Book 6 • Chapter 42
Sarga 42
47 verses
Verse 1
ततस्तेराक्षसास्तत्रगत्वारावणमन्दिरम् न्यवेदयन्पुरींरुद्धांरामेणसहवानरैः
Verse 2
रुद्धांतुनगरींश्रुत्वाजातक्रोधोनिशाचरः विधानंद्विगुणंश्रुत्वाप्रासादंसोऽध्यरोहत
Verse 3
सददर्शावृतांलङ्कांसशैलवनकाननाम् असङ्ख्येयैर्हरिगणैःसर्वतोयुद्धकाङ्क्षिभिः
Verse 4
सदृष्ट्वावानरैःसर्वांवसुधांकवलीकृताम् कथंक्षपयितव्याःस्युरितिचिन्तापरोऽभवत्
Verse 5
सचिन्तयित्वासुचिरंधैर्यमालम्ब्यरावणः राघवंहरियूथांश्चददर्शायतलोचनः
Verse 6
राघवःसहसैन्येनमुदितोनामपुप्लुवे लङ्कांददर्शगुप्तांवैसर्वतोराक्षसैर्वृताम्
Verse 7
दृष्ट्वादाशरथिर्लङ्कांचित्रध्वजपताकिनीम् जगामसहसासीतांदूयमानेनचेतसा
Verse 8
अत्रसामृगशावाक्षीमत्कृतेजनकात्मजा पीड्यतेशोकसन्तप्ताकृशास्थण्डिलशायिनी
Verse 9
पीड्यमानांसधर्मात्मावैदेहीमनुचिन्तयन् क्षिप्रमाज्ञापयामासवानरान्द्विषतांवधे
Verse 10
एवमुक्तेतुवचनेरामेणाक्लिष्टकर्मणा संघर्षमाणाःप्लवगाःसिम्हनादैरनादयन्
Verse 11
शिखरैर्विकिरामैनांलङ्कांमुष्टिभिरेववा इतिस्मदधिरेसर्वेमनांसिहरियूथपाः
Verse 12
उद्यम्यगिरिशृङ्गाणिशिखराणिमहान्तिच तरूंश्चोत्पाट्यविविधांस्तिष्ठन्तिहरियूथपाः
Verse 13
प्रेक्षतोराक्षसेन्द्रस्यतान्यनीकानिभागशः राघवप्रियकामार्थंलङ्कामारुरुहुस्तदा
Verse 14
तेताम्रवक्त्राहेमाभारामार्थेत्यक्तजीविताः लङ्कामेवाभ्यवर्तन्तसालतालशिलायुधाः
Verse 15
तेद्रुमैःपर्वताग्रैश्चमुष्टिभिश्चप्लवङ्गमाः प्राकाराग्राण्यरण्यानिममन्थुस्तोरणानिच
Verse 16
पारिखाःपूरयन्तिस्मप्रसन्नसलिलायुताः पांसुभिःपर्वताग्रैश्चतृणैःकाष्ठैश्चवानराः
Verse 17
ततःसहस्रयूथाश्चकोटीयूथाश्चवानराः कोटीशतयुताश्चान्येलङ्कामारुरुहुस्तदा
Verse 18
काञ्चनानिप्रमृद्नन्तस्तोरणानिप्लवङ्गमाः कैलासशिखराभानिगोपुराणिप्रमथ्यच
Verse 19
आप्लवन्तःप्लवन्तश्चगर्जन्तश्चप्लवङ्गमाः लङ्कांतामभिधावन्तिमहावारणसंनिभाः
Verse 20
जयत्यतिबलोरामोलक्ष्मणश्चमहाबलः राजाजयतिसुग्रीवोराघवेणाभिपालितः
Verse 21
इत्येवंघोषयन्तश्चगर्जन्तश्चप्लवङ्गमाः अभ्यधावन्तलङ्कायाःप्राकारंकामरूपिणः
Verse 22
वीरबाहुःसुबाहुश्चनलश्चवनगोचरः निपीड्योपनिविष्टास्तेप्राकारंहरियूथपाः एतस्मिन्नन्तरेचक्रुःस्कन्धावारनिवेशनम्
Verse 23
पूर्वद्वारंतुकुमुदःकोटीभिर्दशभिर्वृतः आवृत्यबलवांस्तस्थौहरिभिर्जितकाशिभिः
Verse 24
साहाय्यार्थंतुतस्यैवनिविष्टःप्रघसोहरिः पनसश्चमहाबाहुर्वानरैर्बहुभिर्वृतः
Verse 25
दक्षिणंद्वारमागम्यवीरःशतबलिःकपिः आवृत्यबलवांस्तस्थौविंशत्याकोटिभिर्वृतः
Verse 26
सुषेणःपश्चिमद्वारंगतस्तारापिताहरिः आवृत्यबलवांस्तस्थौषष्टिकोटिभिरावृतः
Verse 27
उत्तरंद्वारमासाद्यरामःसौमित्रिणासह आवृत्यबलवांस्तस्थौसुग्रीवश्चहरीश्वरः
Verse 28
गोलाङ्गूलोमहाकायोगवाक्षोभीमदर्शनः वृतःकोट्यामहावीर्यस्तस्थौरामस्यपार्श्वतः
Verse 29
ऋक्षाणांभीमवेगानांधूम्रःशत्रुनिबर्हणः वृतःकोट्यामहावीर्यस्तस्थौरामस्यपार्श्वतः
Verse 30
सन्नद्धस्तुमहावीर्योगदापाणिर्विभीषणः वृतोयस्तैस्तुसचिवैस्तस्थौतत्रमहाबलः
Verse 31
गजोगवाक्षोगवयःशरभोगन्धमादनः समन्तात्परिधावन्तोररक्षुर्हरिवाहिनीम्
Verse 32
ततःकोपपरीतात्मारावणोराक्षसेश्वरः निर्याणंसर्वसैन्यानांद्रुतमाज्ञापयत्तदा
Verse 33
एतच्छ्रुत्वाततोवाक्यंरावणस्यमुखोद्गतम् सहसाभीमनिर्घोषमुद्घुष्टंरजनीचरैः
Verse 34
ततःप्रचोदिताभेर्यश्चन्द्रपाण्डरपुष्कराः हेमकोणाहताभीमाराक्षसानांसमन्ततः
Verse 35
विनेदुश्चमहाघोषाःशङ्खाःशतसहस्रशः राक्षसानांसुघोराणांमुखमारुतपूरिताः
Verse 36
तेबभुःशुभनीलाङ्गाःसशङ्खारजनीचराः विद्युन्मण्डलसन्नद्धाःसबलाकाइवाम्बुदाः
Verse 37
निष्पतन्तिततःसैन्याहृष्टारावणचोदिताः समयेपूर्यमाणस्यवेगाइवमहोदधेः
Verse 38
ततोवानरसैन्येनमुक्तोनादःसमन्ततः मलयःपूरितोयेनससानुप्रस्थकन्दरः
Verse 39
शङ्खदुन्दुभिसंघुष्टःसिम्हनादस्तरस्विनाम् पृथिवींचान्तरिक्षंचसागरंचैवनादयन्
Verse 40
गजानांबृंहितैःसार्धंहयानांहेषितैरपि रथानांनेमिघोषैश्चरक्षसाम्वदनस्वनः
Verse 41
एतस्मिन्नन्तरेघोरःसङ्ग्रामःसमवर्तत रक्षसांवानराणांचयथादेवासुरेपुरा
Verse 42
तेगदाभिःप्रदीप्ताभिःशक्तिशूलपरश्वधैः निजघ्नुर्वानरान्घोराःकथयन्तःस्वविक्रमान्
Verse 43
राजाजयतिसुग्रीवइतिशब्दोमहानभूत् राजन्जयजयेत्युक्त्वास्वस्वनामकथान्ततः
Verse 44
तथावृक्षैर्महाकायाःपर्वताग्रैश्चवानराः निजघ्नुस्तानिरक्षांसिनखैर्दन्तैश्चवेगिताः
Verse 45
राक्षसास्त्वपरेभीमाःप्राकारस्थामहीगतान् भिन्दिपालैश्चखड्गैश्चशूलैश्चैवव्यदारयन्
Verse 46
वानराश्चापिसङ्क्रुद्धाःप्राकारस्थान्महीगताः राक्षसान्पातयामासुःसमाप्लुत्यप्लवङ्गमाः
Verse 47
ससम्प्रहारस्तुमुलोमांसशोणितकर्दमः रक्षसांवानराणांचसम्बभूवाद्भुतोपमाः
0:000:00
Speed: