🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 52

Sarga 52

38 verses

Verse 1
धूम्राक्षंप्रेक्ष्यनिर्यान्तंराक्षसंभीमविक्रमम् विनेदुर्वानरास्सर्वेप्रहृष्टायुद्धकाङ् क्षिणः
Verse 2
तेषांसुतुमुलंयुद्धंसञ्जज्ञेकपिरक्षसाम् अन्योन्यंपादपैर्घोरंनिघ्नतांशूलमुद्गरैः
Verse 3
राक्षसैर्वानराघोराविनिकृत्तस्समन्ततः वानरैराक्षसाश्चापिद्रुमैर्भूमिसमीकृताः
Verse 4
राक्षसास्त्वभिसङ्क्रुद्धावानरान्निशितैश्शरैः विव्यथुर्घोरसङ्काशैःकङ्कपत्रैरजिह्मगैः
Verse 5
तेगदाभिश्चभीमाभिःपट्टसै: कूटमुद्गरैः घोरैश्चपरिघैश्चित्रैस्त्रिशूलैश्चापिसंश्रितैः विदार्यमाणारक्षोभिर्वानरास्तेमहाबलाः अमर्षाज्जनितोद्धर्षाश्चक्रुःकर्माण्यभीतवत्
Verse 6
तेगदाभिश्चभीमाभिःपट्टसै: कूटमुद्गरैः घोरैश्चपरिघैश्चित्रैस्त्रिशूलैश्चापिसंश्रितैः विदार्यमाणारक्षोभिर्वानरास्तेमहाबलाः अमर्षाज्जनितोद्धर्षाश्चक्रुःकर्माण्यभीतवत्
Verse 7
शरनिर्भिन्नगात्रास्तेशूलनिर्भिन्नदेहिनः जगृहुस्तेद्रुमांस्तत्रशिलाश्चहरियूथपाः
Verse 8
तेभीमवेगाहरयोनर्दमानास्ततस्ततः ममन्थूराक्षसान्वीरान्नामानिचबभाषिरे
Verse 9
तद्भभूवाद्भुतंघोरंयुद्धंवानररक्षसाम् शिलाभिर्विविधाभिश्चबहुभिश्चैवपादपैः
Verse 10
राक्षसामथिताःकेचिद्वानरैर्जितकाशिभिः ववमूरुधिरंकेचिन्मुखैरुधिरभोजनाः
Verse 11
पार्श्वेषुदारिताःकेचित्केचिद्राशीकृताद्रुमैः शिलाभिश्चूर्णिताःकेचित्केचिद्धन्तैर्विदारिताः
Verse 12
ध्वजैर्विमथितैर्भग्नैःखङ्गैश्चविनिपातितैः रथैर्विध्वंसितैश्चापिपतितैःरजनीचरैः
Verse 13
गजेन्द्रैःपर्वताकारैःपर्वताग्रैर्वनौकसाम् मथितैर्वाजिभिःकीर्णंसारोहैर्वसुधातलम्
Verse 14
वानरैर्भीमविक्रान्स्सैराप्लुत्याऽप्लुत्यवेगितैः राक्षसाःकरजैस्तीक्ष्णैर्मुखेषुविनिर्तिताः
Verse 15
विषण्णवदनाभूयोविप्रकीर्णशिरोरुहाः मूढाश्शोणितगन्धेननिपेतुर्धरणीतले
Verse 16
अन्येतुपरमसङ्कृक्रुद्धाराक्षसाभीमनिश्वना: तलैरेवाभिधावन्तिवज्रस्पर्शसमैर्हरीन्
Verse 17
वानरैरापतन्तस्तेवेगितावेगवत्तरैः मुष्टिभिश्चरणैर्दन्स्सैःपादपैश्चावपोथिता
Verse 18
सैन्यंतुविद्रुतंदृष्टवाधूम्राक्षोराक्षसर्षभः रोषेणकदनंचक्रेवानराणांयुयुत्सताम्
Verse 19
प्तासैःप्रमथिताःकेचिद्वानराश्शोणितस्रवाः मुद्गरैराहताःकेचित्पातिताधरणीतले
Verse 20
परिघैर्मथिताःकेचिद्भिण्डिवालैर्विदारिताः पट्टसैराहता: केचिद्विह्वलन्तोगतासवः
Verse 21
केचिद्विनिहताश्शूलैरुधिरार्द्रावनौकसः केचिद्विद्रावितानष्टाःसङ्क्रुद्धैराक्षसैर्युधि
Verse 22
विभिन्नहृदयाःकेचिदेकपार्श्वेनदारिताः विदारितास्त्रिशूलैश्चकेचिदान्स्रैर्विनिःसृताः
Verse 23
तत्सुभीमंमहायुद्धंहरिराक्षससङ्कुलम् प्रबभौशब्दबहुलंशिलापादपसङ्कुलम्
Verse 24
धनुर्ज्यातन्त्रिमधुरंहिक्कातालसमन्वितम् मन्धस्न्तितसङ्गीतंतद्युद्धगान्धर्वमाबभौ
Verse 25
धूम्राक्षस्तुधनुष्पाणिर्वानरान्रणमूर्धनि हसन्विद्रावयामासदिशस्तुशरवृष्टिभिः
Verse 26
धूम्राक्षेणार्दितंसैन्यंव्यथितंप्रेक्ष्यमारुतिः अभ्यवर्ततसङ्क्रुद्धःप्रगृह्यविपुलांशिलाम्
Verse 27
क्रोधाद् द्विद्द्विगुणताम्राक्षःपितृस्तुल्यपराक्रमः शिलांतांपातयामासधूम्राक्षस्यरथंप्रति
Verse 28
आपततनींशिलांदृष्टवागदामुद्यम्यसम्भ्रमात् रथादाप्लुत्यवेगेनवसुधायांव्यतिष्ठत
Verse 29
साप्रमथ्यरथंतस्यनिपपातशिलाभुवि सचक्रकूबरसाश्वंसध्वजंसशरासनम्
Verse 30
सभङ् क्त्वातुरथंतस्यहनुमान् मारुतात्मजः रक्षसांकदनंचक्रेसस्कन्धविटपैर्द्रुमैः
Verse 31
विभिन्नशिरसोभूत्वाराक्षसाश्शोणितोक्षिता: द्रुमैःप्रमथिताश्चान्येनिपेतुर्धरणीतले
Verse 32
विद्राव्यराक्षसंसैन्यंहनुमान्मारुतात्मजः गिरिशशिखरमादायधूम्राक्षमभिदुद्रुवे
Verse 33
तमापतन्तंधूम्राक्षोगदामुद्यम्यवीर्यवान् विनर्दमानःसहसाहनूमन्तमभिद्रवत्
Verse 34
तस्यक्रुद्धस्यरोषेणगदांतांबहुकण्टकाम् पातयामासधूम्राक्षोमस्तकेऽथहनूमतः
Verse 35
ताडितःसतयातत्रगदयाभीमरूपया सकपिर्मारुतबलस्तंप्रहारमचिन्तयन् धूम्राक्षस्यशिरोमध्येगिरिशृङ्गमपातयत्
Verse 36
सविस्फारितसर्वाङ्गोगिरिशृङ्गेणताडितः पपातसहसाभूमौविकीर्णइवपर्वतः
Verse 37
धूम्राक्षंनिहतंदृष्टवाहतशेषानिशाचराः त्रस्ताःप्रविविशुर्लङ्कांवध्यमानाःप्लवङ्गमैः
Verse 38
सतुपवनसुतोनिहत्यशत्रून्क्षतजवहरिस्सरितश्चसन्निकीर्य रिपुवधजनितश्रमोमहात्मामुदमगमत्कपिभिःसुपूज्यमानः
0:000:00
Speed: