🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 50

Sarga 50

65 verses

Verse 1
अथोवाचमहातेजाहरिराजोमहाबलः किमियंव्यथितासेनामूढवातेवनौर्जले
Verse 2
सुग्रीवस्यवचश्श्रुत्वावालिपुत्रोऽङ्गदोऽब्रवीत् नत्वंपश्यसिरामंचलक्ष्मणंचमहारथम् शरजालचितौवीरावुभौदशरथात्मजौ शरतल्पेमहात्मानौशयानौरुधिरोक्षितौ
Verse 3
सुग्रीवस्यवचश्श्रुत्वावालिपुत्रोऽङ्गदोऽब्रवीत् नत्वंपश्यसिरामंचलक्ष्मणंचमहारथम् शरजालचितौवीरावुभौदशरथात्मजौ शरतल्पेमहात्मानौशयानौरुधिरोक्षितौ
Verse 4
अथाब्रवीद्वानरेन्द्रस्सुग्रीवःपुत्रमङ्गदम् नानिमित्तमिदंमन्येभवितव्यंभयेनतु
Verse 5
विषण्णवदनाह्येतेत्यक्तप्रहरणादिशः प्रपलायन्तिहरयस्त्रासादुत्फुल्ललोचनाः
Verse 6
अन्योन्यस्यनलज्जन्तेनिरीक्षन्तिपृष्ठतः विप्रकर्षन्तिचान्योन्यंपतितंलङ्घयन्तिच
Verse 7
एतस्मिन्नन्तरेवीरोगदापाणिर्विभीषणः सुग्रीवंवर्धयामासराघवंचनिरैक्षत
Verse 8
विभीषणंचसुग्रीवोदृष्टवावानरभीषणम् ऋक्षराजंमहात्मानंसमीपस्थमुवाचह
Verse 9
विभीषणोऽयंसम्प्राप्तोयंदृष्टवावानरर्षभाः विद्रवन्तिपरितत्रसरावणात्मजशङ्कया
Verse 10
शीघ्रमेतान् सुसन्त्रस्तान्बहुधाविप्रधावितान् पर्यवस्थापयाख्याहिविभीषणमुपस्थितम्
Verse 11
सुग्रीवेणैवमुक्तस्तुजाम्बवानृक्षपार्थिवः वानरान्सान्त्वयामाससन्निरुध्यप्रधानतः
Verse 12
तेनिवृत्ताःपुनःसर्वेवानरास्त्यक्तसम्भ्रमाः ऋक्षराजवचश्श्रुत्वातंचदृष्टवाविभीषणम्
Verse 13
विभीषणस्तुरामस्यदृष्टवागात्रंशरैश्चितम् लक्ष्मणस्यचधर्मात्माबभूवव्यथितस्तदा
Verse 14
जलक्लिन्नेनहस्तेनतयोर्नेत्रेप्रमृज्यच शोकसम्पीडितमनारुरोदविललापच
Verse 15
इमौतौसत्त्वसम्पन्नौविक्रान्तौप्रियसम्युगौ इमामवस्थांगमितौराक्षसैःकूटयोधिभिः
Verse 16
भ्रातुःपुत्रेणमेतेनदुष्पुत्रेणदुरात्मना राक्षस्याजिह्मयाबुध्याचालितावृजुविक्रमौ
Verse 17
शरैरिमावलंविद्धौरुधिरेणसमुक्षितौ वसुधायामिमौसुप्तौदृश्येतेशल्यकाविव
Verse 18
ययोर्वीर्यमुपाश्रित्यप्रतिष्ठाकाङ्क्षितामया तावुभौदेहनाशायप्रसुप्तौपुरुषर्षभौ
Verse 19
जीवन्नद्यविपन्नोऽस्मिनष्टराज्यमनोरथः प्राप्तप्रतिज्ञश्चरिपुःसकामोरावणःकृतः
Verse 20
एवंविलपमानंतंपरिष्वज्यविभीषणम् सुग्रीवःसत्त्वसम्पन्नोहरिराजोऽब्रवीदिदम्
Verse 21
राज्यंप्राप्स्यसिधर्मज्ञ लङ्कायांनात्रसंशयः रावणस्सहपुत्रेणस्वकामंनेहलप्स्यते
Verse 22
नरुजापीडितावेतावुभौराघवलक्ष्मणौ त्यक्त्वामोहंवधिष्येतेसगणंरावणंरणे
Verse 23
तमेवंसान्त्वयित्वातुसमाश्वास्यचराक्षसम् सुषेणंश्वशुरंपार्श्वेसुग्रीवस्तमुवाचह
Verse 24
सहशूरैर्हरिगणैर्लब्धसंज्ञावरिन्दमौ गच्छत्वंभ्रातरंगृह्यकिष्किन्धांरामलक्ष्मणौ
Verse 25
अहंतुरावणंहत्वासपुत्रंसहबान्धवम् मैथिलीमानयिष्यामिशक्रोनष्टामिवश्रियम्
Verse 26
श्रुत्वैतद्वानरेन्द्रस्यसुषेणोवाक्यमब्रवीत् दैवासुरंमहद्युद्धमनुभूतंसुदारुणम्
Verse 27
तदास्मदानवाशरसम्स्पर्शकोविदाः निजघ्नुश्शस्त्रविदुषश्चादयन्तोमुहुर्मुहुः
Verse 28
तानार्तान्नष्टसंज्ञांश्चगतासूंश्चबृहस्पतिः विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति
Verse 29
तान्यौषधान्यानयितुंक्षीरोदंयान्तुसागरम् जवेनवानराःशीघ्रंसम्पातिपनसादयः
Verse 30
हरयस्तुविजानन्तिपार्वतीस्तामहौषधीः सञ्जीवकरणींदिव्यांविशल्यांदेवनिर्मिताम्
Verse 31
चन्द्रश्चनामद्रोणश्चक्षीरोदेसागरोत्तमे अमृतंयत्रमथितंतत्रतेपरमौषधी
Verse 32
तौतत्रविहितेदेवैःपर्वतौमहोदधौ अयंवायुसुतोराजन् हनूमांस्तत्रगच्छतु
Verse 33
एतस्मिन्नन्तरेवायुर्मेगांश्चापिसविद्युतः पर्यस्यसागरेतोयंकम्पयननिवमेदिनीम्
Verse 34
महतापक्षवातेनसर्ववदीपमहाद्रुमाः निपेतुर्भग्नविटपाःसलिलेलवणाम्भसि
Verse 35
अभवन् पन्नगास्त्रस्ताभोगिनस्तत्रवासिनः शीघ्रंसर्वाणियादांसिजग्मुश्चलवणार्णवम्
Verse 36
ततोमुहूर्तार्गरुडंवैनतेयंमहाबलम् वानराददृशुःसर्वेज्वलन्तमिवपावकम्
Verse 37
तमागतमभिप्रेक्ष्यनागास्तेसम्प्रदुद्रुवुः यैस्तौसत्पुरुषौबद्धौशरभूतैर्महाबलौ
Verse 38
ततस्सुपर्णःकाकुत्स्थौस्पृष्टवाप्रत्यभिनदनितः विममर्शचपाणिभ्यांमुखेचन्द्रसमप्रभे
Verse 39
वैनतेयेनसम्स्पृष्टास्तयोःसम्रुरुहुर्व्रणाः सुवर्णेचतनूस्निग्धेतयोराशुबभूवतुः
Verse 40
तेजोवीर्यंबलंचौजउत्साहश्चमहागुणाः प्रदर्शनंचबुद्धिश्चस्मृतिश्चद्विगुणंतयोः
Verse 41
तावुत्थाप्यमहातेजागरुडोवासवोपमौ उभौतौसस्वजेहृष्टोरामश्चैनमुवाचह
Verse 42
भवत्प्रसादाद् व्यसनंरावणिप्रभवंमहत् आवामिहव्यतिक्रान्तौपूर्ववद् बलिनौकृतौ
Verse 43
यथातातंदशरथंयथाऽजंचपितामहम् तथाभवन्तमासाद्यहृदयंमेप्रसीदति
Verse 44
कोभवान्रूपसम्पन्नोदिव्यस्रगनुलेपनः वसानोविरजेवस्त्रदिव्याभरणभूषितः
Verse 45
तमुवाचमहातेजावैनतेयोमहाबलः पतत्त्रिराजःप्रीतात्माहर्षपर्याकुलेक्षणः
Verse 46
अहंसखातेकाकुत्स्थ प्रियःप्राणोबहिश्चरः गरुत्मानिहसम्प्राप्तोयुवयोःसाह्यकारणात्
Verse 47
असुरावामहावीर्यावानरावामहाबलाः सुराश्चापिसगन्ध्वर्वाःपुरस्कृत्यशतक्रतुम् नेमंमोक्षयितुंशक्ताश्शरबन्धंसुदारुणम् मायाबलादिन्द्रजितानिर्मितंक्रूरकर्मणा
Verse 48
असुरावामहावीर्यावानरावामहाबलाः सुराश्चापिसगन्ध्वर्वाःपुरस्कृत्यशतक्रतुम् नेमंमोक्षयितुंशक्ताश्शरबन्धंसुदारुणम् मायाबलादिन्द्रजितानिर्मितंक्रूरकर्मणा
Verse 49
एतेनागाःकाद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाः रक्षोमायाप्रभावेणशराभूत्वास्त्वदाश्रिताः
Verse 50
सभाग्यश्चासिधर्मज्ञ राम सत्यपराक्रम लक्ष्मणेनसहभ्रात्रासमरेरिपुघातिना
Verse 51
इमंश्रुत्वातुवृत्तान्तंत्वरमाणोऽहमागतः सहसायुवयोःस्नेहात्सखित्वमनुपालयन्
Verse 52
मोक्षितौचमहाघोरादस्मात्सायकबन्धनात् अप्रमादश्चकर्तव्योयुवाभ्यांनित्यमेवच
Verse 53
प्रकृत्याराक्षसाःसर्वेसङ्ग्रामेकूटयोधिनः शूराणांशुद्धभावानांभवतामरार्जवंबलम्
Verse 54
तन्नविश्वसनीयंवोराक्षसानांरणाजिरे एतेनैवोपमानेननित्यंजिह्माहिराक्षसाः
Verse 55
एवमुक्त्वातदारामंसुपर्णस्सुमहाबलः परिष्वज्यचसुहृत्स्निग्धमाप्रष्टुमुपचक्रमे
Verse 56
सखे राघव धर्मज्ञ रिपूणामपिवत्सल अभ्यनुज्ञातुमिच्छामिगमिष्यामियथामतम्
Verse 57
नचकौतूहलंकार्यंसखित्वंप्रतिराघव कृतकर्मारणेवीर सखित्वंप्रतिवेत्स्यसि
Verse 58
बालवृद्धावशेषांतुकृत्वालङ्कांशरोर्मिभिः रावणंचरिपुंहत्वासीतांत्वंसमुलप्स्यते
Verse 59
इत्येवमुक्त्वावचनंसुपर्णश्शीघ्रविक्रमः रामंचविरुजंकृत्वामध्येतेषांवनौकसाम् प्रदक्षिणंततःकृत्वापरिष्वज्यचवीर्यवान् जगामाकाशमाविश्यसुपर्णःपवनोयथा
Verse 60
इत्येवमुक्त्वावचनंसुपर्णश्शीघ्रविक्रमः रामंचविरुजंकृत्वामध्येतेषांवनौकसाम् प्रदक्षिणंततःकृत्वापरिष्वज्यचवीर्यवान् जगामाकाशमाविश्यसुपर्णःपवनोयथा
Verse 61
विरुजौराघवौदृष्टवाततोवानरयूथपाः सिंहनादांस्तदानेदुर्लङ्गूलंन्दुधुवुस्तदा
Verse 62
ततोभेरीस्समाजघ्नुर्मृदङ्गांश्चाप्यनादयन् दध्मुश्शङ्खान्सम्प्रहृष्टाःक्षेवलन्त्यपियथापुरम्
Verse 63
आस्फोट्याःस्पोट्यविक्रान्ताःवानराःनगयोधिनः द्रुमानुत्पट्यविविधांस्तस्थुश्शतसहस्रशः
Verse 64
विसृजन्तोमहानादांस्त्रासयन्तोनिशाचरान् लङ्काद्वाराण्युपाजग्मुर्युद्धकामाःप्लवङ्गमाः
Verse 65
तेषांसुखीमस्तुमुलोनिनादोबभूवशाखामृगयूथपानाम् क्षयेनिदाघस्ययथाघनानांनादस्सुभीमोनदतांनिशीथे
0:000:00
Speed: