Book 6 • Chapter 4
Sarga 4
124 verses
Verse 1
श्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः ततोऽब्रवीन्महातेजा रामस्सत्यपराक्रमः
Verse 2
यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः क्षिप्रमेनां मथिष्यामि सत्यमेतद्ब्रवीमि ते
Verse 3
अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचये युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकर
Verse 4
सीतां हृत्वा तु मे जातु क्वासौ यास्यति यास्यत: सीता श्रुत्वाभियानं मे अशामेष्यति जीविते जीवितान्तेऽ मृतं स्पृष्टवा पीत्वा विषमिवातुरः
Verse 5
उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते अभिप्रायाम सुग्रीव सर्वानीकसमावृताः
Verse 6
निमित्तानि च पश्यामि यानि प्रादुर्भवन्ति च निहत्य रावणं सीतामानयिष्यामि जानकीम्
Verse 7
उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम विजयं समनुप्राप्तं शंसतीव मनोरथम्
Verse 8
ततो वानरराजेन लक्ष्मणेन सुपूजितः उवाच रामो धर्मात्मा पुनरप्यर्धकोविदः
Verse 9
अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् वृतश्शतसहस्रेण वानराणां तरस्विनाम्
Verse 10
फलमूलवता नील शीतकाननवारिणा पथा मधुमता चाशु सेनां सेनापते नय
Verse 11
दूषयेयुर्दुरात्मनः पथि मूलफलोदकम् राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः
Verse 12
निम्नेषु वनदुर्गेषु वनेषु च वनौकसः अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम्
Verse 13
यच्च फल्गु बलं किञ्चित्त दत्रैवोपपद्यताम् एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुज्यताम्
Verse 14
सागरौघनिभं भीममग्रानीकं महाबलाः कपिसिंहाः प्रकर्षस्तु शतशोऽथ सहस्रशः
Verse 15
गजश्च गिरिसङ्काशो गवयश्च महाबलः गवाक्षश्चाग्रतो यातु गवां दृप्तइवर्षभ:
Verse 16
यातु वानरवाहिन्या वानरः प्लवतां वरः पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः
Verse 17
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः यातु वानरवाहिन्या स्सव्यं पार्श्वमधिष्ठितः
Verse 18
यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् अधिरुह्य हनूमन्त मैरावत मिवेश्वरः
Verse 19
अङ्गदेनैष संयातु लक्ष्मणश्चान्त कोपमः सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा
Verse 20
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः
Verse 21
राघवस्य वचश्श्रुत्वा सुग्रीवो वाहिनीपतिः व्यादिदेश महावीर्यो वानरान्वानरर्षभ ः
Verse 22
ते वानरगणास्सर्वे समुत्पत्य युयुत्सवः गुहाभ्यश्शिखरेभ्यश्च अशु पुप्लुविरे तदा
Verse 23
ततो वानरराजेन लक्ष्मणेन च पूजितः जगाम रामोधर्मात्मा ससैन्यो दक्षिणां दिशम्
Verse 24
शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा
Verse 25
तं यान्तमनुयान्ती सा महती हरिवाहिनी दृप्ता: प्रमुदितास्सर्वे सुग्रीवेणाभिपालिताः
Verse 26
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः क्षेवळन्तो निनदन्तस्ते जग्मुर्वै दक्षिणां दिशम्
Verse 27
भक्ष्यन्त स्सुगन्धीनि मधूनि च फलानि च उद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः
Verse 28
अन्योन्यं सहसा दृप्ता निर्वहान्ति क्षिपन्ति च पतन्तश्पोत्पत्नत्यन्ये पातयन्त्यपरे परान्
Verse 29
रावणो नो निहन्तव्यस्सर्वे च रजनीचराः इति गर्जन्ति हरयो राघवस्य समीपतः
Verse 30
पुरस्तादृषभो वीरो नील: कुमुद एव च पन्थानं शोधयन्तिस्म वानरैर्बहुभि स्सह
Verse 31
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च बलभिर्बहुभि र्भीमैर्वृताश्शत्रुनिबर्हणाः
Verse 32
हरिश्शतवलिर्वीरः कोटीभिर्दशभिर्वृतः सर्वामेको ह्यावष्टभ्य ररक्ष हरिवाहिनीम्
Verse 33
कोटीशतपरीवारः केसरी पनसो गजः अर्कश्चातिबल: पार्श्वमेकं तस्याभिरक्षति
Verse 34
सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतौ सुग्रीवं पुरतः कृत्वा जघनं सम्ररक्षतुः
Verse 35
तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः सम्पतन्पततां श्रेष्ठस्तद्बलं पर्यपालयात्
Verse 36
दरीमुखः प्रजङ्घश्च रम्भोऽथ रभसः कपिः सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान्
Verse 37
एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमालतायुतम् सरांसि च सुपुल्लानि तटाकानि वनानि च
Verse 38
एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमालतायुतम् सरांसि च सुपुल्लानि तटाकानि वनानि च
Verse 39
रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् वर्जयन्नगराभ्याशां स्तथा जनपदानपि सागरौघनिभं भीमं तद्वानरबलं महत् उत्ससर्प महाघोषं भीमघोषमिवार्णव:
Verse 40
रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् वर्जयन्नगराभ्याशां स्तथा जनपदानपि सागरौघनिभं भीमं तद्वानरबलं महत् उत्ससर्प महाघोषं भीमघोषमिवार्णव:
Verse 41
तस्यदाशरथे: पार्श्वे शूरास्ते कपिकुङजराः तोर्णमापुप्लुवु स्सर्वे सदश्वा इव चोदिताः
Verse 42
कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ महाद्भ्यामिव सम्स्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ
Verse 43
ततो वानरराजेन लक्ष्मणेन सुपूजितः जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्
Verse 44
तमङ्गदगतो रामं लक्ष्मणश्शुभया गिरा उवाच परिपूर्णार्थ: स्मृतिमान् प्रतिभानवान्
Verse 45
हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् समृद्धार्थस्समृद्धार्थमयोध्यां प्रतियास्यसि
Verse 46
महान्ति च निमित्तानि दिवि भूमौ च राघव शुभानि तव पश्यामि सर्वाण्येनार्थसिद्धये अनुवाति शिवो वायु स्सेवां मृदुहित स्सुखः
Verse 47
पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः प्रसन्नाश्च दिश स्सर्वा विमलश्च दिवाकरः
Verse 48
उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः ब्रह्मराशिर्विशुद्धश्च शुद्दाश्च परमर्षयः अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम्
Verse 49
उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः ब्रह्मराशिर्विशुद्धश्च शुद्दाश्च परमर्षयः अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम्
Verse 50
त्रिशङ्कुर्विमलो भाति राजर्षिस्सपुरोहितः पितामहाः पुरोऽस्माकमिक्ष्वाकूणां महात्मनाम्
Verse 51
विमले च प्रकाशेते विशाखे निरुपप्लुवे नक्षत्र वरमस्माकमिक्ष्वाकूणां महात्मनाम्
Verse 52
नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना
Verse 53
सर्वं चैतद्विनाशाय राक्षसानामुप स्थितम् काले कालगृहीतानां नक्षत्र ग्रहपीडितम्
Verse 54
प्रसन्ना स्सुरसाश्चापो वनानि फलवन्ति च प्रवान्त्यभ्य नाधिकं गन्धान्यथर्तुकुसुमा द्रुमाः
Verse 55
व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो देवानामिव सैन्यानि सङ्ग्रामे तारकामये एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि
Verse 56
व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो देवानामिव सैन्यानि सङ्ग्रामे तारकामये एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि
Verse 57
इति भ्रातरमाश्वास्य हृष्ट स्सौमित्रिरब्रवीत् अथावृत्य महीं कृत्स्नां जगाम महती चमू: ऋक्षवानरशर्दूलैर्न खदंष्ट्रायुधैर्वुता
Verse 58
काराग्रैश्चरणाग्रैश्च वानरै रुत्थितं रजः भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् पर्वतवनाकाशां दक्षिणां हरिवाहिनी छादयन्ती ययौ भीमा द्यामिवाम्बुदसन्ततिः
Verse 59
काराग्रैश्चरणाग्रैश्च वानरै रुत्थितं रजः भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् पर्वतवनाकाशां दक्षिणां हरिवाहिनी छादयन्ती ययौ भीमा द्यामिवाम्बुदसन्ततिः
Verse 60
उत्तरन्त्यां च सेनायां स्सततं बहुयोजनम् नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत्
Verse 61
सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वता समान् भूमिप्रदेशांश्च वनानि फलवन्ति च मध्येन च समन्ताच्च तिर्यक्चाथश्च समाऽविशत्
Verse 62
समावृत्य महीं कृत्स्नां जगाम महती चमूः तेहृष्टवदना स्सर्वे जग्मुर्मारुतरंहसः
Verse 63
हरयो राघवस्यार्थे समारोपितविक्रमाः हर्षंवीर्य बलोद्रेकान्दर्शयन्तः परस्परम् यौवनोत्सेकजान्दर्पाद्विविधांश्चक्रुरध्वनि
Verse 64
हरयो राघवस्यार्थे समारोपितविक्रमाः हर्षंवीर्य बलोद्रेकान्दर्शयन्तः परस्परम् यौवनोत्सेकजान्दर्पाद्विविधांश्चक्रुरध्वनि
Verse 65
तत्र केचिद्द्रुतं जग्मुरुत्पेतुश्च तथापरे केचित्किलकिलां चक्रुर्वानरा वनगोचराः
Verse 66
प्रास्पोटयंश्च पुच्छानि सन्निजग्मु: पदान्यपि भुजावनिक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे
Verse 67
आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः महानादान्प्रमुञ्चन्ति क्ष्वेळ्वामन्ये प्रचक्रिरे
Verse 68
ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः जृम्भमाणाश्च विक्रान्ता विचिक्रीडुश्शिलाद्रुमै ः
Verse 69
शतश्शतसहस्रैश्च कोटिभिश्च सहस्रशः वानराणां सुघोराणां श्रीमत्परिवृता मही
Verse 70
सा स्म याति दिवारात्रं महती हरिवाहिनी प्रहृष्टमुदितास्सेना सुग्रीवेणाभिपालिताः वानरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः प्रमोक्षयिषव स्सीतां मुहूर्तं क्वापि नावसन्
Verse 71
सा स्म याति दिवारात्रं महती हरिवाहिनी प्रहृष्टमुदितास्सेना सुग्रीवेणाभिपालिताः वानरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः प्रमोक्षयिषव स्सीतां मुहूर्तं क्वापि नावसन्
Verse 72
ततः पादपसम्भाधं नानामृगसमायुताम सह्यपर्वतमासेदुर्मलयञ्च महीधरम्
Verse 73
काननानि विचित्राणि नदी: प्रस्रवणानि च पश्यन्ननि ययौ रामस्सह्यस्य मलयस्य च
Verse 74
वकुळान्स्तिलकांश्चूतानसोकान् सिन्धुवारकान् करवीरांश्च तिनिशान् भजन्ति स्म प्लवङ्गगमाः
Verse 75
अङ्कोलांश्च करञ्चांश्च प्लक्षन्यग्रोधतिन्दुकान् जम्बुकामलकान्नापान्भजन्ति स्म प्लवङ्गमाः
Verse 76
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान्
Verse 77
मारुतस्सुखसंस्पर्शो वाति चन्दनशीतलः षटपदैरनुकूजद्भिर्वनेषु मधुगन्धिषु
Verse 78
अधिकं शैलराजस्तु धातुभिस्सुविभूषितः धातुभ्यःप्रसृतो रेणुर्वायुवेग विघट्टितः सुमहद्वानरानीकं छादयामास सर्वतः
Verse 79
गिरिप्रस्थेषु रम्येषु सर्वत सम्प्र पुष्पिताः केतकस्सिन्दुवाराश्च वासन्त्यश्च मनोरमाः माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः चिरिबिल्वा मधूकाश्च वञ्जुला प्रियकास्तथा सुफूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः चूताः पाटलयकाश्चैव कोविदाराश्च पुष्पिताः मुचुलिन्दार्जुनाश्चैव शिंशुपाः कुटजास्तथा धवा श्शाल्मलयश्चैव रक्ता: कुरवकास्तथा हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा प्लवमानै: प्लवंगैस्तु सर्वे पर्याकुलीकृतां
Verse 80

Verse 81

Verse 82

Verse 83

Verse 84

Verse 85
वाप्यस्तस्मिन् गिरौ शिता: पल्वलानि तथैव च चक्रवाकानुचरिताः कारण्डवनिषेविताः प्लवैः क्रौञ्चेश्च सङ्कीर्णा वराहमृग सेविताः ऋक्षैस्तरक्षुभिस्सिम्हैश्शार्दूलैश्च भयावहैः व्यालैश्च बहुभिर्भीमै स्सेव्यमाना स्समन्ततः पद्मैस्सौगन्दिकैः पुल्लैः कुमुदैश्चोत्पलैस्तथा वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः
Verse 86

Verse 87

Verse 88
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः
Verse 89
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः
Verse 90
फलान्य मृतगन्धीनि मूलानि कुसुमानि च बभञ्जुर्वास्तत्र पादपानं मदोत्कटाः
Verse 91
द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ययुः पिबन्त हृष्टास्ते मधूनि मधुपिङ्गलाः
Verse 92
पादपानवभञ्जन्तो विकर्षन्त स्तथा लताः विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः
Verse 93
वृक्षेभ्योऽन्ये तु कपयो नदन्तो मधुदर्पिताः अन्ये वृक्षान्प्रपद्यन्ते प्रपिबन्त्यपि चापरे
Verse 94
बभूव वसुधा तैस्तु सम्पूर्णा हरियूथपै: यथा कलमकेदारैः पक्वैरिव वसुन्दरा
Verse 95
महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः अध्यारोहन्महाबाहुश्शिखरं द्रुमभूषितम्
Verse 96
ततश्शिखरमारुह्य रामो दशरथात्मजः कूर्ममीनसमाकीर्णमपश्यत्सलिलाकुलम्
Verse 97
ते सह्यं समतिक्रम्य मलयं च महागिरिम् आसेदुरानुपूर्व्येण समुद्रं भमनिस्स्वनम्
Verse 98
अवरुह्य जगामाशु वेलावनमनुत्तमम् रामो रमयतां श्रेष्ट स्ससुग्रीव स्सलक्ष्मणः
Verse 99
अथ धौतोपलतलां तोयौघै स्सहसोत्थितैः वेलामासाद्य विपुलान्रामो वचनमब्रवीत्
Verse 100
एते वयमनुप्राप्ता स्सुग्रीव वरुणालयम् इहेदानीं विचिन्ता साया नः पूर्वसमुत्थिता
Verse 101
अतः परमतीरोऽयं सागर स्सरितां पतिः न चायमनुपायेन शक्यस्तरितुमर्णवः
Verse 102
तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह यथेदं वानरबलं परं पारमवाप्नुयात्
Verse 103
इतीव स महाबाहुस्सीताहरणकर्शितः रामस्सागरमासाद्य वासमाज्ञापयत्तदा
Verse 104
सर्वा स्सेना निवेश्यन्तां वेलायां हरिपुङ्गव सम्प्राप्तो मन्त्रकालो नस्सागरस्येह लङ्घने
Verse 105
स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत् गच्छन्तु वानराश्शूराज्ञेयं छन्नं भयं च नः
Verse 106
रामस्य वचनं श्रुत्वा सुग्रीव स्सहलक्ष्मणः सेनां निवेशयततीरे सागरस्य द्रुमायुते
Verse 107
विरराज समीपस्थं सागरस्य तु तद्बलम् मधुपाण्डुजल श्रशीमान् द्वितीय इव सागरः
Verse 108
वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः निविष्टाश्च परं पारं काङ्क्षमाणा महोदधेः
Verse 109
तेषां निविशमानानां सैन्यसन्नाहनिस्स्वनः अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे
Verse 110
सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता त्रिधा निविष्टा महती रामस्यार्थपराऽभवत्
Verse 111
सा महार्णवमासाद्य हृष्टा वानरवाहिनी वायुवेगसमाधूतं पश्यमाना महार्णवम्
Verse 112
दूरपारमसम्बाधं रक्षोगणनिषेवितम् पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः
Verse 113
चण्डनक्रग्राहं घोरं क्षपादौ दिवसक्ष्ये हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः
Verse 114
चन्द्रोदये समुद्भूतं प्रतिचन्द्रसमाकुलम् चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः
Verse 115
दीप्तभोगैरिवाकीर्णं भुजङ्गैर्वरुणालयम् अवगाढं महासत्त्वैर्नानाशैलसमाकुलम् सुदुर्गं दुर्गमार्गं तमगाध मसुरालयम्
Verse 116
मकरैर्नागभोगैश्च विगाढा वातलोलिताः उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः
Verse 117
अग्निचूर्णमिवाविद्धं भास्वराम्बुमहोरगम् सुरारिविषयं घोरं पाताळविषमं सदा
Verse 118
सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् सागरं चाम्बरं चेति निर्विशेष मदृश्यत
Verse 119
सम्पृक्तं नभसाप्यम्भस्सम्पृक्तं च नभोऽम्भसा तादृग्रूपेच दृश्यते तारारत्नसमाकुले
Verse 120
समुत्पतितमेघस्य वीचिमालाकुलस्य च विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च
Verse 121
अन्योन्यैराहता स्सक्ता स्सस्वनुर्भीमनिस्स्वनाः ऊर्मयस्सिन्धुराजस्य महाभेर्य इवाहवे
Verse 122
रत्नौघ जलसन्नादं विषक्तमिव वायुना उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ददृशुस्ते महोत्साह वाताहतजलाशयम् अनिलोद्धूतमाकाशे प्रवल्गन्त ममिवोर्मिभिः
Verse 123
रत्नौघ जलसन्नादं विषक्तमिव वायुना उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ददृशुस्ते महोत्साह वाताहतजलाशयम् अनिलोद्धूतमाकाशे प्रवल्गन्त ममिवोर्मिभिः
Verse 124
ततो विस्मयमापन्ना हरयो ददृशुर्हरयस्तदा भ्रान्तोर्मिजालसन्नादं प्रलोलमिव सागरम्
0:000:00
Speed: