🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 56

Sarga 56

39 verses

Verse 1
तद्दृष्टवासुमहत्कर्मकृतंवानरतस्तमैः क्रोधमाहारयामासयुधितीव्रमकम्पनः
Verse 2
क्रोधमूर्चितरूपस्तुधून्वन्परमकार्मुकम् दृष्टवातुकर्मशत्रूणांसारथिंवाक्यमब्रवीत्
Verse 3
तत्त्त्वैतावत्त्वरितंरथंप्रापयसारथे यत्रैतेबहवोघ्नन्तिसुबहून्राक्षसान्रणे
Verse 4
एतेऽत्रबलवन्तोहिभीमकोपाश्चवानराः द्रुमशैलप्रहरणास्तिष्ठन्तिप्रमुखेमम
Verse 5
एतान्निहन्तुमिच्छामिसमरश्लाघिनोह्यहम् एतैःप्रमथितंसर्वंदृश्यतेराक्षसांबलम्
Verse 6
ततःप्रजवनाश्वेनरथेनरथिनांवरः हरीनभ्यहनत्क्रोधाच्छरजालैकम्पनः
Verse 7
नस्थातुंवानराश्शेकुःकिंपुनर्योद्धुमाहवे अकम्पनशरैर्भग्नास्सर्वएवविदुद्रुवुः
Verse 8
तान्मृत्युवशमापन्नानकम्पनवंशगतान् समीक्ष्यहनुमान्ज्ञातीनुपतस्थेमहाबलः
Verse 9
तंमहाप्लवगंदृष्टवासर्वेतेप्लवगयूथपा: समेत्यसमरेवीरास्सहिताःपर्यवारयन्
Verse 10
अवस्थितंहनूमन्तंतेदृष्टवाहरियूथपा: बभूवुर्बलवन्तोहिबलवन्तंसमाश्रिताः
Verse 11
अकम्पनस्तुशैलाभंहनूमन्तमवस्थितम् महेन्द्रइवदाराभिश्शरैरभिववर्षह
Verse 12
अचिन्तयित्वाबाणौघान् शरीरेपतितान्शितान् अकम्पनवधार्थायमनोदध्रेमहाबलः
Verse 13
सप्रहस्यमहातेजाहनुमान् मारुतात्मजः अभिदुद्रावतद्रक्षःकम्पयन्निवमेदिनीम्
Verse 14
तस्याभिनर्दमानस्यदीप्यमानस्यतेजसा बभूवरूपंदुर्धर्षंदीप्तस्येवविभावसोः
Verse 15
आत्मानंमप्रहरणंज्ञात्वाक्रोधसमन्वितः शैलमुत्पाटयामासवेगेनहरिपुङ्गवः
Verse 16
गृहीत्वातंमहाशैलंपाणिनैकेनमारुतिः सविनद्यमहानादंभ्रामयामासवीर्यवान्
Verse 17
ततस्तमभिदुद्रावराक्षसेन्द्रमकम्पनम् पुराहिनमुचिंसङ् ख्येवज्रेणेवपुरन्दरः
Verse 18
अकम्पनस्तुतद्दृष्टवागिरिशृङ्गंसमुद्यतम् दूरादेवमहाबाणैरर्धचन्द्रैर्व्यदारयत्
Verse 19
तत्पर्वताग्रमाकाशेरक्षोबाणविदारितम् विकीर्णंपतितंदृष्टवाहनुमान्क्रोधमूर्छितः
Verse 20
सोऽश्वकर्णंसमासाद्यरोषदर्पान्वितोहरिः तूर्णमुत्पाटयामासमहागिरिमिवोच्छ्रितम्
Verse 21
तंगृहीत्वामहास्कन्धंसोऽश्वकर्णंमहाद्युतिः प्रहस्यपरयाप्रीत्याभ्रामयामासभूतले
Verse 22
प्रधावन्नूरुवेगेनप्रभञ्जंस्तरसाद्रुमान् हनूमान्परमक्रुद्धश्चरणैर्दारयत्क्षितम्
Verse 23
गजांश्चसगजारोहान्सरथान्रथिनस्तथा जघानहनुमान् भीमान् राक्षसांश्चपदातिगान्
Verse 24
तमन्तकमिवक्रुद्धंसद्रुमंप्राणहारिणम् हनूमन्तमभिप्रेक्ष्यराक्षसाविप्रदुद्रुवुः
Verse 25
तमापतन्तंसङ्कृद्धंराक्षसानांभयावहम् ददर्शाकम्पनोवीरश्चुक्षोधचननादच
Verse 26
सचतुर्दशभिर्बाणैश्शितैर्देहविदारणैः निर्बिभेदहनूमन्तंमहावीर्यमकम्पनः
Verse 27
सतदाप्रतिविद्धस्तुबह्वीभिश्शरवृष्टभिः हनूमान्ददृशेवीरःप्ररूढइवसानुमान्
Verse 28
विरराजमहाकायोमहावीर्योमहामना: पुष्पिताशोकसङ्काशोविधूमइवपावकः
Verse 29
ततोऽन्यंवृक्षमुत्पाट्यकृत्वावेगमनुत्तमम् शिरस्यभिजघानाशुराक्षसेन्द्रमकम्पनम्
Verse 30
सवृक्षेणहतस्तेनसक्रोधेनमहात्मना राक्षसोवानरेन्द्रेणपपातचममारच
Verse 31
तंदृष्टवानिहतंभूमौराक्षसेन्द्रमकम्पनम् व्यथिताराक्षसास्सर्वेक्षितिकम्पइवद्रुमाः
Verse 32
त्यक्तप्रहरणास्सर्वेराक्षसास्तेपराजिताः लङ्कामभिययुस्त्रस्तावानरास्तैभिद्रुताः
Verse 33
तेमुक्तकेशाःसम्भ्रान्ताभग्नमानाःपराजिताः स्रवच्छ्रमजलैरङ्गैश्श्वसन्तोविप्रदुद्रुवुः
Verse 34
अन्योन्यंप्रममन्थुस्तेविविशुर्नगरंभयात् पृष्ठतस्तेतुसम्मूढाःप्रेक्षमाणामुहुर्मुहुः
Verse 35
तेषुलङ्कांप्रविष्टेषुराक्षसेषुमहाबलाः समेत्यहरयस्सर्वेहनूमन्तमपूजयन्
Verse 36
सोऽपिप्रहृष्टस्तान् सर्वान् हरीन् सम्प्रत्यपूजयत् हनुमान्सत्त्वसम्पन्नोयथार्हमनुकूलतः
Verse 37
विनेदुश्चयथाप्राणंहरयोजितकाशिनः चकर्षुश्चपुनस्तत्रसप्राणानपिराक्षसान्
Verse 38
सवीरशोभामभजन्महाकपिःसमेत्यरक्षांसिनिहत्यमारुतिः महासुरंभीमममित्रनाशनःयथैवविष्णुर्बलिनंचमूमुखे
Verse 39
अपूजयन्देवगणास्तदाकपिंस्वयंचरामोऽतिबलश्चलक्ष्मणः तथैवसुग्रीवमुखाःप्लवङ्गमाविभीषणश्चैवमहाबलस्तथा
0:000:00
Speed: