Book 6 • Chapter 54
Sarga 54
38 verses
Verse 1
बलस्यचविघातेनअङ्गदस्यजयेनच राक्षसःक्रोधमाविष्टोवज्रदंष्ट्रोमहाबलः
Verse 2
विष्पार्यचधनुर्घोरंशक्राशनिसमस्वनम् वानराणामनीकानिप्राकिरच्छरवृष्टिभिः
Verse 3
राक्षसाश्चापिमुख्यास्तेरथेषुसमवस्थिताः नानाप्रहरणाश्शूराःप्रायुध्यन्तस्तदारणे
Verse 4
वानराणांचशूरायेतेसर्वेप्लवगर्षभाः आयुध्यन्तशिलाहस्तास्समवेतास्समन्ततः
Verse 5
तत्रायुधसहस्राणितस्मिन्नायोधनेभृशम् राक्षसाःकपिमुख्येषुपातयांचक्रिरेतदा
Verse 6
वानराश्चापिरक्षस्सुगिरवृक्षान्महाशिलाः प्रवीराःपातयामासुर्मत्तमातङ्गसन्निभाः
Verse 7
शूराणांयुद्यमानानांसमरेष्न्विवर्तिनाम् तद्राक्षसगणानांचसुयुद्धंसमवर्तत
Verse 8
प्रभिन्नशिरसःकेचिछचिन्नैःपादैश्चबाहुभिः शस्स्रैरर्दितदेहाभ्यरुधिरेणसमुक्षिताः हरयोराक्षसाश्चैवशेरतेगांसमाश्रिताः कङ्कगृध्रवळैराढ्याश्चगोमायुगलसङ्कुलाः
Verse 9
प्रभिन्नशिरसःकेचिछचिन्नैःपादैश्चबाहुभिः शस्स्रैरर्दितदेहाभ्यरुधिरेणसमुक्षिताः हरयोराक्षसाश्चैवशेरतेगांसमाश्रिताः कङ्कगृध्रवळैराढ्याश्चगोमायुगलसङ्कुलाः
Verse 10
कबन्धानिसमुत्पेतुर्भीमाणांभीषणानिवै भुजपाणिशिरश्छिन्नकायाश्चभूतले वानराराक्षसाश्चापिनिपेतुस्तत्रवैरणे
Verse 11
ततोवानरसैन्येनहन्यमानंनिशाचरम् प्राभज्यतबलंसर्वंवज्रदंष्ट्रस्यपश्यतः
Verse 12
राक्षसान्भयवित्रस्तान्हन्यमानान् प्लवङ्गमैः दृष्टवासरोषताम्राक्षोवज्रदंष्ट्रःप्रतापवान् प्रविवेशधनुष्पाणिस्त्रासयन्हरिवाहिनीम्
Verse 13
राक्षसान्भयवित्रस्तान्हन्यमानान् प्लवङ्गमैः दृष्टवासरोषताम्राक्षोवज्रदंष्ट्रःप्रतापवान् प्रविवेशधनुष्पाणिस्त्रासयन्हरिवाहिनीम्
Verse 14
शरैर्विदारयामासकङ्कपत्रैरजिह्मगैः बिभेदवानरांस्तत्रसप्ताष्टौनवपञ्चच विव्याधपरमक्रुद्धोवज्रदंष्ट्रःप्रतापवान्
Verse 15
त्रस्ताःसर्वेहरिगणाःशरैःसङ्कृत्तकन्दरा: अङ्गदंसम्प्रधावन्तिप्रजापतिमिवप्रजाः
Verse 16
ततोहरिगणान् भग्नान् दृष्टवावालिसुतस्तदा क्रोधेनवज्रदंष्ट्रंतमुदीक्षन्तमुदैक्षत
Verse 17
वज्रदंष्ट्रोऽङ्गदश्चोभौसङ्गतौहरिराक्षसौ चेरतुःपरमक्रुद्धौहरिमत्तगजाविव
Verse 18
ततश्शतसहस्रेणहरिपुत्रंमहाबलः जघानमर्मदेशेषुमातङ्गमिवतोमरैः
Verse 19
रुधिरोक्षितसर्वाङ्गोवालिसूनुर्महाबलः चिक्षेपवज्रदंष्ट्रायवृक्षंभीमपराक्रमः
Verse 20
दृष्टापतन्तंतंवृक्षमसम्भ्रान्तश्चराक्षसः चिच्छेदबहुधासोऽपिमथितःप्रादतद्भुवि
Verse 21
तंदृष्टवावज्रदंष्ट्रस्यविक्रमंप्लवगर्षभ प्रगृह्यविपुलंशैलंचिक्षेपचननादच
Verse 22
समापतन्तंदृष्टवासरथादाप्लुत्यवीर्यवान् गदापाणिरसम्भ्रान्तःपृथिव्यांसमतिष्ठत
Verse 23
साङ्गदेनगदाक्षिप्तागत्वातुरणमूर्धनि सचक्रकूबरंसाश्वंप्रममाथरथंतदा
Verse 24
ततोऽन्यच्छिखरंगृह्यविपुलंद्रुमभूषितम् वज्रदंष्ट्रस्यशिरसिपातयामाससाऽङ्गदः
Verse 25
अभवच्छोणितोद्गारीवज्रदंष्ट्रस्समूर्छितः मुहूर्तमभवन्मूढोगदामालिङ् ग्यनिश्श्वसन्
Verse 26
संलब्दसंज्ञोगदयावालिपुत्रमवस्थितम् जघानपरमक्रुद्धोवक्षोदेशेनिशाचरः
Verse 27
गदांत्यक्त्वाततस्तत्रमुष्टियुद्धमवर्तत अन्योन्यंजघ्नतुस्तत्रतावुभौहरिराक्षसौ
Verse 28
रुधिरोद्गारिणौतौतुप्रहारैर्जनितश्रमौ बभूवतुस्सुविक्रान्तावङ्गारकबुधाविव
Verse 29
ततःपरमतेजस्वीअङ्गदःप्लवगर्षभः उत्पाट्यवृक्षंस्थितवान् बहुपुष्पफलाञ्चितम्
Verse 30
जग्राहचार्षभंचर्मखडगंचविपुलंशुभम् किङ्किणाजालसञ्छन्नंचर्मणाचपरिष्कृतम्
Verse 31
चित्रांश्चरुचिरान्मार्गांश्चेरतुःकपिराक्षसौ जघ्नतुश्चतदान्योन्यंनिर्दयंजयकाङ् क्षिणौ
Verse 32
व्रणैस्सास्त्रैरशोभेतांपुष्पिताविवकिंशुकौ युध्यमानौपरिश्रान्तौजानुभ्यामवनींगतौ
Verse 33
निमेषान्तरमात्रेणअङ्गदःकपिकुञ्जरः उदतिष्ठतदीप्ताक्षोदण्डाहतइवोरगः
Verse 34
निर्मलेनसुधौतेनखड्डेनास्यमहच्छिरः जघानवज्रदंष्ट्रस्यवालिसूमर्महाबलः
Verse 35
रुधिरोक्षितगात्रस्यबभूवपतितंद्विधा सरोषपरिवृत्ताक्षंशुभंखडगहतंशिरः
Verse 36
वज्रदंष्ट्रंहतंदृष्टवाराक्षसाभयमोहिताः त्रस्ताह्यभ्यद्रवन् लङ्कांवध्यमानाःप्लवङ्गमैः विषण्णवदना: दीनाह्रियाकिञ्चिदवाङ्मुखाः
Verse 37
वज्रदंष्ट्रंहतंदृष्टवाराक्षसाभयमोहिताः त्रस्ताह्यभ्यद्रवन् लङ्कांवध्यमानाःप्लवङ्गमैः विषण्णवदना: दीनाह्रियाकिञ्चिदवाङ्मुखाः
Verse 38
निहत्यतंवज्रधरप्रतापःसवालिसूनुःकपिसैन्यमध्ये जगामहर्षंमहितोमहाबलःसहस्रनेत्रस्त्रिदशैरिवावृतः
0:000:00
Speed: