Book 6 • Chapter 14
Sarga 14
22 verses
Verse 1
निशाचरेन्द्रस्यनिशम्यवाक्यंसकुम्भकर्णस्यचगर्जितानि विभीषणोराक्षसराजमुख्यमुवाचवाक्यंहितमर्थयुक्तम्
Verse 2
न्तरभोगराशिश्चिन्ताविषस्सुस्मिततीक्ष्णदंष्ट्रः पञ्चाङ्गुलीपञ्चशिरोऽतिकायस्सीतामहाहिस्तवकेनराजन्
Verse 3
यावन्नलङ्कांसमभिद्रवन्तिवलीमुखाःपर्वतकूटमात्राः दष्ट्रायुधाश्चैवनखायुधाश्चप्रदीयतांदाशरथायमैथिली
Verse 4
यावन्नगृह्णन्तिशिरांसिबाणारामेरिताराक्षसपुङ्गवानाम् वज्रोपमावायुसमानवेगाःप्रदीयतांदाशरथायमैथिली
Verse 5
नकुम्भकर्णेन्द्रजितौचराजंस्तथामहापार्श्वमहोदरौवा निकुम्भकुम्भौचतथाऽतिकायःस्थातुंनशक्तायुधिराघवस्य
Verse 6
जीवंस्तुरामस्यनमोक्ष्यसेत्वंगुप्तस्सवित्राप्यथवामरुद्भि: नवासवस्याङ्कगतोनमृत्योर्नभोनपाताळमनुप्रविष्टः
Verse 7
निशम्यवाक्यंतुविभीषणस्यततःप्रहस्तोवचनंबभाषे ननोभयंविद्मनदैवतेभ्योनदानवेभ्योऽप्यथवाकुतश्चित्
Verse 8
नयक्षगन्धर्वमहोरगेभ्योभयंनसंख्येपतगोरगेभ्यः कथंनुरामाद्भविताभयंनोनरेन्द्रपुत्रात्समरेकदाचित्
Verse 9
प्रहस्तवाक्यंत्वहितंनिशम्यविभीषणोराजहितानुकाङ्क्षी ततोमहार्थंवचनंबभाषेधर्मार्थकामेषुनिविष्टबुद्धि:
Verse 10
प्रहस्त: राजाचमहोदरश्चत्वंकुम्भकर्णश्चयथाऽर्थजातम् ब्रवीतरामंप्रतितन्नशक्यंयथागतिस्स्वर्गमधर्मबुद्धेः
Verse 11
वधस्तुरामस्यमयात्वयाचप्रहस्तसर्वैरपिराक्षसैर्वा कथंभवेदर्थविशारदस्यमहार्णवंतर्तुमिवाप्लवस्य
Verse 12
धर्मप्रधानस्यमहारथस्यइक्ष्वाकुवंशप्रभवस्यराज्ञः पुरोस्यदेवाश्चतथाविधस्यकृत्येषुशक्तस्यभवन्तिमूढा
Verse 13
तीक्ष्णानतायत्तवकङ्कपत्रादुरासदाराघवविप्रमुक्ताः भित्वाशरीरंप्रविशन्तिबाणाःप्रहस्ततेनैवविकत्थसेत्वम्
Verse 14
भित्त्वानतावत्प्रविशन्तिकायंप्राणान्तिकास्तेऽशनितुल्यवेगाः शिताश्शराराघवविप्रमुक्ताःप्रहस्ततेनैवविकत्थसेत्वम्
Verse 15
नरावणोनातिबलस्त्रिशीर्षोनकुम्भकर्णोऽस्यसुतोनिकुम्भः नचेन्द्रजिद्दाशरधिंप्रसोढुंत्वंवारणेशक्रसमंसमर्थ:
Verse 16
देवान्तकोवापिनरान्तकोवातथातिकायोऽतिरथोमहात्मा आकम्पनश्चाद्रिसमानसारःस्थातुंनशक्तायुधिराघवस्य
Verse 17
अयंचराजाव्यसनाभिभूतोमित्रैरमित्रप्रतिमैर्भवद्भि: अन्वास्यतेराक्षसनाशनार्थेतीक्ष्णःप्रकृत्याह्यसीक्षयकारी
Verse 18
अनन्तभोगेनसहस्रमूर्थ्नानागेनभीमेनमहाबलेव बलात्परिक्षिप्तमिमंभवन्तोराजानमुत्क्षिप्यविमोचयन्तु
Verse 19
यावद्धिकेशग्रहणातसुहृद्भि: समेत्यसर्वैःपरिपूर्णकामैः निगृह्यराजापरिरक्षितव्योभूतैर्यथाभीमबलैर्गृहीतः
Verse 20
सुवारिणाराघवसागरेणप्रच्छाद्यमानस्तरसाभवद्भि: युक्तस्त्वयंतारयितुंसमेत्यकाकुत्स्थपातालमुखेपतन्सः
Verse 21
इदंपुरस्यास्यसराक्षसस्यराज्ञश्चपथ्यंससुहृज्जनस्य सम्यग्घिवाक्यंस्वमतंब्रवीमिनरेन्द्रपुत्रायददामपत्नीम्
Verse 22
परस्यवीर्यंस्वबलंचबुध्वास्थानंक्षयंचैवतथैववृद्धिम् तथास्वपक्षेप्यनुमृश्यबुध्वावदेत् क्षमंस्वामिहितंसमन्त्री
0:000:00
Speed: