🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 55

Sarga 55

31 verses

Verse 1
वज्रदंष्ट्रंहतंश्रुत्वावालिपुत्रेणरावणः बलाध्यक्षमुवाचेदंकृताञ्जलिमुपस्थितम्
Verse 2
शीघ्रंनिर्यान्तुदुर्धर्षाराक्षसाभीमविक्रमाः अकम्पनंपुरस्कृत्यसर्वशस्त्रप्रकोविदम्
Verse 3
एषशास्ताचगोप्ताचनेताचयुधिसत्तमः भूतिकामश्चमेनित्यंनित्यंचसमरप्रियः
Verse 4
एषजेष्यतिकाकत्स्थौसुग्रीवंचमहाबलम् वानरांश्चापरान् घोरान् हनिष्यतिपरन्तपः
Verse 5
परिगृह्यसःताम् I ज्ञाम् रावणस्यमहाबल बलम् सम्प्रेरयामासःतदालघुपराक्रमः
Verse 6
ततोनानाप्रहरणाभीमाक्षाभीमदर्शनाः निष्पेतूराक्षसामुख्याबलाध्यक्षप्रचोदिताः
Verse 7
रथमास्थायविपुलंतप्तकाञ्चनभूषणम् मेघाभोमेघवर्णश्चमेघस्वनमहास्वनः राक्षसैःसम्वृतोघोरैस्तदानिर्यात्यकम्पनः
Verse 8
नहिकम्पयितुंशक्यःसुरैरपिमहामृधे अकम्पनस्ततस्तेषामादित्यइवतेजसा
Verse 9
तस्यनिर्धावमानस्यसम्रब्धस्ययुयुत्सया अकस्माद्दैन्यमागच्छद्धयानांरथवाहिनाम्
Verse 10
व्यस्फुरन्नयनंचास्यसव्यंयुद्धाभिनदनिनः विवर्णोमुखवर्णश्चगद्गदश्चाभवत्स्वनः
Verse 11
अभवत्सुदिनेकालेदुर्दिनंरूक्षमारुतम् ऊचुःखगमृगाःसर्वेवाचःक्रूराभयावहाः
Verse 12
ससिंहापचित्कन्धःशार्दूलसमविक्रमः तानुत्पातानचिन्स्सैवनिर्जगामरणाजिरम्
Verse 13
तथानिर्गच्छतस्तस्यरक्षसस्सहराक्षसैः बभूवसुमहान्नादःक्षोभयन्निवसागरम्
Verse 14
तेनशब्देनवित्रस्तावानराणांमहाचमूः द्रुमशैलप्रहाराणांयोद्धुंसमुपतिष्ठतं
Verse 15
तेषांयुद्धंमहारौद्रंसञ्जज्ञेकपिरक्षसाम् रामरावणयोरर्धेसमभित्यक्तजीविनाम्
Verse 16
सर्वेह्यतिबलाःशूराःसर्वेपर्वतसन्निभाः हरयोराक्षसाश्चैवपरस्परजिघांसवः
Verse 17
तेषांविवर्धतांशब्दःसंयुगेऽतितरस्विनाम् शुश्रुवेसुमहान् कोपादन्योन्यमभिगर्जताम्
Verse 18
रजश्चारुणवर्णाभंसुभीममभवद् भृशम् उद्धतंहरिरक्षोभिःसंरुरोधदिशोदश
Verse 19
अन्योन्यंरजसातेनकौशेयोद्धूतपाण्डुना सम्वृतानिचभूतानिददृशुर्नरणाजिरे
Verse 20
नध्वजोनपताकावाचर्मवातुरगोऽपिवा आयुधंस्यन्दनोवापिददृशेतेनरेणुना
Verse 21
शब्दश्चसुमहांस्तेषांनर्दतामभिधावताम् श्रूयतेतुमुलोयुद्धेनरूपाणिचकाशिरे
Verse 22
हरीनेवसुसंरुष्टाहरयोजघ्नुराहवे राक्षसाराक्षसांश्चापिनिजघ्नुस्तिमिरेतदा
Verse 23
तेपरांश्चविनिघ्नन्तःस्वांश्चवानरराक्षसाः रुधिरार्द्रांतदाचक्रुर्महींपङ्कानुलेपनाम्
Verse 24
ततस्तुरुधिरौघेणसिक्तंह्यपगतंरजः शरीरशवसङ्कीर्णाबभूवचवसुन्धरा
Verse 25
द्रुमशक्तिगदाप्रासैश्शिलापरिघतोमरैः हरयोराक्षसाश्चैवस्तूर्णंजघ्नुरन्योन्यमोजसा
Verse 26
बाहुभिःपरिघाकारैर्युध्यन्तःपर्वतोपमाः हरयोभीमकर्माणोराक्षसान्झघ्नुराहवे
Verse 27
राक्षसास्त्वभिसङ्क्रुद्धाःप्रासतोमरपाणयः कपीन्निजघ्निरेतत्रशस्त्रःपरमदारुणैः
Verse 28
अकम्पनस्सुसङ्क्रुद्धोराक्षसानांचमूपतिः सम्हर्षयतितान्सर्वान्राक्षसाभनिमविक्रमान्
Verse 29
हरयस्त्वपिरक्षांसिमहाद्रुममहाश्मभिः विदारयन्त्यभिक्रम्यशस्त्राण्याच्छिद्यवीर्यतः
Verse 30
एतस्मिन्नन्तरेवीराहरयःकुमुदोनलः मैन्दश्चपरमक्रुद्धाश्चक्रुर्वेगमनुत्तमम्
Verse 31
तेतुवृक्षैर्महावीराराक्षसानांचमूमुखे कदनंसुमहच्चक्रुर्लीलयाहरिपुङ्गवाः ममन्थूराक्षसान् सर्वेवानरागणशोभृशम्
0:000:00
Speed: