🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 19

Sarga 19

42 verses

Verse 1
राघवेणाभयेदत्तेसन्नतोरावणानुजः विभीषणोमहाप्राज्ञोभूमिंसमवलोकयन्
Verse 2
खात्पपातावनींहृष्टोभक्तेरनुचरैस्सह सतरामस्यपरमात्मानिपपातविभीषणः
Verse 3
पादयोश्शरणान्वेषीचतुर्भिस्सहराक्षसैः अब्रवीच्चतदावाक्यंरामंप्रतिविभीषणः धर्मयुक्तंचयुक्तंचसाम्प्रतंसम्प्रहर्षणम्
Verse 4
अनुजोरावणस्याहंतेनचाप्यवमानितः भवन्तंसर्वभूतानांशरण्यंशरणागतः
Verse 5
परित्यक्तामयालङ्कमित्राणिचधनानिच भवद्गतंहिमेराज्यंजीवितंचसुखानिच
Verse 6
तथ्यतद्वचनंश्रुत्वारामोवचनमब्रवीत् वचसासान्त्वयित्वैनंलोचनाभ्यांपिबन्निव आख्याहिममतत्त्वेनराक्षसानांबलाबलम्
Verse 7
तथ्यतद्वचनंश्रुत्वारामोवचनमब्रवीत् वचसासान्त्वयित्वैनंलोचनाभ्यांपिबन्निव आख्याहिममतत्त्वेनराक्षसानांबलाबलम्
Verse 8
एवमुक्तंतदारक्षोरामेणाक्लिष्टकर्मणा रावणस्यबलंसर्वमाख्यातुमुपचक्रमे
Verse 9
अवध्यस्सर्वभूतानांगन्धर्वोरगरक्षसाम् राजपुत्रदशग्रीवोवरदानात्स्वयंभुवः
Verse 10
रावणानन्तरोभ्राताममज्येष्ठश्चवीर्यवान् कुम्भकर्णोमहातेजाश्शक्रप्रतिबलोयुधि
Verse 11
रामसेनापतिस्तस्यप्रहास्तोयदिवाश्रुतः कैलासेयेनसङ्ग्रामेमणिभद्रःपराजितः
Verse 12
बद्धगोधाङ्गुळित्रश्चअवध्यकवचोयुधि धनुरादाययस्तिष्टन्नदृश्योभवतीन्द्रजित्
Verse 13
सङ्ग्रामसमयव्यूहेतर्पयित्वाहुताशनम् अन्तर्धानगतश्शत्रूनिन्द्रजिद् हन्तिराघव:
Verse 14
महोदरमहापार्श्वौराक्षसश्चाप्यकम्पनः अनीकस्थास्तुतस्यैतेलोकपालसमायुधि
Verse 15
दशकोटिसहस्राणिरक्षसांकामरूपिणाम् मांसशोणितभक्ष्याणांलङ्कापुरनिवासिनाम्
Verse 16
सतैस्तुसहितोराजालोकपालानयोधयत् सहदेवैस्तुतेभग्नारावणेनमहात्मना
Verse 17
विभीषणवच: श्रुत्वारामोदृढपराक्रमः अन्वीक्ष्यमनसासर्वमिदंवचनमब्रवीत्
Verse 18
यानिकर्मापदानानिरावणस्यविभीषण: अख्यातानिचतत्त्वेनह्यवगच्छामितान्यहम्
Verse 19
अहंहत्वादशग्रीवंसप्रहस्तंसबान्धवम् राजानंत्वांकरिष्यामिसत्यमेतद्ब्रवीमिते
Verse 20
रसातलंवाप्रविशेत्पाताळंवापिरावणः पितामहासकाशंवानमेजीवन्विमोक्ष्यते
Verse 21
अहत्वारावणंसङ् ख्येसपुत्रजनबान्धवम् अयोध्यांनप्रवेक्ष्यामित्रिभिस्तैर्भ्रातृभिश्शपे
Verse 22
श्रुत्वातुवचनंतस्यरामस्याक्लिष्टकर्मणः शिरसावन्द्यधर्मात्मावक्तुमेवोपचक्रमे
Verse 23
राक्षसानांवधेसाह्यंलङ्कायाश्चप्रधर्षणे करिष्यामियथाप्राणंप्रवेक्ष्यामिचवाहिनीम्
Verse 24
इतिब्रुवाणांरामस्तुपरिष्वज्यविभीषणम् अब्रवील्लक्ष्मणंप्रीतस्समुद्राज्जलमानय
Verse 25
तेनचेमंमहाप्राज्ञमभिषिञ्चविभीषणम् राजानंरक्षसांक्षिप्रंप्रसन्नेमयिमानद
Verse 26
एवमुक्तस्तुसौमित्रिरभ्यषिञ्चद्विभीषणम् मध्येवानरमुख्यानांराजानंरामशासनात्
Verse 27
तंप्रसादंतुरामस्यदृष्टवासद्यःप्लवङ्गमाः प्रचुक्रुशुर्महात्मानंसाधुसाध्वितिचाब्रुवन्
Verse 28
अथाब्रवीद् हनूमांश्चसुग्रीवश्चविभीषणम् कथंसागरमक्षोभ्यंतरामवरुणालयम् सैन्यैःपरिवृतास्सर्वेवानराणांमहौजसाम्
Verse 29
उपायंनाधिगच्छामोयथानदनदीपतिम् तरामतरसासर्वेससैन्यावरुणालयम्
Verse 30
एवमुक्तस्तुधर्मज्ञःप्रत्युवाचविभीषणः समुद्रंराघवोराजाशरणंगन्तुमर्हति
Verse 31
खानितस्सगरेणायमप्रमेयोमहोदधिः कर्तुमर्हतिरामस्यज्ञाते: कार्यंमहामतिः
Verse 32
एवंविभीषणेनोक्तोराक्षसेनविपश्चिता अजगामाथसुग्रीवोयत्ररामस्सलक्ष्मणः
Verse 33
ततश्चाख्यातुमारेभेविभीषणवचश्शुभम् सुग्रीवोविपुलग्रीवोस्सागरस्योपवेशनम्
Verse 34
प्रकृत्याधर्मशीलस्यराघवस्याप्यरोचत सलक्ष्मणंमहातेजास्सुग्रीवंचहरीश्वरम् सत्क्रियार्थंक्रियादक्षंस्मितपूर्वमुवाचह
Verse 35
प्रकृत्याधर्मशीलस्यराघवस्याप्यरोचत सलक्ष्मणंमहातेजास्सुग्रीवंचहरीश्वरम् सत्क्रियार्थंक्रियादक्षंस्मितपूर्वमुवाचह
Verse 36
विभीषणस्यमन्त्रोऽयंममलक्ष्मण रोचते सुग्रीवःपण्डितोनित्यंभवान्मन्त्रविचक्षणः उभाभ्यांसम्प्रधार्यार्थंरोचतेयत्तदुच्यताम्
Verse 37
एवमुक्तौततोवीरावुभौसुग्रीवलक्ष्मणौ समुदाचारसंयुक्तमिदंवचनमूचतुः
Verse 38
किमर्थनौनरव्याघ्र: नरोचिष्यतिराघव: विभीषणेनयच्चोक्तमस्मिन् कालेसुखावहम्
Verse 39
अबध्वासागरेसेतुंघोरेऽस्मिन्वरुणालये लङ्कानासादितुंशक्यासेन्द्रैरपिसुरासुरैः
Verse 40
विभीषणस्यशूरस्ययथार्थंक्रियतांवचः अलंकालात्ययंकृत्वासागरोऽयंनियुज्यताम् यथासैन्येनगच्छामपुरींरावणपालिताम्
Verse 41
विभीषणस्यशूरस्ययथार्थंक्रियतांवचः अलंकालात्ययंकृत्वासागरोऽयंनियुज्यताम् यथासैन्येनगच्छामपुरींरावणपालिताम्
Verse 42
एवमुक्तःकुशास्तीर्नोतीरेनदनदीपतेः संविवेशतदारामोवेद्यामिवहुताशनः
0:000:00
Speed: