🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 18

Sarga 18

38 verses

Verse 1
अथरामःप्रसन्नात्माशृत्वावायुसुतस्यह प्रत्यभाषतदुर्धषश्रुतवानात्मनिस्थितम्
Verse 2
ममापितुविवक्षाऽस्तिकाचित्प्रतिविभीषणम् श्रोतुमिच्छामितत्सर्वंभवद्भिश्श्रेयसिस्थितैः
Verse 3
मित्रभावेनसम्प्राप्तंनत्यजेयंकथञ्चन दोषोयद्यपितस्यस्यात्सतामेतदगर्हितम्
Verse 4
सुग्रीस्त्वथतद्वाक्यमाभाष्यचविमृश्यच ततश्शुभतरंवाक्यमुवाचहरिपुङ्गवः
Verse 5
सुदुष्टोवाप्यदुष्टोवाकिमेषरजनीचरः ईदृशंव्यसनंप्राप्तंभ्रातरंयःपरित्यजेत् कोनामसभवेत्तस्ययमेषनपरित्यजेत्
Verse 6
वानराधिपतेर्वाक्यंश्रुत्वासर्वानुदीक्ष्यच ईषदुत्स्मयमानस्तुलक्ष्मणंपुण्यलक्षणम् इतिहोवाचकाकुत्स्थोवाक्यंसत्यपराक्रमः
Verse 7
वानराधिपतेर्वाक्यंश्रुत्वासर्वानुदीक्ष्यच ईषदुत्स्मयमानस्तुलक्ष्मणंपुण्यलक्षणम् इतिहोवाचकाकुत्स्थोवाक्यंसत्यपराक्रमः
Verse 8
अनधीत्यचशास्त्राणिवृद्धाननुपसेव्यच नशक्यमीदृशंवक्तुंयदुवाचहरीश्वरः
Verse 9
अस्तिसूक्ष्मतरंकिंचिद्यदत्रप्रतिभातिमे प्रत्यक्षंलौकिकंचापिविद्यतेसर्वराजसु
Verse 10
अमित्रास्तत्कुलीनाश्चप्रातिदेश्याश्चकीर्तिताः व्यसनेषुप्रहर्तारस्तस्मादयमिहागतः
Verse 11
अपापास्तत्कुलीनाश्चमानयन्तिस्वकान्हितान् एषप्रायोनरेन्द्राणांशङ्कनीयस्तुशोभनः
Verse 12
यस्तुदोषस्त्वयाप्रोक्तोह्यादानेऽरिबलस्यच तत्रतेकीर्तयिष्यामियथाशास्त्रमिदंशृणु
Verse 13
नवयंतत्कुलीनाश्चराज्यकाङ् क्षीचराक्षसः पण्डिताहिभविष्यन्तितस्माद्ग्राह्योविभीषणः
Verse 14
अव्यग्राश्चप्रहृष्टाश्चनभविष्यन्तिसङ्गता प्रणादश्चमहानेषततोऽस्यभयमागतम् इतिभेदंगमिष्यन्तितस्माग्राह्योविभीषणः
Verse 15
नसर्वेभ्रातरस्तातभवन्तिभरतोपमाः मद्विथावापितुःपुत्रास्सुहृदोनाभवद्विथाः
Verse 16
एवमुक्तस्तुरामेणसुग्रीवस्सहलक्ष्मणः उत्थायेदंमहाप्राज्ञःप्रणतोवाक्यमब्रवीत्
Verse 17
रावणेनप्रणिहितंतमवेहिविभीषणम् तस्याहंनिग्रहंमन्येक्षमंक्षमवतांवर
Verse 18
राक्षसोजिह्मयाबुध्यासन्दिष्टोऽयमिहागतः प्रहर्तुंत्वयिविश्वस्तेप्रच्छन्नोमयिवानघ लक्ष्मणेवामहाबाहो सवध्यस्सचिवैस्सहा रावणस्यनृशंसस्यभ्राताह्येषविभीषणः एवमुक्त्वारघुश्रेष्ठंसुग्रीवोवाहिनीपतिः वाक्यज्ञोवाक्यकुशलंततोमौनमुपागमत्
Verse 19
राक्षसोजिह्मयाबुध्यासन्दिष्टोऽयमिहागतः प्रहर्तुंत्वयिविश्वस्तेप्रच्छन्नोमयिवानघ लक्ष्मणेवामहाबाहो सवध्यस्सचिवैस्सहा रावणस्यनृशंसस्यभ्राताह्येषविभीषणः एवमुक्त्वारघुश्रेष्ठंसुग्रीवोवाहिनीपतिः वाक्यज्ञोवाक्यकुशलंततोमौनमुपागमत्
Verse 20
सुग्रीवस्यतुतद्वाक्यंरामश्रुत्वाविमृश्यच ततश्शुभतरंवाक्यमुवाचहरिपुङ्गवम्
Verse 21
सुदुष्टोवाप्यदुष्टोवाकिमेषरजनीचरः सूक्ष्ममप्यहितंकर्तुंममाशक्तःकथञ्चन
Verse 22
पिशाचानदानवान् यक्ष I नपृथिव्यांचैवराक्षसान् अङ्गुल्यग्रेणतान् हन्यामिच्छन् हरिगणेश्वर
Verse 23
श्रूयतेहिकपोतेनशत्रुश्शरणमागतः अर्चितश्चयथान्यायंस्वैश्चमांसैर्निमन्त्रितः
Verse 24
सहितंप्रतिजग्राहभार्याहर्तारमागतः कपोतोवानरश्रेष्ठ: किंपुनर्मद्विधोजनः
Verse 25
ऋषेःकण्वस्यपुत्रेणकण्डुनापरमर्षिणा शृणुगाथांपुरागीतांधर्मिष्ठासत्यवादिना
Verse 26
बद्धाञ्जलिपुटंदीनंयाचन्तंशरणागतम् नहन्यदानृशंस्यार्थमपिशत्रुंपरन्तप
Verse 27
आर्तोवायदिवादृप्तःपरेषांशरणांगतः अरिःप्राणान्परित्यज्यरक्षितव्यःकृतात्मना
Verse 28
सचेद्भयाद्वामोहाद्वाकामाद्वापिनरक्षति स्वयाशक्त्यायथासत्त्वंतत्पापंलोकगर्हितम्
Verse 29
विनष्टःपश्यतस्तस्यारक्षिणश्शरणागतः आदायसुकृतंतस्यसर्वंगच्छेदरक्षित:
Verse 30
एवंदोषोमहानत्रप्रपन्नानामरक्षणे अस्वर्ग्यंचायशस्यंचबलवीर्यविनाशनम्
Verse 31
करिष्यामियथार्थंतुकण्डोर्वचनमुत्तमम् धर्मिष्ठंचयशस्यंचस्वर्ग्यंस्यात्तुफलोदये
Verse 32
सकृदेवप्रपन्नायतवास्मीतिचयाचते अभयंसर्वभूतेभ्योददाम्येतद्व्रतंमम
Verse 33
अनयैनंहरिश्रेष्ठ: दत्तमस्याभयंमया विभीषणोवासुग्रीव: यदिवारावणस्स्वयम्
Verse 34
रामस्यतुवच्शुत्वासुग्रीवःप्लवगेश्वरः प्रत्यभाषतकाकुत्स्थंसौहार्देनप्रचोदितः
Verse 35
किमत्रचित्रंधर्मज्ञ: लोकनाथ: सुखावहा: यत्त्वमार्यंप्रभाषेथास्सत्त्ववान् सत्पथेस्थितः
Verse 36
ममचाप्यन्तरात्मायंशुद्धंवेत्तिविभीषणम् अनुमानाच्चभावाच्चसर्वतस्सुपरीक्षितः
Verse 37
तस्मात् क्षिप्रंसहास्माभिस्तुल्योभवतराघव: विभीषणोमहाप्राज्ञस्सखित्वंचाभ्युपैतुनः
Verse 38
ततस्तुसुग्रीववचोनिशम्यतद्दरीश्वरेणाभिहितंनरेश्वरः विभीषणेनाशुजगामसङ्गमंपतत्त्रिराजेनयथापुरन्दरः
0:000:00
Speed: