Book 6 • Chapter 15
Sarga 15
14 verses
Verse 1
बृहस्पतेस्तुल्यमतेर्वचस्तन्निशम्ययत्नेनविभीषणस्य ततोमहात्मावचनंबभाषेतत्रेन्द्रजिन्नैरृतयूथमुख्यः
Verse 2
किंनामतेतातकनिष्ठवाक्यमनर्थकंचेवेसुबसुभीतवच्च अस्मिन्कुलेयोऽपिभवेन्नजातस्सोऽपीदृशंनैववदेन्नकुर्यात्
Verse 3
सत्त्वेनवीर्येणपराक्रमेणशौर्येणधैर्येणचतेजसाच एकःकुलेऽस्मिन्पुरुषोविमुक्तोविभीषणस्तातकनिष्ठएषः
Verse 4
किंनामतौमानुषराजपुत्रावस्माकमेकेनहिराक्षसेन सुप्राकृतेनापिरणेनिहन्तुमेतौशक्यौकुतोभीषयसेस्मभीरो
Verse 5
त्रिलोकनाथोननुदेवराजश्शक्रोमयाभूमितलेनिविष्टः भयार्पिताश्चापिदिशःप्रपन्नास्सर्वेतथादेवगणास्समग्राः
Verse 6
ऐरावतोविस्वरमुन्नदन् सनिपातितोभूमितलेमयातु विकृष्यदन्तौतुमयाप्रसह्यवित्रासितादेवगणास्समग्राः
Verse 7
सोऽहंसुराणामपिदर्पहन्तादैत्योत्तमानामपिशोकदाता कथंनरेन्द्रात्मजयोर्नशक्तोमनुष्ययोःप्राकृतयोस्सुवीर्यः
Verse 8
अथेन्द्रकल्पस्यदुरासदस्यमहौजसस्तद्वचनंनिशम्य ततोमहार्थवचनंबभाषेविभीषणश्शस्त्रभृतांवरिष्ठः
Verse 9
नतातमन्त्रेतवनिश्चयोऽस्तिबालस्त्वमद्याप्यविपक्वबुद्धि: तस्मात्त्वयाप्यात्मविनाशनायवचोऽर्धहीनंबहुविप्रलप्तम्
Verse 10
पुत्रप्रवादेवतुरावणस्यत्वमिन्द्रजिन्मित्रमुखोऽसिशत्रुः यस्येदृशंराघवतोविनाशंनिशम्यमोहादनुमन्यसेत्वम्
Verse 11
त्वमेववध्यश्चसुदुर्मतिश्चसचापिवध्योयइहाऽनयत्त्वाम् बालंदृढंसाहसिकंचयोऽद्यप्रावेशयन्मन्त्रकृतांसमीपम्
Verse 12
मूढोऽप्रगल्भोऽविनयोपपन्नस्तीक्षणस्वभावोऽल्पमतिर्दुरात्मा मूर्खस्त्वमत्यर्थसुदुर्मतिश्चत्वमिन्द्रजिद्बालतयाब्रवीषि
Verse 13
कोब्रह्मदण्डप्रतिमप्रकाशानर्चिष्मतःकालनिकाशरूपान् सहेतबाणान्यमदण्डकल्पान्समक्षमुक्तान्युधिराघवेण
Verse 14
धनानिरत्नानिसुभूषणानिवासांसिदिव्यानिमणींश्च चित्रान् सीतांचरामायनिवेद्यदेवींवसेमराजन् निहवीतशोकाः
0:000:00
Speed: