Book 6 • Chapter 49
Sarga 49
32 verses
Verse 1
घोरेणशरबन्धेनबद्धौदशरथात्मजौ निःश्वसन्तौयथानागौशयानौरुधिरोक्षितौ सर्वेतेवानरश्रेष्ठास्ससुग्रीवामहाबलाः परिवार्यमहात्मानौतस्थुश्शोकपरिप्लुताः
Verse 2
घोरेणशरबन्धेनबद्धौदशरथात्मजौ निःश्वसन्तौयथानागौशयानौरुधिरोक्षितौ सर्वेतेवानरश्रेष्ठास्ससुग्रीवामहाबलाः परिवार्यमहात्मानौतस्थुश्शोकपरिप्लुताः
Verse 3
एतस्मिन्नन्तरेरामःप्रत्यबुध्यतवीर्यवान् स्थिरत्वात्सत्त्वयोगाच्चशरैस्सन्दानितोऽपिसन्
Verse 4
ततोदृष्टवासरुधिरंनिषण्णंगाढमर्पितम् भ्रातरंदीनवदनंपर्यदेवयदातुरः
Verse 5
किंनुमेसीतयाकार्यंकिंकार्यंजीवितेनवा शयानंयोऽद्यपश्यामिभ्रातरंयुधिनिर्जितम्
Verse 6
शक्यासीतासमानारीमर्त्यलोकेविचिन्वता नलक्ष्मणसमोभ्रातासचिवस्साम्पपरायिकः
Verse 7
परित्यक्षाम्यहंप्राणान्वानराणांतुपश्याताम् यदिपञ्चत्वमापन्नस्सुमित्रानन्दवर्धनः
Verse 8
किंनुवक्ष्यामिकौसल्यांमातरंकिंनुकैकयीम् कथमम्बांसुमित्रांचपुत्रदर्शनलालसाम्
Verse 9
विवत्सांवेपमानांचक्रोशन्तींकुररीमिव कथमाश्वासयिष्यामियदियास्यामितंविना
Verse 10
कथंवक्ष्यामिशत्रुघ्नंभरतंचयशस्विनम् मयासहवनंयातोविनातेनापुनमागतः
Verse 11
उपालम्बंनशक्ष्यामिसोढुंबतसुमित्रया इहैवदेहंत्यक्ष्यामिनहिजीवितुमुत्सहे
Verse 12
धिङ्मांदुष्कृतकर्माणमनार्यंमत्कृतेह्यसौ लक्ष्मणःपतितश्शेतेशरतल्पेगतासुवत्
Verse 13
त्वंनित्यंसुविषण्णंमामाश्वासयसिलक्ष्मण गतासुर्नाद्यशक्तोऽसिमामार्तमभिभाषितुम्
Verse 14
येनाद्यबहवोयुद्धेनिहताराक्षसाविनिपातिताः तस्यामेवाद्यशूरस्त्वंशेषेविनिहतःपरैः
Verse 15
शयानःशरतल्पेऽस्मिन् सशोणितपरिप्लुतः शरजालैचशितोभासिभास्करोऽस्तमिवव्रजन्
Verse 16
बाणाभिहतमर्मत्वान्नशक्नोत्यभिभाषितुम् रुजाचाब्रुवतोऽप्यस्यदृष्टिरागेणसूच्यते
Verse 17
यथैवमांवनंयान्तमनुयातोमहाद्युतिः अहमप्यनुयास्यामितथैवैनंयमक्ष्यम्
Verse 18
इष्टबन्धुजनोनित्यंमांचनित्यमनुव्रतः इमामद्यगतोऽवस्थांममानार्यस्यदुर्नयैः
Verse 19
सुरुष्टेनापिवीरेणलक्ष्मणेननसंस्मरे परुषंविप्रियंवापिश्रावितंनकदाचन
Verse 20
विससर्जैकवेगेनपञ्चबाणशतानियः इष्वस्त्रष्वधिकस्तस्मात्कार्तवीर्याच्चलक्ष्मणः
Verse 21
अस्स्रैरस्त्राणियोहन्याच्छक्रस्यापिमहात्मनः सोऽयमुर्व्यांहतश्शेतेमहार्हशयनोचितः
Verse 22
तच्चमिथ्याप्रलप्तंमांप्रधक्ष्यतिनसंशयः यन्मयानकृतोराजाराक्षसानांविभीषणः
Verse 23
अस्मिन्मुहूर्तेसुग्रीव प्रतियातुमितोऽर्हसि मत्वाहीनंराजन् रावणोऽभिद्रवेद्बली
Verse 24
अङ्गदंतुपुरस्कत्यससैन्यस्सपरिच्छदम् सागरंतरसुग्रीव नीलेनचनलेनच
Verse 25
कृतंहनुमताकार्यंयदन्यैर्दुष्करंरणे ऋक्षराजेनतुष्यामिगोलाङ्गूलाधिपेनच
Verse 26
अङ्गदेनकृतंकर्ममैन्देनद्विविदेनच युद्धंकेसरिणासङ् ख्येघोरंसम्पातिनाकृतम्
Verse 27
गवयेनगवाक्षेणशरभेणगजेनच अन्यैश्चहरिभिर्युद्धंमदर्थेत्यक्तजीवितैः
Verse 28
नचातिक्रमितुंशक्यंदैवंसुग्रीव मानुषैः यत्तुशक्यंवयस्येनसुहृदाचपरन्तप कृतंसुग्रीव तत्सर्वंभवताधर्मभीरुणा
Verse 29
मित्रकार्यंकृतमिदंभवद्भिर्वानरर्षभाः अनुज्ञातामयासर्वेयथेष्टंगन्तुमर्हथ
Verse 30
शुश्रुवुस्तस्यतेसर्वेवानराःपरिदेवनम् वर्तयाञ्चक्रूरश्रूणिनेत्रैःकृष्णेतरेक्षणाः
Verse 31
ततस्सर्वाण्यनीकानिस्थापयित्वाविभीषणः आजगामगदापाणिस्त्वरितंयत्रराघवः
Verse 32
तंदृष्टवात्वरितंयान्तंनीलाञ्जनचयोपमम् वानरादुद्रुवुस्सर्वेमन्यमानास्तुरावणिम्
0:000:00
Speed: