्यततोवाक्यंसमाददे
Verse 13
न मेस्वर्गोबहुमतस्सम्मानश्चसुरर्षभैः त्वयारामविहीनस्यसत्यंप्रतिशृणोमिते
Verse 14
अद्यत्वांनिहतामित्रंदृष्टवासम्पूर्णमानसम् निस्तीर्णवनवासं च प्रीतिरासीत्परामम
Verse 15
कैकेय्यायानिचोक्तानिवाक्यानिवदतांवर तवप्रव्राजनार्थानिस्थितानिहृदयेमम
Verse 16
त्वांतुदृष्टवाकुशलिनंपरिष्वज्यसलक्ष्मणम् अद्यदुःखाद्विमुक्तोऽस्मिनीहारादिवभास्करः
Verse 17
तारितोऽहंत्वयापुत्र सुपुत्रेणमहात्मना अष्टावक्रेणधर्मात्माकहोलोब्राह्मणोयथा
Verse 18
इदानीं च विजानामियथासौम्य सुरेश्वरैः वधार्थंरावणस्येहविहितंपुरुषोत्तम
Verse 19
सिद्धार्थाखलुकौसल्यायात्वांराम गृहंगतम् वनान्निवृत्तंसंहृष्टाद्रक्ष्यतेशत्रुसूदनम्
Verse 20
सिद्धार्थाःखलुतेराम नरायेत्वांपुरींगतम् राज्येचावाभिषिक्तं च द्रक्ष्यन्तेवसुधाधिपम्
Verse 21
अनुरक्तेनबलिनाशुचिनाधर्मचारिणा इच्छेयंत्वामहंद्रष्टुंभरतेनसमागतम्
Verse 22
चतुर्दशसमास्सौम्यवनेनिर्यातितास्त्वया वसतासीतयासार्धंलक्ष्मणेन च धीमता
Verse 23
निवृत्तवनवासोऽसिप्रतिज्ञापूरितात्वया रावणं च रणेहत्वादेवताःपरितोषिताः
Verse 24
कृतंकर्मयशश्श्लाघ्यंप्राप्तंतेशत्रुसूदन भ्रातृभिःसहराज्यस्थोदीर्घमायुरवाप्नुहि
Verse 25
इतिब्रुवाणंराजानंरामःप्राञ्जलिरब्रवीत् कुरुप्रसादंधर्मज्ञकैकेय्याभरतस्य च
Verse 26
सपुत्रांत्वांत्यजामीतियदुक्ताकेकयीत्वया स शापःकेकयींघोरस्सपुत्रां न स्पृशेत्प्रभो
Verse 27
तथेति स महाराजोराममुक्त्वाकृताञ्जलिम् लक्ष्मणं च परिष्वज्यपुनर्वाक्यमुवाच ह
Verse 28
रामंशुश्रूषताभक्त्यावैदेह्यासहसीतया कृतमममहाप्रीतिःप्राप्तंधर्मफलं च ते
Verse 29
धर्मंप्राप्स्यसिधर्मज्ञ यशश्चविपुलंभुवि रामेप्रसन्नेस्वर्गं च महिमानंतथोत्तमाम्
Verse 30
रामंशुश्रूषभद्रंतेसुमित्रानन्दवर्धन रामस्सर्वस्यलोकस्यसुभेष्वभिरतःसदा
Verse 31
एतेसेन्द्रास्त्रयोलोकास्सिद्धाश्चपरमर्षयः अभिगम्यमहात्मानमर्चन्तिपुरुषोत्तमम्
Verse 32
एतत्तदुक्तमव्यक्तमक्षरंब्रह्मनिर्मितम् देवानांहृदयंसौम्य गुह्यंरामःपरन्तप
Verse 33
अवाप्तंधर्मचरणंयशश्चविपुलंत्वया एनंशुश्रूषताभक्त्यावैदेह्यासहसीतया
Verse 34
इत्युक्त्वालक्ष्मणंराजास्नुषांबद्धाञ्जलिंस्थिताम् पुत्रीत्याभाष्यमधुरंशनैरेनामुवाच ह
Verse 35
कर्तव्यो न तुवैदेहीमन्युस्त्यागमिमंप्रति रामेणेत्वद्विशुध्यर्थंकृतमेतद्धितैषिणा
Verse 36
सुदुष्करमिदंपुत्रितवचारित्रलक्षणम् कृतंयत्तेऽन्यनारीणांयशोह्यभिभविष्यति
Verse 37
न त्वंकामंसमाधेयाभर्तृशुश्रूषणंप्रति अवश्यंतुमयावाच्यमेषतेदैवतंपरम्
Verse 38
इतिप्रतिसमादिश्यपुत्रौसीतां च राघवः इन्द्रलोकंविमानेनययौदशरथोज्वलन्
0:000:00
Speed: