Book 6 • Chapter 20
Sarga 20
36 verses
Verse 1
ततोनिविष्टांध्वजिनींसुग्रीवेणाभिपालिताम् ददर्शराक्षसोऽभ्येत्यशार्दूलोनामवीर्यवान्
Verse 2
चारोराक्षसराजस्यरावणस्यदुरात्मनः तांदृष्ट्वासर्वतोव्यग्रंप्रतिगम्यसराक्षसः प्रविश्यलङ्कांवेगेनरावणंवाक्यमब्रवीत्
Verse 3
एषवानरऋक्षौघोलङ्कांसमभिवर्तते अगाधश्चाप्रमेयश्चद्वितीयइवसागरः
Verse 4
पुत्रौदशरथस्येमौभ्रातरौरामलक्ष्मणौ उत्तमौरूपसम्पन्नौसीतायाःपदमागतौ एतौसागरमासाद्यसन्निविष्टौमहाद्युती
Verse 5
पुत्रौदशरथस्येमौभ्रातरौरामलक्ष्मणौ उत्तमौरूपसम्पन्नौसीतायाःपदमागतौ एतौसागरमासाद्यसन्निविष्टौमहाद्युती
Verse 6
बलंचामाकाशमावृत्यसर्वतोदशयोजनम् तत्त्वभूतंमहाराज क्षिप्रंवेदितुमर्हसि
Verse 7
तवदूतामहाराजक्षिप्रमर्हन्त्यवेक्षितुम् उपप्रदानंसान्त्वंवाभेदोवात्रप्रयुज्यताम्
Verse 8
शार्दूलस्यवचश्श्रुत्वारावणोराक्षसेश्वरः उवाचसहसाव्यग्रस्सम्प्रधार्यार्थमात्मनः शुकंनामतदारक्षोवाक्यमर्थविदांवरम्
Verse 9
सुग्रीवंब्रूहिगत्वाशुराजानंवचनान्मम यथासन्देशमक्लीबंश्लक्ष्णयापरयागिरा
Verse 10
त्वंवैमहाराजकुलप्रसूतोमहाबलश्चर् क्षरजस्सुतश्च नकश्चिदार्थस्तवनास्त्यनर्थस्तथाहिमेभ्रातृसमोहरीश
Verse 11
अहंयद्यहरंभार्यांराजपुत्रस्यधीमतः किंतत्रतवसुग्रीव: किष्किन्धांप्रतिगम्यताम्
Verse 12
नहीयंहरिभिर्लङ्काशक्याप्राप्तुंकथञ्चन देवैरपिसगन्धर्वैःकिंपुनर्नरवानरैः
Verse 13
सतथाराक्षसेन्द्रेणसन्दिष्टोरजनीचरः शुकोविहङ्गमोभूत्वातूर्णमाप्लुत्यचाम्बरम्
Verse 14
सगत्वादूरमध्वानमुपर्युपरिसागरम् संस्थितोह्यम्बरेवाक्यंसुग्रीवमिदमब्रवीत्
Verse 15
सर्वमुक्तंयथादिष्टंरावणेनदुरात्मना तंप्रापयन्तंवचनंतूर्णमाप्लुत्यवानराः प्रापद्यन्तदिवंक्षिप्रंलोप्तुंहन्तुंचमुष्टिभि:
Verse 16
सतैःप्लवङ्गैःप्रसभंनिगृहीतोनिशाचरः गगनाद्भूतलेचाशुपरिगृह्यनिपातितः
Verse 17
वानरैःपीड्यमानस्तुशुकोवचनमब्रवीत् नदूतान्घ्नन्तिकाकुत्स्थ वार्यन्तांसाधुवानराः
Verse 18
यस्तुहित्वामतंभर्तुस्स्वमतंसम्प्रभाषते अनुक्तवादीदूतस्सन् सदूतोवधमर्हति
Verse 19
शुकस्यवचनंश्रुत्वारामस्तुपरिदेवितम् उवाचमावधिष्टेतिघ्नतश्शाखामृगर्षभान्
Verse 20
सचपत्रलघुर्भूत्वाहरिभिर्दर्शितेभये अन्तरिक्षेस्थितोभूत्वापुनर्वचनमब्रवीत्
Verse 21
सुग्रीव:स त्त्वसम्पन्न: महाबलपराक्रम: किंमयाखलुवक्तव्योरावणोलोकरावणः
Verse 22
सएवमुक्तःप्लवगाधिपस्तदाप्लवङ्गमानामृषभोमहाबलः उवाचवाक्यंरजनीचरस्यचारंशुकंतूर्णमदीनसत्त्वः
Verse 23
नमेऽसिमित्रंनतथानुकम्प्योनचोपकर्तापिनमेप्रियोऽसि अरिश्चरामस्यसहानुबन्धस्ततोऽसिवालीववधार्हवध्यः
Verse 24
निह्नन्म्यहंत्वांससुतंसबन्धुंसज्ञातिवर्गरजनीचरेश लङ्काञ्चसर्वांमहताबलेनक्षिप्रंकरिष्यामिसमेत्यभस्म
Verse 25
नमोक्षयसेरावण: राघवस्यसुरैस्सहेन्द्रैदपिमूढगुप्तः अन्तर्हितस्सूर्यपथंगतोऽवा तथैवपातालमनुप्रविष्टः गिरीशपादम्बुजसङ्गतोवाहतोऽसिरामेणसहानुजस्त्वम्
Verse 26
नमोक्षयसेरावण: राघवस्यसुरैस्सहेन्द्रैदपिमूढगुप्तः अन्तर्हितस्सूर्यपथंगतोऽवा तथैवपातालमनुप्रविष्टः गिरीशपादम्बुजसङ्गतोवाहतोऽसिरामेणसहानुजस्त्वम्
Verse 27
तस्यतेत्रिषुलोकेषुनपिशाचंनराक्षसम् त्रातारमनुपश्यामिनगन्धर्वंनचासुरम्
Verse 28
अवधीर्यजरावृद्दंगृध्रराजंजटायुषम् किंनुतेरामसान्निध्येसकाशेलक्ष्मणस्यवा हृतासीताविशालाक्षीयांत्वंगृह्यनबुध्यसे
Verse 29
महाबलंमहात्मानंदुर्धर्षममरैरपि नबुध्यसेरघुश्रेष्ठंयस्तेप्राणान्हरिष्यति
Verse 30
ततोऽब्रवीद्वालिसुतस्त्वङ्गदोहरिसत्तमः नायंदूतोमहाराजचारिकःप्रतिभातिमे
Verse 31
तुलितंहिबलंसर्वमनेनात्रैवतिष्ठता गृह्यतांमागमल्लङ्कामेतद्दिममरोचते
Verse 32
ततोराज्ञासमादिष्टास्समुत्पत्यवलीमुखाः जगृहुश्चबबन्धुश्चविलपन्तमनाथवत्
Verse 33
शुकस्तुवानरैश्चण्डैस्तत्रतैस्सम्प्रपीडितः व्याचुक्रोशमहात्मानंरामंदशरथात्मजम्
Verse 34
लुप्येतेमेबलात्पक्षौभिद्येतेमेतथाऽक्षिणी यांचरात्रिंमरिष्यामिजायेरात्रिंचयामहम् एतस्मिन्नन्तरेकालेयन्मयाह्यशुभंकृतम् सर्वंत्वमुपपद्येधाजह्यांचेद्यदिजीवितम्
Verse 35
लुप्येतेमेबलात्पक्षौभिद्येतेमेतथाऽक्षिणी यांचरात्रिंमरिष्यामिजायेरात्रिंचयामहम् एतस्मिन्नन्तरेकालेयन्मयाह्यशुभंकृतम् सर्वंत्वमुपपद्येधाजह्यांचेद्यदिजीवितम्
Verse 36
नाघातयत्तदारामश्श्रुत्वातत्परिदेवनम् वानरानब्रवीद्रामोमुच्यतांदूतआगतः
0:000:00
Speed: