🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 43

Sarga 43

45 verses

Verse 1
युध्यतांतुततस्तेषांवानराणांमहात्मनाम् रक्षसांसम्बभूवाथबलकोपस्सुदारुणः
Verse 2
तेहयैःकाञ्चनापीडैर्ध्वश्चाग्निशिखोपमैः रथैश्चादित्यसङ्काशैःकवचैश्चमनोरमैः निर्ययूराक्षसव्याघ्रानादयन्तोदिशोदश राक्षसाभीमकर्माणोरावणस्यजयैषिणः
Verse 3
तेहयैःकाञ्चनापीडैर्ध्वश्चाग्निशिखोपमैः रथैश्चादित्यसङ्काशैःकवचैश्चमनोरमैः निर्ययूराक्षसव्याघ्रानादयन्तोदिशोदश राक्षसाभीमकर्माणोरावणस्यजयैषिणः
Verse 4
वानराणामपिचमूर्बृहतीजयमिच्छताम् अभ्यधावततांसेनांरक्षसांकामरूपिणम्
Verse 5
एतस्मिन्नन्तरेतेषामन्योन्यमभिधावताम् रक्षसांवानराणांचद्वन्द्वयुद्धमवर्तत
Verse 6
अङ्गदेन्द्रजित्सार्धंवालिपुत्रेणराक्षसः आयुध्यतमहातेजास्त्ऱ्यम्बकेणयथाऽन्तकः
Verse 7
प्रजङ्घेनचसम्पातिर्नित्यंदुर्मर्षणोरणे जम्बुमालिनमारब्धोहनुमानपिवानरः
Verse 8
संगतस्तुमहाक्रोधोराक्षसोरावणानुजः समरेतीक्ष्णवेगेनमित्रघ्नेनविभीषणः
Verse 9
तपनेनगजस्सार्धंराक्षसेनमहाबलः निकुम्भेनमहातेजानीलोऽपिसमयुध्यत
Verse 10
वानरेन्द्रस्तुसुग्रीवःप्रघसेनसमागतः सङ्गतःसमरेश्रीमान्विरूपाक्षेणलक्ष्मणः
Verse 11
अग्निकेतुश्चसुदुर्धर्षोरश्मिकेतुश्चराक्षसः सुप्तघ्नोयज्ञकोपश्चरामेणसहसङ्गताः
Verse 12
वज्रमुष्टिस्तुमैन्देनद्विविदेनाशनिप्रभः राक्षसाभ्यांसुघोराभ्यांकपिमुख्यौसमागतौ
Verse 13
वीरःप्रतपनोघोरोराक्षसोरणदुर्धरः समरेतीक्ष्णवेगेननळेनसमयुध्यत
Verse 14
धर्मस्यपुत्रोबलवान्सुषेणइतिविश्रुतः सविद्युन्मालिनासार्धमयुध्यतमहाकपिः वानराश्चापरेभीमाराक्षसैरपरैस्सह द्वन्द्वंसमीयुस्सहसायुद्धायबहुभिस्सह
Verse 15
धर्मस्यपुत्रोबलवान्सुषेणइतिविश्रुतः सविद्युन्मालिनासार्धमयुध्यतमहाकपिः वानराश्चापरेभीमाराक्षसैरपरैस्सह द्वन्द्वंसमीयुस्सहसायुद्धायबहुभिस्सह
Verse 16
तत्रासीत्सुमहद्युद्धंतुमुलंरोमहर्षणम् रक्षसांवानराणांचवीराणांजयमिच्छताम्
Verse 17
हरिराक्षसदेहेभ्यःप्रभूताःकेशशाद्वलाः शरीरसङ्घाटावहाःप्रसुस्रुश्शोणितापगाः
Verse 18
अजघानेन्द्रजित्क्रुद्धोवज्रेणेवशतक्रतुः अङ्गदंगदयावीरंशत्रुसैन्यविदारणम्
Verse 19
तस्यकाञ्चनचित्राङ्गंरथंसाश्वंससारथिम् जघानसमरेश्रीमानङ्गदोवेगवान्कपिः
Verse 20
सम्पातिस्तुत्रिभिर्भाणैःप्रजङ्घेनसमाहतः निजघानश्वकर्णेनप्रजङ्घंरणमूर्धनि
Verse 21
जम्बुमालीरथस्थस्तुरथशक्त्यामहाबलः बिबेदसमरेक्रुद्धोहनूमन्तंस्तनान्तरे
Verse 22
तस्यतंरथमास्थायहनूमान् मारुतात्मजः प्रममाथतलेनाशुसहतेनैवरक्षसा
Verse 23
नदन् प्रतपनोघोरोनलंसोप्यन्वधावत नलःप्रतपनस्याशुपातयामासचक्षुषी
Verse 24
भिन्नगात्रश्शरैस्तीक्ष्णैःक्षिप्रहस्तेनरक्षसा ग्रसन्तमिवसैन्यानिप्रघसंवानराधिपः सुग्रीवस्सप्तपर्णेननिर्भिभेदजघानच
Verse 25
अग्निकेतुश्चदुर्धर्षोरश्मिकेतुश्चराक्षसः सुप्तघ्नोयज्ञकोपश्चरामंनिर्भिभिदुश्शरैः
Verse 26
तेषांचतुर्णांरामस्तुशिरांसिनिशितैश्शरैः क्रुद्धश्चतुर्भिश्चिच्छेदघोरैरग्निशिखोपमैः
Verse 27
वज्रमुष्टिस्तुमैन्देनमुष्टिनानिहतोरणे पपातसरथस्साश्वःपुराट्टइवभूतले
Verse 28
निकुम्बस्तुरणेनीलंनीलाञ्जनचयप्रभम् निर्बिभेदशरैस्तीक्ष्णैःकरैर्मेघमिवांशुमान्
Verse 29
पुनश्शरशतेनाथक्षिप्रहस्तोनिशाचरः बिभेदसमरेनीलंनिकुम्भःप्रजहासच
Verse 30
तस्यैवरथचक्रेणनीलोविष्णुरिवाहवे शिरश्चिच्छेदसमरेनिकुम्भस्यचसारथेः
Verse 31
वज्राशनिसमस्पर्शोद्विविदोऽप्यशनिप्रभम् जघानगिरिशृङ्गेणमिषतांसर्वरक्षसाम्
Verse 32
द्विदिधंवानरेन्द्रंतुनगयोधिनमाहवे शरैरशनिसङ्काशैस्सविव्याधाशनिप्रभः
Verse 33
सशरैरभिविद्धाङ्गोद्विविदःक्रोधमूर्छितः सालेनसरथंसाश्वंनिजघानाशनिप्रभम्
Verse 34
विद्युन्मालीरथस्थस्तुशरैःकाञ्चनभूषणैः सुषेणंताडयामासननादचमुहुर्मुहुः
Verse 35
तंरथस्थमथोदृष्टवासुषेणोवानरोत्तमः गिरिशृङ्गेणमहतारथमाशुन्यपातयत्
Verse 36
लाघवेनतुसंयुक्तोविद्युन्मालीनिशाचरः अपक्रम्यरथात्तूर्णंगदापाणिःक्षितौस्थितः
Verse 37
ततःक्रोधसमाविष्टःसुषेणोहरिपुङ्गवः शिलांसुमहतींगृह्यनिशाचरमभिद्रवत्
Verse 38
तमापतन्तंगदयाविद्युन्मालीनिशाचरः वक्षस्यभिजघानाशुसुषेणंहरिपुङ्गवः
Verse 39
गदाप्रहारंतंघोरमच्नित्यप्लवगोत्तमः तांशिलांपातयामासतस्योरसिमहामृधे
Verse 40
शिलाप्रहारभिहतोविद्युन्मालीनिशाचरः निष्पिष्टहृदयोभूमौगतासुर्निपपातह
Verse 41
एवंतैर्वानरैश्शूरैश्शूरास्तेरजनीचराः द्वन्द्वेविमृदितास्तत्रदैत्याइवदिवौकसैः
Verse 42
भग्नैखडगैर्गदाभिश्चशक्तितोमरपट्टसै: अपविद्धैश्चाभिन्नैश्चरथैस्साङ्ग्रामिकैर्हयैः निहतैःकुञ्जरैर्मत्स्सैस्तथावानरराक्षसैः चक्राक्षयुगदण्डैश्चभग्नैर्धरणिसंश्रितैः बभूवायोधनंघोरंगोमायुगणसेवितम्
Verse 43
भग्नैखडगैर्गदाभिश्चशक्तितोमरपट्टसै: अपविद्धैश्चाभिन्नैश्चरथैस्साङ्ग्रामिकैर्हयैः निहतैःकुञ्जरैर्मत्स्सैस्तथावानरराक्षसैः चक्राक्षयुगदण्डैश्चभग्नैर्धरणिसंश्रितैः बभूवायोधनंघोरंगोमायुगणसेवितम्
Verse 44
कबन्धानिसमुत्पेतुर्दिक्षुवानररक्षसाम् विमर्देतुमुलेतस्मिन्देवासुररणोपमे
Verse 45
विदार्यमाणाहरिपुङ्गवैस्तदानिशाचराश्शोणितदिग्धगात्राः पुनःसुयुद्धंतरसासमास्थितादिवाकरस्यास्तमयाभिकाङ्क्षिणः
0:000:00
Speed: