Book 6 • Chapter 3
Sarga 3
34 verses
Verse 1
सुग्रीवस्यवचश्श्रुत्वाहेतुमत्परमार्थवत् प्रतिजग्राहकाकुत्स्थोहनूमन्तमथाब्रवीत्
Verse 2
तपसासेतुबन्धेनसागरोच्छोषणेनच सर्वथासुसमर्थोऽस्मिसागरस्यास्यलङ्घने
Verse 3
कतिदुर्गाणिदुर्गायालङ्कायाब्रूहितानिमे ज्ञातुमिच्छामितत्सर्वंदर्शनादिववानर
Verse 4
बलस्यपरिमाणंचद्वारदुर्गक्रियामपि गुप्तिकर्मचलङ्कायारक्षसांसदनानिच यथासुखंयथावच्छलङ्कायामसिदृष्टवान् सर्वमाचक्ष्वतत्त्वेनसर्वथाकुशलोह्यसि
Verse 5
बलस्यपरिमाणंचद्वारदुर्गक्रियामपि गुप्तिकर्मचलङ्कायारक्षसांसदनानिच यथासुखंयथावच्छलङ्कायामसिदृष्टवान् सर्वमाचक्ष्वतत्त्वेनसर्वथाकुशलोह्यसि
Verse 6
श्रुत्वारामस्यवचनंहनुमान्मारुतात्मजः वाक्यंवाक्यविदांश्रेष्ठोरामंपुनरथाब्रवीत्
Verse 7
श्रूयतांसर्वमाख्यास्येदुर्गकर्मविधानतः गुप्तापुरीयथालङ्कारक्षिताचयथाबलैः
Verse 8
राक्षसाश्चयथास्निग्धारावणस्यचतेजसा परांसमृद्धिंलङ्कायास्सागरस्यचभीमताम् विभागंचबलौघस्यनिर्देशंवाहनस्यच एवमुक्त्वाकपिश्रेष्ठःकथयामासतत्त्ववित:
Verse 9
राक्षसाश्चयथास्निग्धारावणस्यचतेजसा परांसमृद्धिंलङ्कायास्सागरस्यचभीमताम् विभागंचबलौघस्यनिर्देशंवाहनस्यच एवमुक्त्वाकपिश्रेष्ठःकथयामासतत्त्ववित:
Verse 10
हृष्टप्रमुदितालङ्कामत्तद्विपसमाकुला महतीरथसंपूर्णारक्षोगणसमाकुला
Verse 11
दृढबद्धकवाटानिमहापरिघवन्तिच द्वाराणिविपुलान्यस्याश्चत्वारिसुमहान्तिच
Verse 12
तत्रेषूपलयन्त्राणिबलवन्तिमहान्तिच आगतंपरसैन्यंतैस्तत्रप्रतिनिवार्यते
Verse 13
द्वारेषुसंस्कृताभीमाःकालायसमयाश्शिताः शतशोरचितावीरैश्शतघ्नयोरक्षसांगणै
Verse 14
सौवर्णस्तुमहांस्तस्याःप्राकारोदुष्प्रधर्षणः मणीविद्रुमवैदूर्यमुक्ताविरचितान्तरः
Verse 15
सर्वतश्चमहाभीमाश्शीततोयवहाश्शुभाः अगाधाग्राहवत्यश्चपरिखामीनसेविता
Verse 16
द्वारेषुतासांचत्वारस्सङ्क्रमाःपरमायताः यन्त्रैरुपेताबहुभिर्महद्भिर्गृहपङ्क्तिभिः
Verse 17
त्रायन्तेसङ्क्रमास्तत्रपरसैन्यागतेसति यन्त्रैस्तैरवकीर्यन्तेपरिखासुसमन्ततः
Verse 18
एकस्त्वकम्प्योबलवान्सङ्क्रमस्सुमहादृढः काञ्चनै र्बहुभिस्स्तम्भैर्वेदिकाभिश्चशोभितः
Verse 19
स्वयंप्रकृतिमापन्नोयुयुत्सूराम रावण: उत्थितश्चाप्रमत्तश्चबलानामनुदर्शने
Verse 20
लङ्कापुनर्निरालम्बादेवदुर्गाभयावहा नादेयंपार्वतंवान्यंकृत्रिमंचचतुर्विधम्
Verse 21
स्थितापारेसमुद्रस्यदूरपारस्यराघव नौपथोपिश्चनास्त्यत्रनिरादेशश्चसर्वशः
Verse 22
शैलाग्रेरचितादुर्गासापुरैर्देवपुरोपमा वाजिवारणासम्पूर्णालङ्कापरमदुर्जया
Verse 23
परिखाश्चशतघ्नयश्चयन्त्राणिविविधानिच शोभयन्तिपुरींलङ्कांरावणस्यदुरात्मनः
Verse 24
अयुतंरक्षसामत्रपूर्वद्वारंसमाश्रितम् शूलहस्तादुराधर्षास्सर्वेखङ्गाग्रयोधिनः
Verse 25
नियुतंरक्षसामत्रदक्षिणद्वारमाश्रितम् चतुरङ्गेणसैन्येनयोधास्तत्राप्यनुत्तमाः
Verse 26
प्रयुतंरक्षसामत्रपश्चिमद्वारमाश्रितम् चर्मखङ्गधरास्सर्वेतथासर्वास्त्रकोविदाः
Verse 27
न्यर्बुदंरक्षसामत्राप्युत्तरद्वारमाश्रितम् रथिनश्चाश्ववाहाश्चकुलपुत्त्रास्सुपूजिताः
Verse 28
शतशोऽथसहस्राणिमध्यमंस्कन्धमाश्रिताः यातुधानादुराधर्षास्साग्रकोटिश्चरक्षसाम्
Verse 29
तेमयासङ्क्रमाभग्नाःपरिखाश्चावपूरिताः दग्धाचनगरीलङ्काप्राकाराश्चावसादिताः बलैकदेशःक्षपितोराक्षसानांमहात्मनाम्
Verse 30
येनकेनतुमार्गेणतरामवरुणालयम् हतेतिनगरीलङ्कावानरैरवधार्यताम्
Verse 31
अङ्गदोद्विविदोमैन्दोजाम्बवान्पनसोऽनलः नीलस्सेनापतिश्चेवबलशेषेणकिंतव प्लवमानाहिगत्वातांरावणस्यमहापुरीम् सपर्वतवनांभित्त्वासखातांचसप्रतोरणाम् सप्राकारांसभवनामानयिष्यन्तिराघव
Verse 32
अङ्गदोद्विविदोमैन्दोजाम्बवान्पनसोऽनलः नीलस्सेनापतिश्चेवबलशेषेणकिंतव प्लवमानाहिगत्वातांरावणस्यमहापुरीम् सपर्वतवनांभित्त्वासखातांचसप्रतोरणाम् सप्राकारांसभवनामानयिष्यन्तिराघव
Verse 33
अङ्गदोद्विविदोमैन्दोजाम्बवान्पनसोऽनलः नीलस्सेनापतिश्चेवबलशेषेणकिंतव प्लवमानाहिगत्वातांरावणस्यमहापुरीम् सपर्वतवनांभित्त्वासखातांचसप्रतोरणाम् सप्राकारांसभवनामानयिष्यन्तिराघव
Verse 34
एवमाज्ञापयक्षिप्रंबलानांसर्वसङ्ग्रहम् मुहूर्तेनतुयुक्तेनप्रस्थानमभिरोचय
0:000:00
Speed: