🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 7

Sarga 7

25 verses

Verse 1
इत्युक्ताराक्षसेन्द्रेणराक्षसास्तेमहाबलाः ऊचुःप्रान्जलयःसर्वेरावणंराक्षसेश्वरम्
Verse 2
द्विषत्पक्षमविज्ञायनीतिबाह्यास्त्वबुद्धयः राजन्परिघशक्त्यृष्टिशूलपट्टिशकुन्तलम्
Verse 3
इत्युक्ताराक्षसेन्द्रेणराक्षसास्तेमहाबलाः ऊचुःप्रान्जलयःसर्वेरावणंराक्षसेश्वरम् द्विषत्पक्षमविज्ञायनीतिबाह्यास्त्वबुद्धयः
Verse 4
राजन्परिघशक्त्यृष्टिशूलपट्टिशकुन्तलम्
Verse 5
सुमहन्नोबलंकस्माद्विषादंभजतेभवान् त्वयाभोगवतींगत्वानिर्जिताःपन्नगायुधि
Verse 6
कैलासशिखरावासीयक्षैर्बहुभिरावृतः सुमहत्कदनंकृत्वावश्यस्तेधनदःकृतः
Verse 7
समहेश्वरसख्येनश्लाघमानस्त्वयाविभो निर्जितःसमरेरोषाल्लोकपालोमहाबलः
Verse 8
विनिहत्यचयक्षौघान्विक्षोभ्यचविनिगृह्यच त्वयाकैलासशिखराद्विमानमिदमाहृतम्
Verse 9
मयेनदानवेन्द्रेणत्वद्भयात्सख्यमिच्छता दुहितातवभार्यार्थेदत्ताराक्षसपुङ्गव
Verse 10
दानवेन्द्रोमधुर्नामवीर्योत्सिक्तोदुरासदः विगृह्यवशमानीतःकुम्भीनस्याःसुखावहः
Verse 11
निर्जितास्तेमहाबाहोनागागत्वारसातलम् वासुकिस्तक्षकःशङखोजटीचवशमाहृताः
Verse 12
अक्षयाबलवन्तश्चशूरालब्धवराःपुनः त्वयासंवत्सरंयुद्ध्वासमरेदानवाविभो
Verse 13
स्वबलंसमुपाश्रित्यनीतावशमरिन्दम मायाश्चाधिगतास्तत्रबह्व्योवैराक्षसाधिप
Verse 14
शूराश्चबलवन्तश्चवरुणस्यसुतारणे निर्जितास्तेमहाभागचतुर्विधबलानुगाः
Verse 15
मृत्युदण्डमहाग्राहंशाल्मलिद्रुममण्डितम् कालपाशमहावीचिंयमकिंकरपन्नगम् महाज्वरेणदुर्धर्षंयमलोकमहार्णवम् अवगाह्यत्वयाराजन्यमस्यबलसागरम् जयश्चविपुलःप्राप्तोमृत्युश्चप्रतिषेधितः सुयुद्धेनचतेसर्वेलोकास्तत्रसुतोषिताः
Verse 16

Verse 17

Verse 18
क्षत्रियैर्बहुभिर्वीरैःशक्रतुल्यपराक्रमैः आसीद्वसुमतीपूर्णामहद्भिरिवपादपैः
Verse 19
तेषांवीर्यगुणोत्साहैर्नसमोराघवोरणे प्रसह्यतेत्वयाराजन्हताःसमरदुर्जयाः
Verse 20
तिष्ठवाकिंमहाराजश्रमे णतववानरान् अयमेकोमहाबाहुरिन्द्रजित्क्षपयिष्यति
Verse 21
अनेनहिमहाराजमहेश्वरमनुत्तमम् इष्ट्वायज्ञंवरोलब्धोलोकेपरमदुर्लभः
Verse 22
शक्तितोमरमीनंचविनिकीर्णान्त्रशैवलम् गजकछपसम्बाधमश्वमण्डूकसंकुलम् रुद्रादित्यमहाग्राहंमरुद्वसुमहोरगम् रथश्वगजतोयौघंपदातिपुलिनंमहत् अनेनहिसमासाद्यदेवानांबलसागरम् गृहीतोदैवतपतिर्लङ्कांचापिप्रवेशितः
Verse 23
शक्तितोमरमीनंचविनिकीर्णान्त्रशैवलम् गजकछपसम्बाधमश्वमण्डूकसंकुलम् रुद्रादित्यमहाग्राहंमरुद्वसुमहोरगम् रथश्वगजतोयौघंपदातिपुलिनंमहत् अनेनहिसमासाद्यदेवानांबलसागरम् गृहीतोदैवतपतिर्लङ्कांचापिप्रवेशितः
Verse 24
शक्तितोमरमीनंचविनिकीर्णान्त्रशैवलम् गजकछपसम्बाधमश्वमण्डूकसंकुलम् रुद्रादित्यमहाग्राहंमरुद्वसुमहोरगम् रथश्वगजतोयौघंपदातिपुलिनंमहत् अनेनहिसमासाद्यदेवानांबलसागरम् गृहीतोदैवतपतिर्लङ्कांचापिप्रवेशितः
Verse 25
पितामहनियोगाच्चमुक्तःशम्बरवृत्रहा गतस्त्रिविष्टपम्राजन्सर्वदेवनमस्कृतः
0:000:00
Speed: