Book 6 • Chapter 57
Sarga 57
46 verses
Verse 1
अकम्पनवधंश्रुत्वाक्रुद्धोवैराक्षसेश्वरः किञ्चिददीनमुखश्चापिसचिवांस्तानुदैक्षत
Verse 2
सतुध्यात्वामुहूर्तंतुमन्त्रिभिस्संविचार्यच ततस्तुरावणःपूर्वदिवसेराक्षसाधिपः पुरींपरिययौलङ्कांसर्वगुल्मानवेक्षितुम्
Verse 3
तांराक्षसगणैर्गुप्तांगुल्मैर्बहुभिरावृताम् ददर्शनगरींलङ्कांपताकाध्वजमालिनीम्
Verse 4
रुद्धांतुनगरींदृष्टवारावणोराक्षसेश्वरः उवाचात्महितंकालेप्रहस्तंयुद्धकोविदम्
Verse 5
पुरस्योपनिविष्टस्यसहसापीडितस्यवा नान्यंयुद्धात्प्रपश्यामिमोक्षंयुद्धविशारद
Verse 6
अहंवाकुम्भकर्णोवात्वंवासेनापतिर्मम इन्द्रजिद्वानिकुम्भोवावहेयुर्भारमीदृशम्
Verse 7
सत्वंबलमतश्शीघ्रमादायपरिगृह्यच विजयायाभिनिर्याहियत्रसर्वेवनौकसः
Verse 8
निर्याणायादेवतेनूनंचपलाहरिवाहिनी नर्दतांराक्षसेन्द्राणांश्रुत्वानादंद्रविष्यति
Verse 9
चपलाह्यविनीताश्चचलचित्ताश्चवानराः नसहिष्यन्तितेनादंसिंहनादमिवद्विपाः
Verse 10
विद्रुतेचबलेतस्मिन् रामःसौमित्रिणासह अवशस्तेनिरालम्बःप्रहस्तवशमेष्यति
Verse 11
आपत्संशयिताश्रेयोनात्रनिस्संशयीकृता प्रतिलोमानुलोमंवायद्वानोमन्यसेहितम्
Verse 12
रावणेनैवमुक्तस्तुप्रहस्तोवाहिनीपतिः राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना
Verse 13
राजन्मन्त्रितपूर्वंनःकुशलैस्सहमन्त्रिभिः विवादश्चापिनोवृत्तस्समवेक्ष्यपरस्परम्
Verse 14
प्रदानेनतुसीतायाःश्रेयोव्यवसितंमया अप्रदानेपुनर्युद्धंदृष्टमेत्तथैवनः
Verse 15
सोऽहंदानैश्चमानैश्चसततंपूजितस्त्वया सान्त्वैश्चविविधैःकालेकिंनकुर्यांहितंतव
Verse 16
नहिमेजीवितंरक्ष्यंपुत्रदारधनानिच त्वंपश्यमांजुहूषन्तंत्वदर्थेजीवितंयुधि
Verse 17
एवमुक्त्वातुभर्तारंरावणंवाहिनीपतिः उवाचेदंबलाध्यक्षान्प्रहस्तःपुरतःस्थितान्
Verse 18
मेशीघ्रंराक्षसानांमहाद्बलम् मद्भाणाब्दावेगेनहतानांशनिचरणाजिरे अद्यहृष्यन्तुमांसादाःपक्षिणःकाननौकसां
Verse 19
मेशीघ्रंराक्षसानांमहाद्बलम् मद्भाणाब्दावेगेनहतानांशनिचरणाजिरे अद्यहृष्यन्तुमांसादाःपक्षिणःकाननौकसां
Verse 20
इत्युक्तास्तेप्रहस्तेनबलाध्यक्षा: कृतत्वरा: बलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे
Verse 21
साबभूवमुहूर्तेननिग्मर्नानाविधायुधैः लङ्काराक्षसवीरैस्तैर्गजैरिवसमाकुला
Verse 22
हुताशनंतर्पयतांब्राह्मणांश्चनमस्यताम् आज्यगन्धप्रतिवहःसुरभिर्मारुतोववौ
Verse 23
स्रजश्चविविधाकाराजगृहुस्त्वभिमन्त्रिताः सङ्ग्रामसज्जाःसम्हृष्टाधरायन्राक्षसास्तदा
Verse 24
सधनुष्काःकवचिनोवेगादाप्लुत्यराक्षसाः रावणंप्रेक्ष्यराजानंप्रहस्तंपर्यवारयन्
Verse 25
अथामन्त्ऱ्यतुराजानंभेरीमाहत्यभैरवाम् आरुरोहरथंयुक्तःप्रहस्तस्सज्जकल्पितम् हयैर्महाजवैर्युक्तंसम्यक्सूतसुसंयतम् महाजलदनिर्घोषंसाक्षाच्चन्द्रार्कभास्वरम् उरगध्वजदुर्धर्षंसुवरूथंस्ववस्करम् सुवर्णजालसंयुक्तंप्रहसन्तमिवश्रिया
Verse 26

Verse 27

Verse 28
ततस्तंरथमास्थायरावणार्पितशासनः लङ्कायानिर्ययौतूर्णंबलेनमहतावृतः
Verse 29
ततोदुन्धुभिनिर्घोषःपर्जन्यनिनदोपमः वादित्राणांचनिनदःपूरयन्निवमेदिनीम् शुश्रुवेशङ्खशब्दश्चप्रयातेवाहिनीपतौ
Verse 30
निनदन्तस्स्वरान्घोरान्राक्षसाजग्मुरग्रतः भीमरूपामहाकायाःप्रहस्तस्यपुरस्सराः
Verse 31
नरान्तकःकुम्भहनुर्महानादस्समुन्नतः प्रहस्तसचिवाह्येतेनिर्ययुःपरिवार्यतम्
Verse 32
व्यूढेनेवसुघोरेणपूर्वद्वारात्सनिर्ययौ गजयूथनिकाशेनबलेनमहतावृतः
Verse 33
सागरप्रतिमौघेनवृतस्तेनबलेनसः प्रहस्तोनिर्ययौक्रुद्धःकालान्तकयमोपमः
Verse 34
तस्यनिर्याणघोषेणराक्षसानांचनर्दताम् लङ्कायांसर्वभूतानिविनेदुर्विकृतैस्स्वरैः
Verse 35
व्यभ्रमाकाशमाविश्यमांसशोणितभोजनाः मण्डलान्यपसव्यानिखगाश्चक्रूरथंप्रति
Verse 36
सम्नत्यःपावकज्वालाःशिवाघोराववाशिरे अन्तरिक्षात्पपातोल्कावायुश्चपरुषंवनौ
Verse 37
अन्योन्यमभिसंरब्धाग्रहाश्चनचकाशिरे मेघाश्चखरनिर्घोषारथस्योपरिरक्षसः ववृषंरुधिरंचास्यसिषिचुश्चपुरस्सरान्
Verse 38
अन्योन्यमभिसंरब्धाग्रहाश्चनचकाशिरे मेघाश्चखरनिर्घोषारथस्योपरिरक्षसः ववृषंरुधिरंचास्यसिषिचुश्चपुरस्सरान्
Verse 39
केतुर्मूर्धनिगृध्रोऽस्यनिलीनोदक्षिणामुखः तुदन्नुभयतःपार्श्वंसमग्रामहरत्प्रभाम्
Verse 40
सारथेर्भहुशश्चास्यसङ्ग्राममवगाहतः प्रतोदोन्यपतद्धस्तात्सूतस्यहयसादिनः
Verse 41
निर्याणश्रीश्चयाऽस्यासीद्भास्वरावसुदुर्लभाः साननाशमुहूर्तेनसमेचस्खलिताहयाः
Verse 42
प्रहस्तंत्वभिनिर्यान्तंप्रख्यातबलपौरुषम् युधिनानाप्रहरणाकपिसेनाऽभ्यवर्तत
Verse 43
अथघोषस्सुतुमुलोहरीणांसमजायत वृक्षानारुजतांचैवगुर्वीरागृह्णतांशिलाः
Verse 44
नदतांराक्षसानांचवानराणांचगर्जताम् उभेप्रमुदितेसैन्येरक्षोगणवनौकसाम् वेगितानांसमर्थानामन्योन्यवधकाङ् क्षिणाम् परस्परंचाह्वयतांनिनाद्शूयतेमहान्
Verse 45
नदतांराक्षसानांचवानराणांचगर्जताम् उभेप्रमुदितेसैन्येरक्षोगणवनौकसाम् वेगितानांसमर्थानामन्योन्यवधकाङ् क्षिणाम् परस्परंचाह्वयतांनिनाद्शूयतेमहान्
Verse 46
ततःप्रहस्तःकपिराजवाहिनीमभिप्रतस्थेविजयायदुर्मतिः विवृद्धवेगंश्चविवेशतांचमूंयथामुमूर्षुश्शलभोविभावसुम्
0:000:00
Speed: