🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 8

Sarga 8

24 verses

Verse 1
ततोनीलाम्बुदनिभ: प्रहस्तोनामराक्षसः अब्रवीत्प्राञ्जलिर्वाक्यंशूरस्सेनापतिस्तदा
Verse 2
देवदानवगन्धर्वाःपिशाचपतगोरगाः नत्वांधर्षयितुंशक्याःकिंपुनर्वानरारणे
Verse 3
सर्वेप्रमत्ताविश्वस्तावञ्चितास्स्महनूमता नहिमेजीवतोगच्छेज्जीवन् सवनगोचरः
Verse 4
सर्वांसागरपर्यन्तांसशैलवनकाननाम् करोम्यवानरांभूमिमाज्ञापयतुमांभवान्
Verse 5
रक्षांचैवविधास्यामिवानराद्रजनीचर नागमिष्यतितेदुःखंकिञ्चिदात्मापराधजम्
Verse 6
अब्रवीच्चसुसङ्कृद्धोदुर्मुखोनामराक्षसः इदंनक्षमणीयंहिसर्वेषांनःप्रधर्षणम्
Verse 7
अयंपरिभवोभूयःपुरस्यान्तःपुरस्यच श्रीमतोराक्षसेन्द्रस्यवानरेणप्रधर्षणम्
Verse 8
अस्मिन् मुहूर्तेगत्वैकोनिवर्तिष्यामिवानरान् प्रविष्टान् सागरंभीममम्बरंवारसातलम्
Verse 9
ततोऽब्रवीत्सुसङ्कृद्धोवज्रदंष्ट्रोमहाबलः प्रगृह्यपरिघंघोरंमांसशोणितरूषितम्
Verse 10
किंवोहनुमताकार्यंकृपणेनतपस्विना रामेतिष्ठतिदुर्धर्षेससुग्रीवेऽपिसलक्ष्मणे
Verse 11
अद्यरामंससुग्रीवंपरिघेणसलक्ष्मणम् आगमिष्यामिहत्वैकोविक्षोभ्यहरिवाहिनीम्
Verse 12
इदंममापरंवाक्यंशृणुराजन् यदीच्छसि उपायकुशलोह्येवजयेच्छत्रूनतन्द्रितः
Verse 13
कामरूपधराश्शूरास्सुभीमाभीमदर्शनाः राक्षसावैसहस्राणिराक्षसाधिपनिश्चिताः काकुत्स्थमुपसङ्गम्यबिभ्रतोमानुषंवपुः सर्वेह्यसम्भ्रमाभूत्वाब्रुवन्तुरघुसत्तमम्
Verse 14
कामरूपधराश्शूरास्सुभीमाभीमदर्शनाः राक्षसावैसहस्राणिराक्षसाधिपनिश्चिताः काकुत्स्थमुपसङ्गम्यबिभ्रतोमानुषंवपुः सर्वेह्यसम्भ्रमाभूत्वाब्रुवन्तुरघुसत्तमम्
Verse 15
प्रेषिताभरतेनैवभ्रात्रातवयवीयसा सहिसेनांसमुत्थाप्यक्षिप्रमेवोपयास्यति
Verse 16
ततोवयमितस्तूर्णंशूलशक्तिगदाधराः चापबाणासिहस्ताश्चत्वरितास्तत्रयामहे
Verse 17
आकाशेगणशस्थ्सित्वाहत्वातांहरिवाहिनीम् अश्मशस्त्रमहावृष्ट्याप्रापयामयमक्षयम्
Verse 18
एवंचेदुपसर्पेतामनयंरामलक्ष्मणौ अवश्यमपनीतेनजहतामेवजीवितम्
Verse 19
कौम्भकर्णिस्ततोवीरोनिकुम्भोनामवीर्यवान् अब्रवीत्परमक्रुद्धोरावणंलोकरावणम्
Verse 20
सर्वेभवन्तस्तिष्ठन्तुमहाराजेनसङ्गताः अहमेकोहनिष्यामिराघवंसहलक्ष्मणम् सुग्रीवञ्चहनूमन्तंसर्वांनेवचवानरान्
Verse 21
ततोवज्रहनुर्नामराक्षसःपर्वतोपमः क्रुद्ध: परिलिहन्सृक्कांजिह्वयावाक्यमब्रवीत्
Verse 22
स्वैरंकुर्वन्तुकर्माणिभवन्तोविगतज्वराः एकोऽहंभक्षयिष्यामितांसर्वांहरियूथपान् स्वस्थाःक्रीडन्तुनिश्चिन्ताःपिबन्तुमधुवारुणीम्
Verse 23
स्वैरंकुर्वन्तुकर्माणिभवन्तोविगतज्वराः एकोऽहंभक्षयिष्यामितांसर्वांहरियूथपान् स्वस्थाःक्रीडन्तुनिश्चिन्ताःपिबन्तुमधुवारुणीम्
Verse 24
अहमेकोवधिष्यामिसुग्रीवंसहलक्ष्मणम् साङ्गदंचहनूमन्तंरामंचरणकुञ्जरम्
0:000:00
Speed: