🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 51

Sarga 51

36 verses

Verse 1
तेषांसुतुमुलंशब्दंवानराणांतरस्विनाम् नर्दतांराक्षसैस्सार्धंतदाशुश्रावरावणः
Verse 2
स्निग्धगम्भीरनिर्घोषंश्रुत्वासनिनदंभृशम् सचिवानांततस्तेषांमध्येवचनमब्रवीत्
Verse 3
यथाऽसौसम्प्रहृष्टानांवानराणांसमुत्थितः बहूनांसुमहान्नादोमेघनामिवगर्जिताम् व्यक्तंसुमहतीप्रीतिरेतेषांनात्रसंशयः तथाहिविपुलैर्नादैश्चुक्षुभेवरुणालयः
Verse 4
यथाऽसौसम्प्रहृष्टानांवानराणांसमुत्थितः बहूनांसुमहान्नादोमेघनामिवगर्जिताम् व्यक्तंसुमहतीप्रीतिरेतेषांनात्रसंशयः तथाहिविपुलैर्नादैश्चुक्षुभेवरुणालयः
Verse 5
तौतुबद्धौशरैस्तीक्ष्णैर्भ्रातरौरामलक्ष्मणौ अयंचसुमहान्नादशङ्कांजनयतीवमे
Verse 6
एतत्तुवचनंचोक्त्वामन्त्रिणोराक्षसेश्वरः उवाचनैरृतांस्तत्रसमीपपरिवर्तिनः
Verse 7
ज्ञायतांतूर्णमेतेषांसर्वेषांचवनचारिणाम् शोककालेसमुत्पन्नहर्षकारणमुत्थितम्
Verse 8
तथोक्तास्तेनसम्भ्रान्ताःप्राकारमधिरुह्यच ददृशुःपालितांसेनांसुग्रीवेणमहात्मना तौचमुक्तौसुघोरेणशरबन्धेनराघवौ समुत्थितौमहाभागौविषेदुःप्रेक्ष्यराक्षसाः
Verse 9
तथोक्तास्तेनसम्भ्रान्ताःप्राकारमधिरुह्यच ददृशुःपालितांसेनांसुग्रीवेणमहात्मना तौचमुक्तौसुघोरेणशरबन्धेनराघवौ समुत्थितौमहाभागौविषेदुःप्रेक्ष्यराक्षसाः
Verse 10
सन्त्रस्तहृदयाःसर्वेप्राकारात् वरुह्यते विषण्णवदनाघोराराक्षसेन्द्रमुपस्थिता
Verse 11
तदप्रियंदीनमुखारावणस्यनिशाचराः कृत्स्नंनिवेदयामासुर्यथावद्वाक्यकोविदाः
Verse 12
यौताविन्द्रजितायुद्धेभ्रातरौरामलक्ष्मणौ निबद्धौशरबन्धेननिष्प्रकम्पभुजौकृतौ विमुक्तौशरबन्धेनदृश्येतेतौरणाजिरे पाशानिवगजौछित्वागजेन्द्रसमविक्रमौ
Verse 13
यौताविन्द्रजितायुद्धेभ्रातरौरामलक्ष्मणौ निबद्धौशरबन्धेननिष्प्रकम्पभुजौकृतौ विमुक्तौशरबन्धेनदृश्येतेतौरणाजिरे पाशानिवगजौछित्वागजेन्द्रसमविक्रमौ
Verse 14
तच्छ्रुत्वावचनंतेषांराक्षसेन्द्रोमहाबलः चिन्तारोषसमाक्रान्तोविषण्णवदनोऽभवत्
Verse 15
घोरैर्दत्तवरैर्भद्धौशरैराशीविषोपमैः अमोघैस्सूर्यसङ्काशैःप्रमथ्येन्द्रजितायुधि तदस्त्रबन्धमासाद्ययदिमुक्तौरिपूमम संशयस्थमिदंसर्वमनुपश्याम्यहंबलम्
Verse 16
घोरैर्दत्तवरैर्भद्धौशरैराशीविषोपमैः अमोघैस्सूर्यसङ्काशैःप्रमथ्येन्द्रजितायुधि तदस्त्रबन्धमासाद्ययदिमुक्तौरिपूमम संशयस्थमिदंसर्वमनुपश्याम्यहंबलम्
Verse 17
निष्फलाःखलुसम्वृत्ताश्शराःवासुकितेजसः अदत्तंयैस्तुसङ्ग्रामेरिपूणांजीवितंमम
Verse 18
एवमुक्त्वातुसङ्क्रुद्धोनिश्श्वसन्नुरगोयथा अब्रवीद्रक्षसांमध्येधूम्राक्षंनामराक्षसम्
Verse 19
बलेनमहतायुक्तोराक्षसैर्भीमविक्रमः त्वंवधायाभिनिर्याहिरामस्यसहवानरैः
Verse 20
एवमुक्तस्तुधूम्राक्षोराक्षसेन्द्रेणधीमता कृत्वाप्रणामंसम्हृष्टोनिर्जगामनृपालयत्
Verse 21
अभिनिष्क्रम्यतदद्वारंबलाध्यक्षमुवाचह त्वरयस्वबलंतूर्णंकिंचिरेणयुयुत्सतः
Verse 22
धूम्राक्षवचनंश्रुत्वाबलाध्यक्षोबलानुगः बलमुद्योजयामासरावणस्याज्ञयाद्रुतम्
Verse 23
तेबद्धघण्टाबलिनोघोररूपानिशाचराः विगर्जमानास्सम्हृष्टाधूम्राक्षंपर्यवारयन्
Verse 24
विविधायुधहस्ताश्चशूलमुद्गरपाणयः गदाभिःपट्टसैर्दण्डैरायसैर्मुसलैर्भृशम् परिघैर्भिण्डिवालैश्चभल्लैप्रासै: परश्वथै: निर्ययूराक्षसादिभ्योनर्धन्तोजलदायथा
Verse 25
विविधायुधहस्ताश्चशूलमुद्गरपाणयः गदाभिःपट्टसैर्दण्डैरायसैर्मुसलैर्भृशम् परिघैर्भिण्डिवालैश्चभल्लैप्रासै: परश्वथै: निर्ययूराक्षसादिभ्योनर्धन्तोजलदायथा
Verse 26
रथैःकवचिनस्त्वन्येध्वजैश्चसमलङ्कृतैः सुवर्णजालविहितैःखरैश्चविविधाननैः हयैःपरमशीघ्रैश्चगजैश्चैवमदोत्कटैः निर्ययुर्नैरृतव्याघ्राव्याघ्राइवदुरासदाः
Verse 27
रथैःकवचिनस्त्वन्येध्वजैश्चसमलङ्कृतैः सुवर्णजालविहितैःखरैश्चविविधाननैः हयैःपरमशीघ्रैश्चगजैश्चैवमदोत्कटैः निर्ययुर्नैरृतव्याघ्राव्याघ्राइवदुरासदाः
Verse 28
वृकसिंहमुखैर्युक्तंखरैःकनकभूषणै: आरुरोहरथंदिव्यंधूम्राक्षःखरनिस्स्वनः
Verse 29
सनिर्यातोमहावीर्योधूम्राक्षोराक्षसैर्वृतः प्रहसन्पश्चिमद्वारंहनुमान्यत्रयूथपः
Verse 30
रथप्रवरमास्थायखरयुक्तंखरस्वनम् प्रयान्तंतुमहाघोरंराक्षसंभीमदर्शनम् अन्तरिक्षगताःघोराशकुनाःप्रत्यषेधयन्
Verse 31
रथशीर्षेमहान्भीमोगृध्रश्चनिपपातह ध्वजाग्रेग्रथिताश्चैवनिपेतुःकुणपाशनाः
Verse 32
रुधिरार्द्रोमहान् श्वेतःकबन्धःपतितोभुवि विस्वरंचोत्सृजन्नादंधूम्राक्षस्यसमीपतः ववर्षरुधिरंदेवस्सञ्चचालचमेदिनी
Verse 33
रुधिरार्द्रोमहान् श्वेतःकबन्धःपतितोभुवि विस्वरंचोत्सृजन्नादंधूम्राक्षस्यसमीपतः ववर्षरुधिरंदेवस्सञ्चचालचमेदिनी
Verse 34
प्रतिलोमंवनौवायुर्निर्घातसमनिस्वनः तिमिरौघवृतास्तत्रदिशश्चनचकाशिरे
Verse 35
सतूत्पातांस्तदादृष्टवाराक्षसानांभयावहान् प्रादुर्भूतान्सुघोरांश्चधूम्राक्षोव्यथितोऽभवत् मुमुहूराक्षसाःसर्वेधूम्राक्षस्यपुरस्सराः
Verse 36
ततःसुभीमोबहुभिर्निशाचरैर्वृतोऽभिनिष्क्रम्यरणोत्सुकोबली ददर्शतांराघवबाहुपालितांमहौघकल्पांबहुवानरींचमूम्
0:000:00
Speed: