Book 6 • Chapter 17
Sarga 17
64 verses
Verse 1
इत्युक्त्वापरुषंवाक्यंरावणंरावणानुजः आजगाममुहूर्तेनयत्ररामस्सलक्ष्मणः
Verse 2
तंमेरुशिखराकारंदीप्तामिवशतह्रदाम् गगनस्थंमहीस्थास्तेददृशुसर्ववानराः
Verse 3
येचाप्यनुचरास्तस्य चत्वारो भीमविक्रमा: तेsपि सर्वायुधोपेता भूषणैश्चापि भूषिता
Verse 4
स च मेघाचलप्रख्यो वज्रायुधसमप्रभः वरायुधधरो वीरो दिव्याभरणभूषितः
Verse 5
तमात्मपञ्चमंदृष्टवासुग्रीवोवाहिनीपति: वानरैस्सहदुर्धर्षचिन्तयामासबुद्धिमान्
Verse 6
चिन्तयित्वामुहूर्तंतुवानरांस्तानुवाचह हनुमत्प्रमुखान्सर्वानिदंवचनमुत्तमम्
Verse 7
एषसर्वायुधोपेतश्चतुर्भिस्सहराक्षसैः राक्षसोऽभ्येतिपश्यध्वमस्मान्हन्तुंनसंशयः
Verse 8
सुग्रीवस्यवचश्रुत्वासर्वेतेवानरोत्तमाः सालानुद्यम्यशैलांश्चइदंवचनमब्रुवन्
Verse 9
शीघ्रंव्यादिशनोराजन्वधायैषांदुरात्मनाम् निपतन्तुहताश्चैतेधरण्यामल्पतेजसः
Verse 10
तेषासम्भाषमाणानामन्योन्यंसविभीषणः उत्तरंतीरमासाद्यखस्थएवव्यतिष्ठत
Verse 11
उवाचमहाप्राज्ञस्स्वरेणमहतामहान् सुग्रीवंतांश्चसम्प्रेक्ष्यसर्वान्वानरयूथपान्
Verse 12
रावणोनामदुर्वृत्तोराक्षसोराक्षसेश्वरः तस्याहमनुजोभ्राताविभीषणइतिश्रुतः
Verse 13
तेनसीताजनस्थानाद्धृताहत्वाजटायुषम् रुद्दाचविवशादीनाराक्षसीभिस्सुरक्षिता
Verse 14
तमहंहेतुभिर्वाक्यैर्विविधैश्चन्यदर्शयम् साधुनिर्यात्यतांसीतारामायेतिपुनःपुनः
Verse 15
सचनप्रतिजग्राहरावणःकालचोदितः उच्यमानंहितंवाक्यंविपरीतइवौषधम्
Verse 16
सोऽहंपरुषितस्तेनदासवच्चावमानितः त्यक्त्वापुत्रांश्चदारांश्चराघवंशरणंगतः
Verse 17
सर्वलोकशरण्यायराघवायमहात्मने निवेदयतमांक्षिप्रंविभीषणमुपस्थितम्
Verse 18
एतत्तुवचनंश्रुत्वासुग्रीवोलघुविक्रमः लक्ष्मणस्याग्रतोरामंसम्रब्धमिदमब्रवीत्
Verse 19
रावणस्यानुजोभ्राताविभीषणइतिश्रुतः चतुर्भिस्सहरक्षोभिर्भवन्तंशरणंगतः
Verse 20
मन्त्रेव्यूहेनयेचारेयुक्तोभवितुमर्हसि वानराणांचभद्रंतेपरेषांचपरन्तप
Verse 21
अन्तर्धानगताह्येतेराक्षसाःकामरूपिणः शूराश्चनिकृतिज्ञाश्चतेषांजातुनविश्वसेत्
Verse 22
प्रणिधीराक्षसेन्द्रस्यरावणस्यभवेदयम् अनुप्रविश्यसोऽस्मासुभेदंकुर्यान्नसंशयः
Verse 23
अथवास्वयमेवैषछिद्रमासाद्यबुद्धिमान् अनुप्रविश्यविश्वस्तेकदाचित्प्रहरेदपि
Verse 24
मित्राटवीबलंचैवमौलभृत्यबलंतथा सर्वमेतद्बलंग्राह्यंवर्जयित्वाद्विषद्बलम्
Verse 25
प्रकृत्याराक्षसेन्द्रस्यभ्राताऽमित्रस्यतेप्रभो: आगतश्चरिपोस्साक्षात्कथमस्मिन्हिविश्वसेत्
Verse 26
रावणेनप्रणिहितंतमवेहिविभीषणम् तस्याहंनिग्रहंमन्येक्षमंक्षमवतांवर
Verse 27
राक्षसोजिह्मयाबुद्ध्यासंदिष्टोऽयमुपागतः प्रहर्तुंमाययाच्छन्नोविश्वस्तेत्वयिराघव
Verse 28
प्रविष्टश्शत्रुसैन्यंहिप्राप्तश्शत्रुरतर्कितः निहन्यादन्तरंलब्ध्वाउलूकवायसानिव
Verse 29
वध्यतामेषतीव्रेणदण्डेनसचिवैस्सह रावणस्यनृशंसस्यभ्राताह्येषविभीषणः
Verse 30
एवमुक्त्वातुतंरामंसम्रब्धोवाहिनीपतिः वाक्यज्ञोवाक्यकुशलंततोमौनमुपागमत्
Verse 31
सुग्रीवस्यतुतद्वाक्यंश्रुत्वारामोमहायशाः समीपस्थानुवाचेदंहनुमत्प्रमुखान्हरीन्
Verse 32
यदुक्तंकपिराजेनरावणावरजंप्रति वाक्यंहेतुमदत्यर्थंचभवद्भिरपितच्छ्रुतम्
Verse 33
सुहृदामर्थकृच्छेषुयुक्तंबुद्धिमतासदा समर्थेनोपनिर्देष्टुंशाश्वतींभूतिमिच्छता
Verse 34
इत्येवंपरिपृष्टास्तेस्वंस्वंमतमतन्द्रिताः सोपचारंतदाराममूचुर्हितचिकीर्षवः
Verse 35
अज्ञातंनास्तितेकिंचित्त्रिषुलोकेषुराघव: आत्मानंसूचयन्राम: पृच्छस्यस्मान् सुहृत्तया
Verse 36
त्वंहिसत्यव्रतश्शूरोधार्मिकोदृढविक्रमः परीक्ष्यकारीस्मृतिमान्निसृष्टात्मासुहृत्सुच
Verse 37
तस्मादेकैकशस्तावद्ब्रुवन्तुसचिवास्तव हेतुतोमतिसम्पन्नास्समर्थाश्चपुन: पुनः
Verse 38
इत्युक्तेराघवायाऽथमतिमानङ्गदोऽग्रतः विभीषणपरीक्षार्थमुवाचवचनंहरिः
Verse 39
शत्रोस्सकाशात्सम्प्राप्तस्सर्वथाशङ् क्यएवहि विश्वासयोग्यस्सहसानकर्तव्योविभीषणः
Verse 40
छादयित्वाऽत्मभावंहिचरन्तिशठबुद्धयः प्रहरन्तिचरन्ध्रेषुसोऽनर्थस्सुमहान्भवेत्
Verse 41
अर्थानर्थौविनिश्चित्यव्यवसायंभजेतह गुणतस्सङ्ग्रहंकुर्याद्दोषतस्तुविसर्जयेत्
Verse 42
यदिदोषोमहांस्तस्मिंस्त्यज्वतामविशङ्कितम् गुणान्वापिबहून् ज्ञात्वासङ्ग्रहःक्रियतांनृप
Verse 43
शरभस्त्वथनिश्चित्यसार्थंवचनमब्रवीत् क्षिप्रमस्मिन्नरव्याघ्र चारःप्रतिविधीयताम्
Verse 44
प्रणिधायहिचारेणयथावत्सूक्ष्मबुद्धिना परीक्ष्यचततःकार्योयथान्यायंपरिग्रहः
Verse 45
जाम्बवांस्त्वथसम्प्रेक्ष्यशास्त्रबुध्याविचक्षणः वाक्यंविज्ञापयामासगुणवद्दोषवर्जितम्
Verse 46
बद्धवैराच्चपापाच्चराक्षेसेन्द्राद्विभीषणः अदेशकालेसम्प्राप्तस्सर्वथाशङ् क्यतामयम्
Verse 47
ततोमैन्दस्तुसम्प्रेक्ष्यनयापनयकोविदः वाक्यंवचनसम्पन्नोबभाषेहेतुमत्तरम्
Verse 48
वजनंनामतस्यैषरावणस्यविभीषणः पृच्छयतांमधुरेणायंशनैर्नरपतीश्वर
Verse 49
भावमस्यतुविज्ञायतत्त्वतस्त्वंकरिष्यसि यदिदुष्टोनदुष्टोवाबुद्धिपूर्वंनरर्षभ
Verse 50
अथसंस्कारसम्पन्नोहनुमान् सचिवोत्तमः उवाचवचनंश्लक्ष्णमर्थवन्मधुरंलघु
Verse 51
नभवन्तंमतिश्रेष्ठंसमर्थंवदतांवरम् अतिशाययितुंशक्तोबृहस्पतिरपिब्रुवन्
Verse 52
नवादान्नपिसङ्घर्षान्नाधिक्यान्नचकामतः वक्ष्यामिवचनंराजन्यथार्थंरामगौरवात्
Verse 53
अर्थानर्थनिमित्तंहियदुक्तंसचिवैस्तव तत्रदोषंप्रपश्यामिक्रियानह्युपपद्यते
Verse 54
ऋतेनियोगात्सामर्थ्यमवबोद्धुंनशक्यते सहसाविनियोगोहिदोषवान्प्रतिभातिमे
Verse 55
चारप्रणिहितंयुक्तंयदुक्तंसचिवैस्तव अर्थस्यासम्भवात्तत्रकारणंनोपयुज्यते
Verse 56
अदेशकालेसम्प्राप्तइत्ययंयद्विभीषणः विवक्षातत्रमेऽस्तीयंतांनिबोधयथामति
Verse 57
सएषदेश: कालश्चभवतीतियथातथा पुरुषात्पुरुषंप्राप्यतथादोषगुणावपि
Verse 58
त्म्यंरावणेदृष्टवाविक्रमंचतथात्वयि युक्तमागमनंह्यत्रसदृशंतस्यबुद्धितः
Verse 59
अज्ञातरूपैःपुरुषैस्सराजन्पृच्छ् यतामिति यदुक्तमत्रमेप्रेक्षाकाचिदस्तिसमीक्षिता
Verse 60
पृच्छयमानोविशङ्केतसहसाबुद्धिमान्वचः तत्रमित्रंप्रदुष्येतमिथ्यापृष्टंसुखागतम्
Verse 61
अशक्यस्सहसाराजन्भावोबोद्धुंपरस्यवै अन्तस्स्वभावैर्गीतैस्तैर्नैपुण्यंपश्यतांभृशम्
Verse 62
नत्वस्यब्रुवतोजातुलक्ष्यतेदुष्टभावता प्रसन्नंवदनंचापितस्मान्मेनास्तिसंशयः
Verse 63
अशङ्कितमतिस्स्वस्थोनशठःपरिसर्पति नचास्यदुष्टावाक्चापितस्मान्नास्तीहसंशयः
Verse 64
आकारश्चाद्यमानोऽपिनशक्योविनिगूहितम् बलाद्धिविवृणोत्येवभावमन्तर्गतंनृणाम्
0:000:00
Speed: