Book 6 • Chapter 13
Sarga 13
21 verses
Verse 1
रावणंक्रुद्धमाज्ञायमहापार्श्वोमहाबलः मुहूर्तमनुसञ्चिन्त्यप्राञ्जलिर्वाक्यमब्रवीत्
Verse 2
यःखल्वपिवनंप्राप्यमृगव्यालनिषेवितम् नपिबेन्मधुसम्प्राप्यसनरोबालिशोभवेत्
Verse 3
ईश्वरस्येश्वरःकोऽस्तितवशत्रुनिबर्हण: रमस्वसहवैदेह्याशत्रूनाक्रम्यमूर्धसु
Verse 4
बलात्कुक्कुटवृत्तेनप्रवर्तस्वमहाबल: आक्रम्याक्रम्यसीतांवैतांभुङ् क्ष्वचरमस्वच
Verse 5
लब्धकामस्यतेपश्चादागमिष्यतियद्भयम् प्राप्तमप्राप्तकालंवासर्वंप्रतिसहिष्यति
Verse 6
कुम्भकर्णस्सहास्माभिरिन्द्रजिच्चमहाबलः प्रतिषेधयितुंशक्तौसवज्रमपिवज्रिणम्
Verse 7
उपप्रदानंसान्त्वंवाभेदंवाकुशलैःकृतम् समतिक्रम्यदण्डेनसिद्धिमर्थेषुरोचये
Verse 8
इहप्राप्तान्वयंसर्वान् शत्रूंस्तवमहाबल: वशेशस्त्रप्रतापेनकरिष्यामोनसंशयः
Verse 9
एवमुक्तस्तदाराजामहापार्श्वेनरावणः तस्यसम्पूजयन्वाक्यमिदंवचनमब्रवीत्
Verse 10
महापार्श्वनिबोधत्वंरहस्यंकिञ्चिदात्मन: चिरवृत्तंतदाख्यास्येयदवाप्तंपुरामया
Verse 11
पितामहस्यभवनंगच्छन्तींपुञ्जिकस्थलाम् चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव
Verse 12
साप्रसह्यमयाभुक्ताकृताविवसनाततः स्वयम्भूभवनंप्राप्तालोलितानलिनीयथा
Verse 13
तच्चतस्यतदामन्येज्ञातमासीन्महात्मनः अथसङ्कुपितोदेवोमामिदंवाक्यमब्रवीत्
Verse 14
अद्यप्रभृतियामन्याबलान्नारींगमिष्यसि तदातेशतधामूर्धाफलिष्यतिनसंशयः
Verse 15
इत्यहंतस्यशापस्यभीतःप्रसभमेवताम् नारोहयेबलात्सीतांवैदेहींशयनेशुभे
Verse 16
सागरस्येनमेवेगोमारुतस्येवमेगतिः नैतद्दाशरथिर्वेदह्यासादयतितेनमाम्
Verse 17
कोहिसिंहमिवासीनंसुप्तंगिरिगुहाशये क्रुद्धंमृत्युमिवाऽसीनंसम्भोधयितुमिच्छति
Verse 18
नमत्तोनिशितान्बाणान्द्विजिह्वान्पन्नगानिव रामःपश्यतिसङ्ग्रामेतेनमामभिगच्छति
Verse 19
क्षिप्रंवज्रसमैर्बाणैश्शतथाकार्मुकच्युतैः राममादीपयिष्यामिउल्काभिरिवकुञ्जरम्
Verse 20
तच्चास्यबलमादास्येबलेनमहतावृतः उदितस्सविताकालेनक्षत्राणामिवप्रभाम्
Verse 21
नवासनेनापिसहस्रचक्षुषायुधाऽस्मिशक्योवरुणेनवापुनः मयात्वियंबाहुबलेननिर्जितापुरापुरीवैश्रवणेनपालिता
0:000:00
Speed: