Book 6 • Chapter 48
Sarga 48
37 verses
Verse 1
भर्तारंनिहतंदृष्टवालक्ष्मणंचमहाबलम् विललापभृशंसीताकरुणंशोककर्शिता
Verse 2
ऊचुर्लक्षणिकायेमांपुत्रिण्यविधवेतिच तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः
Verse 3
यज्वनोमहिषींयेमामूचुःपत्नींचसत्त्रिणः तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः
Verse 4
ऊचुस्संश्रवणेयेमांद्विजाःकार्तान्तिकाश्शुभाम् तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः
Verse 5
वीरपार्थिवपत्नीत्वांयेविदुर्भर्तृपूजिताम् तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः
Verse 6
इमानिखलुपद्मानिपादयोर्यैःकुलस्त्रियः अधिराज्येऽभिषिच्यन्तेनरेन्द्रैःपतिभिःसह
Verse 7
वैधव्यंयान्तियैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः नात्मनन्तानिपश्यामिपश्यन्तीहतलक्षणा
Verse 8
सत्यनामानिपद्मानिस्त्रीणामुक्तानिलक्षणैः तान्यद्यनिहतेरामेवितथानिभवन्तिमे
Verse 9
केशास्सूक्ष्मास्समानीलाभ्रुवौचासंहतेमम वृत्तेचारोमकेजङ्घेदन्ताश्चाविरळामम
Verse 10
शङ्खेनेत्रेकरौपादौगुल्फावूरूचमेचितौ अनुवृत्तनखास्स्निग्धास्समाश्चाङ्गुलयोमम
Verse 11
स्तनौचाविरळौमामकौमग्नचूचुकौ मग्नाचोत्सङ्गिनीनाभःपार्श्वोरस्कंचमेचितम्
Verse 12
ममवर्णोमणिनिभोमृदून्यङ्गरुहाणिच प्रतिष्ठितांद्वादशभिर्मामूचुश्शुभलक्षणाम्
Verse 13
समग्रयवमच्छ्रिद्रपाणिपादंचवर्णवत् मन्दस्मितेत्येवचमांकन्यालाक्षणिनोद्विजाः
Verse 14
आधिराज्येऽभिषेकोमेब्राह्मणैःपतिनासह कृतान्तकुशलैरुक्तंतत्सर्वंवितथीकृतम्
Verse 15
शोधयित्वाजनस्थानंप्रवृततिमुपलभ्यच तीर्त्वासागरमक्षोभ्यंभ्रातरौगोष्पदेहतौ
Verse 16
ननुवारुणमाग्नेयमैन्द्रंवायव्यमेवच अस्त्रंब्रह्मशिरश्चैवप्रत्यपद्यताम्
Verse 17
अदृश्यमानेनरणेमाययावासवोपमौ ममनाथावनाथायानिहतौरामलक्ष्मणौ
Verse 18
नहिदृष्टिपथंप्राप्यराघवस्यरणेरिपुः जीवन्प्रन्तिवर्तेतयद्यपिस्यान्मनोजवः
Verse 19
नकलस्यातिभारोऽस्तिकृतान्तश्चसुदुर्जयः यत्ररामःसहभ्रात्राशेतेयुधिनिपातितः
Verse 20
नशोचामितथारामंलक्ष्मणंचमहारथम् वात्मानंजननींचापियथाश्वश्रूंतपस्विनीम्
Verse 21
सातुचिन्तयतेनित्यंसमाप्तव्रतमागतम् कदाद्रक्ष्यामिसीतांचलक्ष्मणंचसराघवम्
Verse 22
परिदेवयमानांतांराक्षसीत्रिजटाब्रवीत् माविषादंकृथादेवी भर्ताऽयंतवजीवति
Verse 23
कारणानिचवक्ष्यामिमहान्तिसदृशानिच यथेमौजीवतोदेवीभ्रातरौरामलक्ष्मणौ
Verse 24
नहिकोपपरीतानिहर्षपर्युत्सुकानिच भवन्तियुधियोधानांमुखानिनिहतेपतौ
Verse 25
इदंविमानंवैदेही पुष्पकंनामनामतः दिव्यंत्वांदारयन्नैवंयद्येतौगतजीवितौ
Verse 26
हतवीरप्रधानाहिगतोत्साहानिरुद्यमा सेनाभ्रमतिसङ् ख्येषुहतकर्णेवनौर्जले
Verse 27
इयंपुनरसम्भ्रान्तानिरुद्विग्नातरस्विनी सेनारक्षतिकाकुत्स्थौमयाप्रीत्यानिवेदितौ
Verse 28
सात्वंभवसुविस्रब्धाअनुमानैस्सुखोदयैः अहतौपश्यकाकुत्स्थौस्नेहादेतद्ब्र्रवीमिते
Verse 29
अनृतंनोक्तपूर्वंमेनचवक्ष्येकदाचन चारित्रसुखशीलत्वात् प्रविष्टाअसिमनःमम
Verse 30
नेमौशक्यारणेजेतुंसेन्द्रैरपिसुरासुरैः तादृशंदर्शनंदृष्टवामयाचावेदितंतव
Verse 31
इदंचसुमहचचित्रंशरैःपश्यस्वमैथिलि निस्संज्ञावप्युभावेतौनैवलक्ष्मीर्विमुञ्चति
Verse 32
प्रायेणगतसत्त्वानांपुरुषाणांगतायुषाम् दृश्यमानेषुवक्त्रेषुपरंभवतिवैकृतम्
Verse 33
त्यजशोकंचमोहंचदुःखंचजनकात्मजे रामलक्ष्मणयोरर्थेनाद्यशक्यमजीवितुम्
Verse 34
शुत्वातुवचनंतस्याःसीतासुरसुतोपमा कृताञ्जलिरुवाचेमामेवमस्त्वितिमैथिलि
Verse 35
विमानंपुष्पकंतत्तुसन्निवर्त्यमनोजवम् दीनात्रिजटयासीतालङ्कामेवप्रवेशिता
Verse 36
ततस्त्रिजटयासार्थंपुष्पकादवरुह्यसा अशोकवनिकामेवराक्षसीभिःप्रवेशिता
Verse 37
प्रविश्यसीताबहुवृक्षषण्डांतांराक्षसेन्द्रस्यविहारभूमिम् सम्प्रेक्ष्यसञ्चिन्त्यचराजपुत्रौपरंविषादंसमुपाजगाम
0:000:00
Speed: