🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 23

Sarga 23

16 verses

Verse 1
निमित्तानिनिमित्ताज्ञोदृष्टवालक्ष्मणपूर्वजः सौमित्रिंसम्परिष्वज्यइदंवचनमब्रवीत्
Verse 2
निमित्तानिपरिगृह्योदकंशीतंवनानिफलवन्तिच बलौघंसंविभज्येमंव्यूह्यतिष्ठेमलक्ष्मण
Verse 3
लोकक्षयकरंभीमंभयंपश्याम्युपस्थितम् निबर्हणंप्रवीराणामृक्षवानररक्षसाम्
Verse 4
वाताश्चकलुषावान्तिकम्पतेचवसुन्धराः पर्वताग्राणिवेपन्तेपतन्तिचमहीरुहाः
Verse 5
मेघाःक्रव्यादसङ्काशाःपरुषाःपरुषस्वनाः क्रूराःक्रूरंप्रवर्षन्तिमिश्रंशोणितबिन्दुभिः
Verse 6
रक्तचन्दनसङ्काशासन्ध्यापरमदारुणा ज्वलतःप्रपतत्येतदादित्यादग्निमण्डलम्
Verse 7
दीनादीनस्वराःक्रूरास्सर्वतोमृगपक्षिणः प्रत्यादित्यंविनर्धन्तिजनयन्तोमहाद्भयम्
Verse 8
रजन्यामप्रकाशस्तुसन्तापयतिचन्द्रमाः कृष्णरक्तांशुपर्यन्तोलोकक्षयइवोदितः
Verse 9
ह्रस्वोरूक्षोऽप्रशस्तश्चपरिवेषस्सुलोहितः आदित्येविमलेनीलंलक्ष्मलक्ष्मणदृश्यते
Verse 10
रजसामहताचापिनक्षत्राणिहतानिच युगान्तमिवलोकानांपश्यशंसन्तीवलक्ष्मण
Verse 11
काकाश्श्येनास्तथानीचागृध्राःपरिपतन्तिच शिवाश्चाप्यशिवान्नादान्नदन्तिसुमहाभयान्
Verse 12
शैलैश्शूलैश्चखढगैश्चविसृष्टैःकपिराक्षसैः भविष्यत्यावृताभूमिर्मांसशोणितकर्दमा
Verse 13
क्षिप्रमद्यैवदुर्दर्षांपुरींरावणपालिताम् अभियामजनेनैवसर्वतोहरिभिर्ववृताः
Verse 14
इत्येवमुक्त्वाधर्मात्माधनवीसङ्ग्रामहर्षणः प्रतस्थेपुरतोरामोलङ्कामभिमुखोविभुः
Verse 15
सविभीषणसुग्रीवास्ततस्तेवानरर्षभाः प्रतस्थिरेविनर्दन्तोनिश्चिताद्विषतांवधे
Verse 16
राघवस्यप्रियार्थंतुसुतरांवीर्यशालिनाम् हरीणांकर्मचेष्टाभिस्तुतोषरघुपुङ्गवः
0:000:00
Speed: