Book 6 • Chapter 53
Sarga 53
32 verses
Verse 1
धूम्राक्षंनिहतंश्रुत्वारावणोराक्षसेश्वरः क्रोधेनमहताऽविष्टोनिश्श्वसन्नुरगोयथा दीर्घमुष्णंविनिश्श्वस्यक्रोधेनकलुषीकृतः अब्रवीद्राक्षसंक्रूरंवज्रदंष्ट्रंमहाबलम्
Verse 2
धूम्राक्षंनिहतंश्रुत्वारावणोराक्षसेश्वरः क्रोधेनमहताऽविष्टोनिश्श्वसन्नुरगोयथा दीर्घमुष्णंविनिश्श्वस्यक्रोधेनकलुषीकृतः अब्रवीद्राक्षसंक्रूरंवज्रदंष्ट्रंमहाबलम्
Verse 3
गच्छत्वंवीर निर्याहिराक्षसैःपरिवारितः जहिदाशरथिंरामंसुग्रीवंवानरैःसह
Verse 4
तथेत्युक्त्वाद्रुततरंमायावीराक्षसेश्वरम् निर्जगामबलैस्सार्दंबहुभिःपरिवारितः नागैरश्वैःखरैरुष्ट्रैःसंयुक्तस्सुसमाहितः पताकाध्वजचित्रैश्चरथैश्चसमलङ्कृतः
Verse 5
तथेत्युक्त्वाद्रुततरंमायावीराक्षसेश्वरम् निर्जगामबलैस्सार्दंबहुभिःपरिवारितः नागैरश्वैःखरैरुष्ट्रैःसंयुक्तस्सुसमाहितः पताकाध्वजचित्रैश्चरथैश्चसमलङ्कृतः
Verse 6
ततोविचित्रकेयूरमुकुटैश्चविभूषितः तनुत्राणिचसमावृत्यसधनुर्निर्ययौद्रुतम्
Verse 7
पताकालङ्कृतंदीप्तंतप्तकाञ्चनभूषितम् रथंप्रदक्षिणंकृत्वासमारोहच्चमूपतिः
Verse 8
यष्टिभिस्तोमरैचशित्रैश्शूलैश्चमुसलैरपि भिण्डिपालैश्चपाशैश्चशक्तिभिःपट्टसैरपि खडगैश्चक्रैर्गदाभिश्चनिशितैश्चपरश्वधैः पदातयश्चनिर्यान्तिविविधाःशस्त्रपाणयः
Verse 9
यष्टिभिस्तोमरैचशित्रैश्शूलैश्चमुसलैरपि भिण्डिपालैश्चपाशैश्चशक्तिभिःपट्टसैरपि खडगैश्चक्रैर्गदाभिश्चनिशितैश्चपरश्वधैः पदातयश्चनिर्यान्तिविविधाःशस्त्रपाणयः
Verse 10
विचित्रवाससस्सर्वेदीप्ताराक्षसपुङ्गवाः गजामदोत्कटाश्शूराश्चलन्तइवपर्वताः
Verse 11
तेयुद्धकुशलैरूढास्तोमराङ्कुशपाणिभिः अन्येलक्षणसंयुक्ताश्शूरारूढामहाबलाः
Verse 12
तद्राक्षसबलंसर्वंविप्रस्थितमशोभत प्रावृटकालेयथामेघानर्दमानास्सविद्युतः निस्सृतादक्षिणद्वारादङ्गदोयत्रयूथपः
Verse 13
तेषांनिष्क्रममाणानामशुभंसमजायत आकाशाद्विघनात्तीव्रादुल्काश्चाभ्यन्यपतंस्तदा वमन्त्यःपावकज्वालाशशिवाघोरंववाशिरे
Verse 14
तेषांनिष्क्रममाणानामशुभंसमजायत आकाशाद्विघनात्तीव्रादुल्काश्चाभ्यन्यपतंस्तदा वमन्त्यःपावकज्वालाशशिवाघोरंववाशिरे
Verse 15
व्याहरन्तमृगाघोरारक्षसांनिधनंतदा समापतन्तोयोधास्तुप्रास्खलन् स्तत्रदारुणम्
Verse 16
एतानौत्पातिकान् दृष्टवावज्रदंष्ट्रोमहाबलः धैर्यमालम्भ्यतेजस्वीनिर्जगामरणोत्सुकः
Verse 17
तांस्तुनिष्क्रमतोदृष्टवावानराजितकाशिनः प्रणेदुस्सुमहानादान्पूरयांश्चदिशोदश
Verse 18
ततःप्रवृत्तंतुमुलंहरीणांराक्षसैस्सह घोराणांभीमरूपाणामन्योन्यवथकाङ् क्षिणाम्
Verse 19
निष्पतन्तोमहोत्साहोभिन्नदेहशिरोधराः रुधिरोक्षितसर्वाङ्गान्यपतन्थरणीतले
Verse 20
केचिदन्योन्यमासाद्यशूराःपरिघपाणयः चिक्षिपुर्विविधंशस्त्रंसमरेष्न्विवर्तिनः
Verse 21
द्रुमाणांचशिलानांचशस्त्राणांचापिनिस्स्वनः श्रूयतेसुमहांस्तत्रघोरोहृदयभेदसः
Verse 22
रथनेमिस्वनस्तत्रधनुषश्चापिनिस्वसत् शङ्खभेरीमृदङ्गानांबभूवतुमुलःस्वनः
Verse 23
केचिदस्त्राणिसन्सृज्यबाहुयुद्धमकुर्वत तलैश्चचरणैश्चापिमुष्टिभिश्चद्रुमैरपि जानुभिश्चहताःकेचिद्भिन्नदेहाश्चराक्षसाः शिलाभिश्चूर्णिताःकेचिद्वानरैर्युद्धदुर्मदैः
Verse 24
केचिदस्त्राणिसन्सृज्यबाहुयुद्धमकुर्वत तलैश्चचरणैश्चापिमुष्टिभिश्चद्रुमैरपि जानुभिश्चहताःकेचिद्भिन्नदेहाश्चराक्षसाः शिलाभिश्चूर्णिताःकेचिद्वानरैर्युद्धदुर्मदैः
Verse 25
वज्रदंष्ट्रोभृशंबाणै: रणेवित्रासयन्हरीन् चचारलोकसंहारेपाशहस्तइवान्तकः
Verse 26
बलवन्तोऽस्त्रविदुषोनानाप्रहरणारणे जघ्नुर्वानरसैन्यानिराक्षसाःक्रोधमूर्छिताः
Verse 27
निघ्नतोराक्षसान्दृष्टवासर्वान्वालिसुतोरणे क्रोधेनवदिगुणाविष्टःसंवर्तकइवानलः
Verse 28
तान् राक्षसगणान्सर्वान्वृक्षमुद्यम्यवीर्यवान् अङ्गदःक्रोधताम्राक्षःसिंहःक्षुद्रमृगानिव कारकदनंघोरंशक्रतुल्यपराक्रमः
Verse 29
तान् राक्षसगणान्सर्वान्वृक्षमुद्यम्यवीर्यवान् अङ्गदःक्रोधताम्राक्षःसिंहःक्षुद्रमृगानिव कारकदनंघोरंशक्रतुल्यपराक्रमः
Verse 30
अङ्गदाभिहतास्तत्रराक्षसाभीमविक्रमाः विभिन्नशिरसःपेतुर्विकृताइवपादपाः
Verse 31
रथैरश्वैर्ध्वजैश्चित्रैश्शरैर्हरिरक्षसाम् रुधिरेणसञ्छन्नाभूमिर्भयकरातदा
Verse 32
हारकेयूरवस्स्रैश्चशत्रैश्चसमलङ्कृता भूमिर्भातिरणेतत्रशारदीवयथानिशा
0:000:00
Speed: