Book 6 • Chapter 16
Sarga 16
27 verses
Verse 1
सुनिविष्टंहितंवाक्यमुक्तवन्तंविभीषणम् अब्रवीत्परुषंवाक्यंरावणःकालचोदितः
Verse 2
वसेत्सहसपत्नेनक्रुद्धेऽनाशीविषेणवा नतुमित्रप्रवादेनसंवसेच्छत्रुसेविना
Verse 3
जानामिशीलंज्ञातीनांसर्वलोकेषुराक्षस: हृष्यन्तिव्यसनेष्वेतेज्ञातीनाज्ञातयस्सदा
Verse 4
प्रथानंसाधनंवैद्यंधर्मशीलंचराक्षस: ज्ञातयोह्यवमन्यन्तेशूरंपरिभवन्तिच
Verse 5
नित्यमन्योन्यसम्हृष्टाव्यसनेष्वाततायिनः प्रच्छन्नहृदयाघोराज्ञातयस्तुभयावहाः
Verse 6
श्रूयन्तेहस्तिभिर्गीताश्श्लोकाःपद्मवनेक्वचित् पाशहस्तान्नरान्द्रुष्टवाशृणुतान्गदतोमम
Verse 7
नाग्निर्नान्यानिशस्त्राणिननःपाशाभयावहाः घोरास्स्वार्थप्रयुक्तास्तुज्ञातयोनोभयावहाः
Verse 8
उपायमेतेवक्ष्यन्तिग्रहणेनात्रसंशयः कृत्स्नाद्भयाद् ज्ञातिभयंसुकष्टंविदितंचन
Verse 9
विद्यतेगोषुसम्पन्नंविद्यतेब्राह्मणेदमः विद्यतेस्त्रीषुचापल्यंविद्यतेज्ञातितोभयम्
Verse 10
ततोनेष्टमिदंसौम्ययदहंलोकसत्कृतः ऐश्वर्यमभिजातश्चज्ञातीनांमूर्ध्न्यवस्थितः
Verse 11
यथापुष्करपत्रेषुपतितास्तोयबिन्दवः नश्लेषमभिगच्छन्तितथाऽनार्येषुसङ्गतम्
Verse 12
यथामधुकरस्तर्षाद्रसंविन्दन्नविद्यते तथात्वमपितत्रैवतथानार्येषुसौहृदम्
Verse 13
यथापूर्वंगजस्स्नात्वागृह्यहस्तेनवैरजः दूषयत्यात्मनोदेहंतथानार्येषुसङ्गतम्
Verse 14
यथाशरदिमेघानांसिञ्चतामपिगर्जताम् नभवत्यम्बुसंक्लेदस्तथाऽनार्येषुसौहृदम्
Verse 15
यथामधुकरस्तर्षात्काशपुष्पंपिबन्नपि रसमत्रनविन्देततथानार्वेषुसौहृदम्
Verse 16
अन्यस्त्वेवंविधंब्रूयाद्वाक्यमेतन्निशाचर: अस्मिन्मुहूर्तेनभवेत्त्वांतुधिक्कुलपांसन
Verse 17
इत्युक्तःपरुषंवाक्यंन्यायवादीविभीषणः उत्पपातगदापाणिश्चतुर्भिस्सहराक्षसैः
Verse 18
अब्रवीच्चतदावाक्यंजातक्रोधोविभीषणः अन्तरिक्षगत्शीमान्भ्रातरंराक्षसाधिपम्
Verse 19
सत्वंभ्राताऽसिमेराजन्ब्रूहिमांयद्यदिच्छसि ज्येष्टोमान्यःपितृसमोनचधर्मपथेस्थितः इदंतुपरुषंवाक्यंनक्षमाम्यग्रजस्यते
Verse 20
सुनीतंहितकामेनवाक्यमुक्तंदशानन: नगृह्णन्त्यकृतात्मानःकालस्यवशमागताः
Verse 21
सुलभाःपुरुषराजन् सततंप्रियवादिनः अप्रियस्यचपथ्यस्यवक्ताश्रोताचदुर्लभः
Verse 22
बद्धंकालस्यपाशेनसर्वभूतापहारिणा ननश्यन्तमुपेक्षेत्वांप्रदीप्तंशरणंयथा
Verse 23
दीप्तपावकसङ्काशैश्शितैःकाञ्चनभूषणैः नत्वामिच्छाम्यहंद्रष्टुंरामेणनिहतंशरैः
Verse 24
शूराश्चबलवन्तश्चकृतास्त्राश्चरणाजिरे कालाभिपन्नास्सीदन्तियथावालुकसेतव
Verse 25
तन्मर्षयतुयच्चोक्तंगुरुत्वाद्धितमिच्छता अत्मानंसर्वथारक्षपुरींचेमांसराक्षसाम् स्वस्तितेऽस्तुगमिष्यामिसुखीभवमयाविना
Verse 26
तन्मर्षयतुयच्चोक्तंगुरुत्वाद्धितमिच्छता अत्मानंसर्वथारक्षपुरींचेमांसराक्षसाम् स्वस्तितेऽस्तुगमिष्यामिसुखीभवमयाविना
Verse 27
निवार्यमाणस्यमयाहितैषिणानरोचतेतेवचनंनिशाचर: परीतकालाहिगतायुषोनराहितंनगृह्णन्तिसुहृद्भिरीरितम्
0:000:00
Speed: