🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 12

Sarga 12

40 verses

Verse 1
सतांपरिषदंकृत्स्नांसमीक्ष्यसमितिञ्जयः प्रचोदयामासतदाप्रहस्तंवाहिनीपतिम्
Verse 2
सेनापतेयथातेस्युःकृतविद्याश्चतुर्विधाः योधानगररक्षायांतथाव्यादेष्टुमर्हसि
Verse 3
सप्रहस्तःप्रणीतात्माचिकीर्षन् राजशासनम् विनिक्षिपद्बलंसर्वंबहिरन्तश्चमन्दिरे
Verse 4
ततोविनिक्षिप्यबलंसर्वनगरगुप्तये प्रहस्तःप्रमुखेराज्ञोनिषसादजगादच
Verse 5
विहितंबहिरन्तश्चबलंबलवतस्तव कुरुष्याविमनाःक्षिप्रंयदभिप्रेतमस्तुते
Verse 6
प्रहस्तस्यवचश्श्रुत्वाराजाराज्यहितैषिणः सुखेप्सुस्सुहृदांमध्येव्याजहारसरावणः
Verse 7
प्रियाप्रियेसुखंदुःखंलाभालाभेहिताहिते धर्मकामार्थकृच्छ्रेषुयूयमर्हथवेदितुम्
Verse 8
सर्वकृत्यानियुष्माभिस्समारब्धानिसर्वथा मन्त्रकर्मनियुक्तानिनजातुविफलानिमे
Verse 9
ससोमग्रहनक्षत्रैर्मरुद्भिरिववासवः भवद्भिरहमत्यर्थंवृतश्रियमवाप्नुयाम्
Verse 10
अहंतुखलुसर्वान्वस्समर्थयितुमुद्यतः कुम्भकर्णस्यतुस्वप्नान्नेममर्थमचोदयम्
Verse 11
अयंहिसुप्तःषण्मासान्कुम्भकर्णोमहाबलः सर्वशस्त्रभृतांमुख्यस्सइदानींसमुत्थितः
Verse 12
इयंचदण्डकारण्याद्रामस्यमहिषीमया रक्षोभिश्चरितोद्देशादानीताजनकात्मजा
Verse 13
सामेवशय्यामारोढुमिच्छत्यलसगामिनी त्रिषुलोकेषुचान्यामेनसीतासदृशीमता
Verse 14
तनुमध्यापृथुश्रोणीशरदिन्दुनिभानना हेमबिम्बनिभासौम्यामायेवमयनिर्मिता
Verse 15
सुलोहिततलौश्लक्ष् णौचरणौसुप्रतिष्ठितौ दृष्ट्वाताम्रनखौतस्यादीप्यतेमेशरीरजः
Verse 16
हुताग्निरर्चिस्सङ्काशामेनांसौरीमिवप्रभाम् उन्नसंविमलंवल्गुविपुलांचारुलोचनम् पश्यंस्तदवशस्तस्याःकामस्यवशमेयिवान्
Verse 17
क्रोधहर्षसमानेनदुर्वर्णकरणेनच शोकसन्तापनित्येनकामेनकलुषीकृतः
Verse 18
सातुसंवत्सरंकालंमामयाचतभामिनी प्रतीक्षमाणाभर्तारंराममायतलोचना तन्मयाचारुनेत्रायःप्रतिज्ञातंवचश्शुभम् श्रान्तोऽहंसततंकामाद्यातोहयइवाध्वनि
Verse 19
सातुसंवत्सरंकालंमामयाचतभामिनी प्रतीक्षमाणाभर्तारंराममायतलोचना तन्मयाचारुनेत्रायःप्रतिज्ञातंवचश्शुभम् श्रान्तोऽहंसततंकामाद्यातोहयइवाध्वनि
Verse 20
कथंसागरमक्षोभ्यंतरिष्यन्तिवनौकसः बहुसत्त्वसमाकीर्णंतौवादशरथात्मजौ
Verse 21
अथवाकपिनैकेनकृतंनःकदनंमहत् दुर् ज्ञेयाःकार्यगतयोब्रूतयस्ययथामति
Verse 22
मानुष्यान्नोभयंनास्तितथापितुविमृश्यताम् तदादेवासुरेयुद्धेयुष्माभिस्सहितोऽजयम् तेमेभवन्तश्चतथासुग्रीवप्रमुखान्हरीन् परेपारेसमुद्रस्यपुरस्कृत्यनृपात्मजौ सीतायाःपदवींप्राप्यसम्प्राप्तौवरुणालयाम्
Verse 23
मानुष्यान्नोभयंनास्तितथापितुविमृश्यताम् तदादेवासुरेयुद्धेयुष्माभिस्सहितोऽजयम् तेमेभवन्तश्चतथासुग्रीवप्रमुखान्हरीन् परेपारेसमुद्रस्यपुरस्कृत्यनृपात्मजौ सीतायाःपदवींप्राप्यसम्प्राप्तौवरुणालयाम्
Verse 24
मानुष्यान्नोभयंनास्तितथापितुविमृश्यताम् तदादेवासुरेयुद्धेयुष्माभिस्सहितोऽजयम् तेमेभवन्तश्चतथासुग्रीवप्रमुखान्हरीन् परेपारेसमुद्रस्यपुरस्कृत्यनृपात्मजौ सीतायाःपदवींप्राप्यसम्प्राप्तौवरुणालयाम्
Verse 25
अदेयाचयथासीतावध्यौदशरथात्मजौ भवद्भिर्मन्त्र्यतांमन्त्रस्सुनीतंचाभिधीयताम्
Verse 26
नहिशक्तिंप्रपश्यामिजगत्यन्यस्यकस्यचित् सागरंवानरैस्तीर्वानिश्चयेनजयोमम
Verse 27
तस्यकामपरीतस्यनिशम्यपरिदेवितम् कुम्भकर्णःप्रचुक्रोधवचनंचेदमब्रवीत्
Verse 28
यदातुरामस्यसलक्ष्मणस्यप्रसह्यसीताखलुसाइहाऽहृता सकृत्समीक्ष्यैवसुनिश्चितंतदाभजेतचित्तंयमुनेवयामुनम्
Verse 29
सर्वमेतन्महाराजकृतमप्रतिमंतव विधीयेतसहास्माभिरादावेवास्यकर्मणः
Verse 30
न्यायेनराजकार्याणियःकरोतिदशानन: नससन्तप्यतेपश्चान्निश्चितार्थमतिर्नृपः
Verse 31
अनुपायेनकर्माणिविपरीतानियानिच क्रियमाणानिदुष्यन्तिहवींष्यप्रयतेष्विव
Verse 32
यःपश्चात्पूर्वकार्याणिकर्माण्यभिचिकीर्षति पूर्वंचापरकार्याणिनसवेदनयानयौ
Verse 33
चपलस्यतुकृत्येषुप्रसमीक्ष्याधिकंबलम् क्षिप्रमन्येप्रपद्यन्तेक्रौञ्चस्यखमिवद्विजाः
Verse 34
त्वयेदंमहादारब्धंकार्यमप्रतिचिन्तितम् दिष्ट्यात्वांनावधीद्रामोविषमिश्रमिवामिषम्
Verse 35
तस्मात्त्वयासमारब्धंकर्मह्यप्रतिमंपरैः अहंसमीकरिष्यामिहत्वाशत्रूंस्तवानघ
Verse 36
अहमुत्सादयिष्यामिशत्रूंस्तवनिशाचर यदिशक्रविवस्वन्तौयदिपावकमारुतौ तावहंयोधयिष्यामिकुबेरवरुणावपि
Verse 37
गिरिमात्रशरीरस्यमहापरिघयोधिनः नर्दतस्तीक्ष्णदंष्ट्रस्यबिभीयाद्वैपुरन्दरः
Verse 38
पुनर्मांसद्वितीयेनशरेणनिहनिष्यति ततोऽहंतस्यपास्यामिरुधिरंकाममाश्वस
Verse 39
वधेनवैदाशरथेस्सुखावहंजयंतवाहर्तुमहंयतिष्ये हत्वाचरामंसहलक्ष्मणेनखादामिसर्वान्हरियूथमुख्यान्
Verse 40
रमस्वकामम् पिबचाग्य्रवारुणींकुरष्वकार्याणिहितानिविज्वरः मयातुरामेगमितेयमक्षयंचिरायसीतावशगाभविष्यति
0:000:00
Speed: