Book 6 • Chapter 5
Sarga 5
23 verses
Verse 1
सातुनीलेनविधिवत्स्वारक्षासुसमाहिता सागरस्योत्तरेतीरेसाधुसेनानिवेशिता
Verse 2
मैन्दश्चद्विविदश्चोभौतत्रवानरपुङ्गवौ विचेरतुश्चतांसेनांरक्षार्थंसर्वतोदिशम्
Verse 3
निविष्टायांतुसेनायांतीरेनदनदीपतेः पार्श्वस्थंलक्ष्मणंदृष्टवारामोवचनमब्रवीत्
Verse 4
शोकश्चकिलकालेनगच्छताह्यपगच्छति ममचापश्यतःकान्तामहन्यहनिवर्धते
Verse 5
नमेदुःखंप्रियादूरेनमेदुःखंहृतेतिवा एतदेवानुशोचामिवयोस्याह्यतिवर्तते
Verse 6
वाहिवातयतःकान्तातांस्पृष्टवामामपिस्पृश त्वयिमेगात्रसंस्पर्शश्चन्द्रेदृष्टिसमागमः
Verse 7
तन्मेदहतिगात्राणिविषंपीतमिवाशये हानाथेतिप्रियासामांह्रियमाणायदब्रवीत्
Verse 8
तद्वियोगेन्धनवतातच्चिन्ताविपुलार्चिषा रात्रिंदिवंशरीरंमेदह्यतेमदनाग्निना
Verse 9
अवगाह्यर्णवंस्वप्स्येसौमित्रेभवताविना कथञ्चित्प्रज्वलन्कामस्समांसुप्तंजलेदहेत्
Verse 10
बह्वेतत्कामयानस्यशक्यमेतेनजीवितुम् यदहंसाचवामोरूरेकांधरणिमाश्रितौ
Verse 11
केदारस्येवकेदारस्सोदकस्यनिरूदकः उपस्नेहेनजीवामिजीवन्तींयच्छृणोमिताम्
Verse 12
कदानुखलुसुश्रोणींशतपत्त्रायतेक्षणाम् विजित्यशत्रून्द्रक्ष्यामिसीतास्फीतामिवश्रियम्
Verse 13
कदानुचारुबिम्बोष्ठंतस्याःपद्ममिवाननम् ईषदुन्नम्यपास्यामिरसायनमिवातुरः
Verse 14
तस्यात्तुसंहितौपीनौस्तनौतालफलोपमौ कदानुखलुसोत्कम्पौश्लिष्यन्त्यामांभजिष्यत:
Verse 15
सानूनमसितापाङ्गीरक्षोमध्यगतासती मन्नाथानाथहीनेवत्रातारंनाधिगच्छति
Verse 16
कथंजनकरजस्यदुहिताममचप्रिया राक्षसीमध्यगाशेतेस्नुषादशरथस्यच
Verse 17
कदाऽविक्षोभ्यरक्षांसिसाविधूयोत्पतिष्यति विधूयजलदान्नीलान् शशिरेखाशरत्स्विव
Verse 18
स्वभावतनुकानूनंशोकेनानशनेनच भूयस्तनुतरासीतादेशकालविपर्ययात्
Verse 19
कदानुराक्षसेन्द्रस्यनिधायोरसिसायकान् सीतांप्रत्याहरिष्यामिशोकमुत्सृज्यमानसम्
Verse 20
कदानुखलुमांसाध्वीसीतासुरसुतोपमा सोत्कण्ठाकण्ठमालम्ब्यमोक्ष्यत्यानन्दजंजलम्
Verse 21
कदाशोकमिमंघोरंमैथिलीविप्रयोगजम् सहसाविप्रमोक्ष्यामिवासश्शुक्लेतरंयथा
Verse 22
एवंविलपतस्तस्यतत्ररामस्यधीमतः दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागतः
Verse 23
आश्वासितोलक्ष्मणेनरामस्सन्ध्यामुपासत स्मरन्कमलपत्राक्षींसीतांशोकाकुलीकृतः
0:000:00
Speed: