Book 6 • Chapter 6
Sarga 6
18 verses
Verse 1
लङ्कायांतुकृतंकर्मघोरंदृष्टवाभयावहम् राक्षसेन्द्रोहनुमताशक्रेणेवमहात्मना अब्रवीद्राक्षसान् सर्वान्ह्रियाकिञ्चिदवाङ्मुखः
Verse 2
धर्षिताचप्रविष्टाचलङ्कादुष्प्रसहापुरी तेनवानरमात्रेणदृष्टासीताचजानकी
Verse 3
प्रासादोधर्षितश्चैत्यःप्रवराराक्षसाहताः आविलाचपुरीलङ्कासर्वाहनुमताकृता
Verse 4
किंकरिष्यामिभद्रंवोकिंवायुक्तमनन्तरम् उच्यतांनस्समर्थंयत्कृतंचसुकृतंभवेत्
Verse 5
मन्त्रमूलंचविजयंप्रवदन्तिमनस्विनः तस्मद्वैरोचयेमन्त्रंरामंप्रतिमहाबलाः
Verse 6
त्रिविधाःपुरुषालोकेउत्तमाधममध्यमाः तेषांतुसमवेतानांगुणदोषौवदाम्यहम्
Verse 7
मन्त्रिभिर्हितसंयुक्तैस्समर्थैर्मन्त्रनिर्णये मित्रैर्वापिसमानार्थैर्बान्धवैरपिवाधिकैः सहितोमन्त्रियित्वायःकर्मारम्भान्प्रवर्तयेत् दैवेचकुरुतेयत्नंतमाहुःपुरुषोत्तमम्
Verse 8
मन्त्रिभिर्हितसंयुक्तैस्समर्थैर्मन्त्रनिर्णये मित्रैर्वापिसमानार्थैर्बान्धवैरपिवाधिकैः सहितोमन्त्रियित्वायःकर्मारम्भान्प्रवर्तयेत् दैवेचकुरुतेयत्नंतमाहुःपुरुषोत्तमम्
Verse 9
कोऽर्थंविमृशेदेकोधर्मेप्रकुरुतेमनः कःकार्याणिकुरुतेतमाहुर्मध्यमंनरम्
Verse 10
गुणदोषौवनिशिचत्य त्यक्त्यादैवव्यपाश्रयम् करिष्यामीतियःकार्यमुपेक्षेत्सनराधमः
Verse 11
यथेमेपुरुषानित्यमुत्तमाधममध्यमाः वंमन्त्राऽहिविज्ञेयाउत्तमाधममध्यमः
Verse 12
ऐकमत्यमुपागम्यशास्त्रदृष्टेनचक्षुषा मन्त्रिणोयत्रनिरतास्तमाहुर्मन्त्रमुत्तमम्
Verse 13
बह्व्योऽपिमतीर्गत्वामन्त्रिणामर्थनिर्णये पुनर्यत्रैकतांप्राप्तस्समन्त्रोमध्यमस्स्मृतः
Verse 14
अन्योन्यमतिमास्थाययत्रसम्प्रतिभाष्यते नचैकमत्येश्रेयोऽस्तिमन्त्रस्सोऽधमउच्यत
Verse 15
तस्मात्सुमन्त्रितंसाधुभवन्तोमतिसत्तमा: कार्यंसम्प्रतिपद्यन्तामेतत्कृत्यंमतंमम
Verse 16
वानराणांहिधीराणांसहस्रैःपरिवारितः रामोऽभ्येतिपुरीलङ्कामस्माकमुपरोधकः
Verse 17
तरिष्यतिचसुव्यक्तंराघवस्सागरंसुखम् तरसायुक्तरूपेणसानुजस्सबलानुगः
Verse 18
समुद्रमुच्छोषयतिवीर्येणान्यत्करोतिवा अस्मिन्नेवंगतेकार्येविरुद्धेवानरैस्सह हितंपुरेचसैन्येचसर्वसम्मन्त्रयतांमम
0:000:00
Speed: