Book 6 • Chapter 24
Sarga 24
45 verses
Verse 1
सावीरसमितीराज्ञाविरराजव्यवस्थिता शशिनाशुभनक्षत्रापौर्णमासीवशारदी
Verse 2
प्रचचालचवेगेनत्रस्ताचैववसुन्धरा पीड्यमानाबलौघेनतेनसागरवर्चसा
Verse 3
ततश्शुश्रुवुराक्रुष्टंलङ्कायांकाननौकसः भेरीमृदङ्गसङ्घुष्टंतुमुलंरोमहर्षणम्
Verse 4
बभूवुस्तेनघोषेणसंहृष्टाहरियूथपाः अमृष्यमाणास्तंघोषंविनेदुर्घोषवत्तरम्
Verse 5
राक्षसास्तुप्लवङ्गानांशुश्रुवुश्चाऽपिगर्जितम् नर्दतामिवदृप्तानांमेघानामम्बरेस्वनम्
Verse 6
दृष्टवादाशरथिर्लङ्कांचित्रध्वजपताकिनीम् जगाममनसासीतंदूयमानेनचेतसा
Verse 7
अत्रसामृगशाबाक्षीरावणेनोपरुध्यते अभिभूताग्रहेणेवलोहिताङ्गेनरोहिणी
Verse 8
दीर्घमुष्णंचनिश्वस्यसमुद्वीक्ष्यचलक्ष्मणम् उवाचवचनंवीरस्तत्कालहितमात्मनः
Verse 9
आलिखन्तीमिवाकाशमुत्थितांपश्यलक्ष्मण मनसेवकृतांलङ्कांनगाग्रेविश्वकर्मणा
Verse 10
विमानैर्बहुभिर्लङ्कासङ्कीर्णाभुविराजते विष्णोःपदमिवाकाशंछादितंपाण्डुभिर्घनैः
Verse 11
पुष्पितैश्शोभितालङ्कावनैश्चत्ररथोपमैः नानापतगसङ्घुष्टै: फलपुष्पोपगैश्शुभैः
Verse 12
पश्यमत्तविहाङ्गानिप्रलीनभ्रमराणिच कोकिलाकुलषण्डानिदोधवीतिशिवोऽनिलः
Verse 13
इतिदाशरथीरामोलक्ष्मणंसमभाषत बलंचतद्वैविभजन् शास्त्रदृष्टेनकर्मणा
Verse 14
शशासकपिसेनायांबलमादायवीर्यवान् अङ्गदस्सहनीलेनतिष्ठेदुरसिदुर्जयः
Verse 15
तिष्ठेद्वानरवाहिन्यावानरौघसमावृतः आश्रित्यदक्षिणंपार्श्वमृषभोवानरर्षभ:
Verse 16
गन्धहस्तीवदुर्धर्षस्तरस्वीगन्धमादनः तिष्ठेद्वानरवाहिन्यास्सव्यंपार्श्वंसमाश्रित:
Verse 17
मूर्ध्निस्थास्याम्यहंयुक्तोलक्ष्मणेनसमन्वितः जाम्बवांश्चसुषेणश्चवेगदर्शीचवानरः ऋक्षमुख्यामहात्मानःकुक्षिंरक्षन्तुतेत्रयः
Verse 18
जघनंकपिसेनायाःकपिराजोऽभिरक्षतु पश्चार्धमिवलोकस्यप्रचेतास्तेजसावृतः
Verse 19
सुविभक्तमहाव्यूहामहावानररक्षिता अनीकिनीसाविबभौयथाद्यौस्साभ्रसम्प्लवा
Verse 20
प्रगृह्यगिरिशृङ्गाणिमहातश्चमहीरुहन् लङ्कांविमर्दयिषवोरणे
Verse 21
शिखरैर्विकिरामैनांलङ्कांमुष्टभिरेववा इतिस्मदधिरेसर्वेमनांसिहरिपुङ्गवाः
Verse 22
ततोरामोमहातेजास्सुग्रीवमिदमब्रवीत् सुविभक्तानिसैन्यानिशुकएषविमुच्यताम्
Verse 23
रामस्यतुवचश्श्रुत्वावानरेन्द्रोमहाबलः मोचयामासतंदूतंशुकंरामस्यशासनात्
Verse 24
मोचितोरामवाक्येनवानरैश्चनिपीडितः शुकःपरमसन्त्रस्तोरक्षोधिपमुपागमत्
Verse 25
रावणःप्रहसन्नेवशुकंवाक्यमुवाचह किमिमौतेसितौपक्षौलूनपक्षश्चदृश्यसे कच्चिन्नानेकचित्तानांतेषांत्वंवशमागतः
Verse 26
रावणःप्रहसन्नेवशुकंवाक्यमुवाचह किमिमौतेसितौपक्षौलूनपक्षश्चदृश्यसे कच्चिन्नानेकचित्तानांतेषांत्वंवशमागतः
Verse 27
ततस्सभयसंविग्नस्तदाराज्ञाभिचोदितः वचनंप्रत्युवाचेदंराक्षसाधिपमुत्तमम् सागरस्योत्तरेतीरेऽब्रवंतेवचनंतथा यथासन्धेशमक्लिष्टंसान्त्वयन् श्लक्ष्णयागिरा
Verse 28
ततस्सभयसंविग्नस्तदाराज्ञाभिचोदितः वचनंप्रत्युवाचेदंराक्षसाधिपमुत्तमम् सागरस्योत्तरेतीरेऽब्रवंतेवचनंतथा यथासन्धेशमक्लिष्टंसान्त्वयन् श्लक्ष्णयागिरा
Verse 29
क्रुद्धैस्सैरहमुत्प्लुतदृष्टमात्रःप्लवङ्गमैः गृहीतोऽस्म्यपिचारब्दोहन्तुंलोप्तुंचमुष्टिभि
Verse 30
नैवसम्भाषितुंशक्यास्सम्प्रश्नोऽत्रनलभ्यते प्रकृत्याकोपनास्तीक्ष्णानानराराक्षसाधिप
Verse 31
सचहन्ताविराधस्यकबन्धस्यखरस्यच सुग्रीवसहितोरामस्सीताया: पदमागतः
Verse 32
सकृत्वासागरेसेतुंतीर्त्वाचलवणोदधिम् एषरक्षांसिनिर्दूयधन्वीतिष्ठतिराघवः
Verse 33
ऋक्षवानरसङ्घानामनीकानिसहस्रशः गिरिमेघनिकाशानांछादयन्तिवसुन्धराम्
Verse 34
राक्षसानांबलौघस्यवानरेन्द्रबलस्यच नैतयोर्विद्यतेसन्धिर्देवदानवयोरिव
Verse 35
पुराप्राकारमायान्तिक्षिप्रमेकतरंकुरु सीतांवास्मैप्रयच्छाशुसुयुद्धंवापिप्रदीयताम्
Verse 36
शुकस्यवचनंश्रुत्वारावणोवाक्यमब्रवीत् रोषसंरक्तनयनोनिर्दहन्निनचक्षुषा
Verse 37
यदिमांप्रतियुध्येरन् देवगन्धर्वदानवाः नैवसीतांप्रदास्यामिसर्वलोकभयादपि
Verse 38
कदासमभिधावन्तिराघवंमामकाश्शराः वसन्तेपुष्पितंमत्ताभ्रमराइवपादपम्
Verse 39
कदातूणीयशैर्दीप्तैर्गणश: कार्मुकच्युतैः शरैरादीपयाम्येनमुल्काभिरिवकुञ्जरम्
Verse 40
तच्चास्यबलमादास्येबलेनमहतावृतः ज्योतिषामिवसर्वेषांप्रभामुद्यन्दिवाकरः
Verse 41
सागरस्येवमेवेगोमारुतस्येवमेगति: नहिदाशरथिर्वेदतेनमांयोद्धुमिच्छति
Verse 42
नमेतूणीशयान्बाणान् सविषानिवपन्नगान् रामःपश्यतिसङ्ग्रामेतेनमांयोध्दुमिच्छति
Verse 43
नजानातिपुरावीर्यममयुद्धेसराघवः ममचापमयींवीणांशरकोणैःप्रवादिताम् ज्याशब्दतुमुलांघोरामार्तभीतमहास्वनाम् नाराचतलसन्नादांतांममाहितवाहिनीम् अवगाह्यमहारङ्गंवादयिष्याम्यहंरणे
Verse 44
नजानातिपुरावीर्यममयुद्धेसराघवः ममचापमयींवीणांशरकोणैःप्रवादिताम् ज्याशब्दतुमुलांघोरामार्तभीतमहास्वनाम् नाराचतलसन्नादांतांममाहितवाहिनीम् अवगाह्यमहारङ्गंवादयिष्याम्यहंरणे
Verse 45
नवासवेनापिसहस्रचक्षुषायथास्मिशक्योवरुणेनवास्वयम् यमेनवाधर्षयितुंशराग्निनामहाहवेवैश्रवणेनवापुन:
0:000:00
Speed: