Book 6 • Chapter 123
Sarga 123
23 verses
Verse 1
प्रतिप्रयातेकाकुत्स्थेमहेन्द्रःपाकशासनः अब्रवीत्परमप्रीतोराघवंप्राञ्जलिंस्थितम्
Verse 2
अमोघंदर्शनंराम तवास्माकंनरर्षभ प्रीतियुक्ताःस्मतेनत्वंब्रूहियन्मनसेप्सितम्
Verse 3
एवमुक्तोमहेन्द्रेणप्रसन्नेनमहात्मना सुप्रसन्नमनाहृष्टोवचनंप्राहराघवः
Verse 4
यदिप्रीतिस्समुत्पन्नामयितेविबुधेश्वर वक्ष्यामिकुरुमेसत्यंवचनंवदतांवर
Verse 5
ममहेतोःपराक्रान्तायेगतायमसादनम् तेसर्वेजीवितंप्राप्यसमुततिष्ठन्तुवानराः
Verse 6
मत्कृतेविप्रयुक्तायेपुत्रैर्दारैश्चवानराः तान्प्रीतमनसःसर्वान्द्रष्टुमिच्छामिमानद
Verse 7
विक्रान्ताश्चापिशूराश्च न मृत्युंगणयन्ति च कृतयत्नाविपन्नाश्चजीवयैनान् पुरन्दर
Verse 8
मत्प्रियेष्वभिरक्ताश्च न मृत्युंगणयन्तिये त्वत्प्रसादात्समेयुस्तेवरमेतमहंवृणे
Verse 9
नीरुजोनिर्व्रणांश्चैवसम्पन्नबलपौरुषान् गोलाङ्गूलांस्तथैवर्क्षांन्द्रष्टुमिच्छामिमानद
Verse 10
अकालेचापिपुष्पाणिमूलानि च फलानि च नद्यश्चविमलास्तत्रतिष्ठेयुर्यत्रवानराः
Verse 11
श्रुत्वातुवचनंतस्यराघवस्यमहात्मनः महेन्द्रःप्रत्युवाचेदंवचनंप्रीतिसंयुतम्
Verse 12
महानयंवरस्तातयस्त्वयोक्तोरघूत्तम वदिर्मयानोक्तपूर्वं च तस्मादेतद्भविष्यति
Verse 13
समुत्तिष्ठन्तुतेसर्वेहतायेयुधिराक्षसैः ऋक्षाश्चसहगोपुच्छैर्निकृत्ताननबाहवः
Verse 14
नीरुजोनिर्व्रणाश्चैवसम्पन्नबलपौरुषाः समुत्थास्यन्तिहरयस्सुप्तानिद्राक्ष्येयथा
Verse 15
सुहृद्भिर्बान्धवैश्चैवज्ञातिभिःस्वजनेन च सर्वएवसमेष्यन्तिसम्युक्ताःपरयामुदा
Verse 16
अकालेपुष्पशबलाःफलवन्तश्चपादपाः भविष्यन्तिमहेष्वास नद्यश्चसलिलायुताः
Verse 17
सव्रणैःप्रथमंगात्रैरिदानींनिर्व्रणैस्समैः ततस्समुत्थितास्सर्वेसुप्त्वेवहरियूथपाः बभूवुर्वानरास्सर्वेकिंन्वेतदितिविस्मिताः
Verse 18
काकुत्स्थंपरिपूर्णार्थंदृष्टवासर्वेसुरोत्तमाः अब्रुवन्परमप्रीतास्स्तुत्वारामंसलक्ष्मणम्
Verse 19
गच्छायोध्यामितोराजन्विसर्जय च वानरान् मैथिलींसान्त्वयस्वैनामनुरक्तांयशस्विनीम्
Verse 20
भ्रारातरंभरतंपश्यत्वच्छोकाद्व्रतचारिणम् शत्रुघ्नं च महात्मानंमात्रूःसर्वाःपरन्तप अभिषेचयचात्मानंपौरान्गत्वाप्रहर्षय
Verse 21
भ्रारातरंभरतंपश्यत्वच्छोकाद्व्रतचारिणम् शत्रुघ्नं च महात्मानंमात्रूःसर्वाःपरन्तप अभिषेचयचात्मानंपौरान्गत्वाप्रहर्षय
Verse 22
एवमुक्त्वासहस्राक्षोरामंसौमित्रिणासह विमानैःसूर्यसङ्काशैर्ययौहृष्टःसुरैःसह
Verse 23
अभिवाद्य च काकुत्स्थ: सर्वांस्तांस्त्रिदशोत्तमान् लक्ष्मणेनसहभ्रात्रावासमाज्ञापयत्तदा
0:000:00
Speed: