🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 59

Sarga 59

146 verses

Verse 1
तस्मिन्हतेराक्षससैन्यपालेप्लवङ्गमानामृषभेणयुद्धे भीमयुधंसागरतुल्यवेगंविदुद्रुवेराक्षसराजसैन्यम्
Verse 2
गत्वाऽथरक्षोधिपतेश्शशंसुस्सेनापतिंपावकसूनुशस्तम् तच्छापितेषांवचनंनिशम्यरक्षोधिपःक्रोधवशंजगाम
Verse 3
सङ् ख्येप्रहस्तंनिहतंनिशम्यशोकार्दितःक्रोधपरीतचेताः उवाचतान्राक्षसयूथमुख्यानिन्द्रोयथानिर्जरयोथमुख्यान्
Verse 4
नावज्ञारिपवेकार्यायैरिन्द्रबलसूदनः सूदितस्सैन्यपालोमेसानुयात्रस्सकुञ्जरः
Verse 5
सोऽहंरिपुविनाशायविजयायाविचारयन् स्वयमेवगमिष्यामिरणशीर्षंतदद्भुतम्
Verse 6
अद्यतद्वानरानीकंरामंचसहलक्ष्मणम् निर्दहिष्यामिबाणौघैर्वनंदीप्स्सैरिवानगिभिः
Verse 7
सएवमुक्त्वाज्वलनप्रकाशंरथंतुरङ्गोत्तमराजयुक्तम् प्रकाशमानंवपुषाज्वलन्तंसमारुरोहामरराजशत्रुः
Verse 8
सशङ्खभेरीपणवप्रणादैरास्फोटितक्षेळ्वितसिंहनादैः पुण्यैस्स्तवैश्चाप्यभिपूज्यमानस्तदाययौराक्षसराजमुख्य:
Verse 9
सशैलजीमून्तिकाशरूपैर्मांसादनैःपावकदीप्तनेत्रैः बभौवृतोराक्षसराजमुख्योभूतैर्वृतोरुद्रइवासुरेशः
Verse 10
ततोनगर्यास्सहसामहौजानिष्क्रम्यतद्वानरसैन्यमुग्रम् महार्णवाभ्रस्तनितंददर्शसमुद्यतंपादपशैलहस्तम्
Verse 11
तद्राक्षसानीकमतिप्रचण्डमालोक्यरामोभुजगेन्द्रबाहुः विभीषणंशस्त्रभृतांवरिष्ठमुवाचसेवानुगतःपृथुश्रीः
Verse 12
नानापताकध्वजशस्त्रजुष्टंप्रासासिशूलायुथवज्रजुष्टम् कस्येदमक्षोभ्यमभीरुजुष्टंमहेन्द्रोपमनागजुष्टम्
Verse 13
ततस्तुरामस्यनिशम्यवाक्यंविभीषणंश्शक्रसमानवीर्यः शशंसरामस्यबलप्रवेगंमहात्मनांराक्षसपुङ्गवानाम्
Verse 14
योऽसौगजस्कन्धगतोमहात्मानवोदितार्कोपमताम्रवक्त्रः प्रकम्पयन्नागशिरोऽभ्युपैतिह्यकम्पनंत्वेनमवेहिराजन्
Verse 15
योऽसौरथस्थोमृगराजकेतुर्दून्वस्थिन्दनुश्शक्रधनुःप्रकाशम् करीवभात्युग्रविवृत्तदंष्ट्रस्सइन्द्रजिन्नामवरप्रधानः
Verse 16
यश्चैषव्निध्यास्तमहेन्द्रकल्पोधन्वीरथस्थोऽतिरथोतिवीरः विष्पारयन् चापमतुल्यमानंनाम्नातिकायोऽतिविवृद्धकायः
Verse 17
योऽसौनवार्कोदितताम्रचक्षुरारुह्यघण्टानिनदप्रणादम् गजंखरंगर्जतिवैमहात्मामहोदरोनामसएषःवीरः
Verse 18
योऽसौहयंकाञ्चनचित्रभाण्डमारुह्यसन्ध्याभ्रगिरिप्रकाशम् प्रासंसमुद्यम्यमरीचिनद्धंपिशाचएषोऽशनितुल्यवेगः
Verse 19
यश्चैषशूलंनिशितंप्रगृह्यविद्युत्प्रभंकिङ्करवज्रवेगम् वृषेन्द्रमास्थायगिरिप्रकाशमायातियोऽसौत्रिशिरायशस्वी
Verse 20
असौचजीमूतनिकाशरूपःकुम्भःपृथुव्यूढसुजातवक्षाः समाहितःपन्नगराजकेतुर्विष्पारयन्यातिधनुर्विधून्वन्
Verse 21
यश्चैषजाम्बूनदवज्रजुष्टंदीप्तंसधूमंपरिघंप्रगृह्य आयातिरक्षोबलकेतुभूतःसोऽसौनिकुम्भोऽद्भुतघोरकर्मा
Verse 22
यश्चैषचापासिशरौघजुष्टंपताकिनंपावकदीप्तरूपम् रथंसमास्थायविभात्युदग्रोनरान्तकोऽसौनगशृङ्गयोधी
Verse 23
यश्चैषनानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रै: भूतैर्वृतोभातिविवृत्तनेत्स्रैसोऽसौसुराणामपिदर्पहन्ता त्रैतदिन्दुप्रतिमंविभातिछत्रंसितंसूक्ष्मशलाकमग्य्रम् अत्रैषरक्षोधिपतिर्महात्माभूतैर्वृतोरुद्रइवावभाति
Verse 24
यश्चैषनानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रै: भूतैर्वृतोभातिविवृत्तनेत्स्रैसोऽसौसुराणामपिदर्पहन्ता त्रैतदिन्दुप्रतिमंविभातिछत्रंसितंसूक्ष्मशलाकमग्य्रम् अत्रैषरक्षोधिपतिर्महात्माभूतैर्वृतोरुद्रइवावभाति
Verse 25
असौकिरीटीचलकुण्डलास्योनगेन्द्रविन्ध्योपमभीमकायः महेन्द्रवैवस्वतदर्पहन्तारक्षोधिपस्सूर्यइवावभाति
Verse 26
प्रत्युवाचततोरामोविभीषणमरिन्दम् अहोदीप्तमहातेजारावणोराक्षसेश्वरः
Verse 27
आदित्यइवदुष्प्रेक्ष्योरश्मिभिर्भातिरावणः सुव्यक्तंलक्ष्यतेह्यस्यरूपंतेजःसमावृतम्
Verse 28
देवदानववीराणांवपुर्नैवंविधंभवेत् यादृशंराक्षसेन्द्रस्यवपुरेतत्प्रकाशते
Verse 29
सर्वेपर्वतसङ्काशास्सर्वेपर्वतयोधिनः सर्वेदीप्तायुधधरायोधाश्चास्यमहोजस:
Verse 30
भातिरक्षोराजोऽसौप्रदीप्त्तैर्भीमविक्रमैः भूतैःपरिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः
Verse 31
दिष्ट्याऽयमद्यपापात्माममदृष्टिपथंगतः अद्यक्रोधंविमोक्ष्यामिसीताहरणसम्भवम्
Verse 32
एवमुक्त्वाततोरामोधनुरादायवीर्यवान् लक्ष्मणानुचरस्तस्थौसमुद्धृत्यशरोत्तमम्
Verse 33
ततःसरक्षोधिपतिर्महात्मारक्षांसितान्याहमहाबलानि द्वारेषुचर्यागृहगोपुरेषुसुनिर्वृतास्तिष्ठतनिर्विशङ्काः
Verse 34
हाऽगतंमांसहितंभवद्भिर्वनौकसश्छिद्रमिदंविदित्वा शून्यापुरींदुष्प्रसहांप्रमथ्यप्रधर्षयेयुस्सहसासमेताः
Verse 35
विसर्जयित्वासचिवांस्ततस्तान्गतेषुरक्षस्सुयथानियोगम् व्यचारयद्वानरसागरौघंमहाझषःपूर्णमिवार्णवौघम्
Verse 36
तमापतन्तंसहसासमीक्ष्यदीप्तेषुचापंयुधिराक्षसेन्द्रम् महत्समुत्पाट्यमहीधराग्रंदुद्रावरक्षोधिपतिंहरीशः
Verse 37
तच्छैलशृङ्गंबहुवृक्षसानुंप्रगृह्यचिक्षेपनिशाचराय तमापतन्तंसहसासमीक्ष्यचिच्छेदबाणैस्तपनीयपुङ्खैः
Verse 38
तस्मिन् प्रवृद्धोत्तमसानुवृक्षेशृङ्गेविकीर्णेपतितेपृथिव्याम् महाहिकल्पंशरमन्तकाभंसमादधेराक्षसलोकनाथः
Verse 39
सतंगृहीत्वाऽनिलतुल्यवेगंसविस्फुलिङ्गज्वलनप्रकाशम् बाणंमहेन्द्राशनितुल्यवेगंचिक्षेपसुग्रीववधायरुष्टः
Verse 40
ससायकोरावणबाहुमुक्तःशक्राशनिप्रख्यवपुश्शिताग्रः सुग्रीवमासाद्यबिभेदवेगाद्गुहेरिताक्रौञ्चमिवोग्रशक्तिः
Verse 41
ससायकार्तोविपरीतचेताःकूजन्पृथिव्यांनिपपातवीरः तंप्रेक्ष्यभूमौपतितंविसंज्ञंनेदुःप्रहृष्टायुधियातुधानाः
Verse 42
ततोगवाक्षोगवयस्सुदंष्ट्रस्त्वथर्षभोज्योतिमुखोनलश्च शैलान् समुत्पाट्यविवृद्धकायाःप्रदुद्रुवुस्तंप्रतिराक्षसेन्द्रम्
Verse 43
तेषांप्रहारान् सचकारमोघान् रक्षोधिपोबाणशतैःशिताग्रैः तान्वानरेन्द्रानपिबाणजालैर्बिभेदजाम्बूनदचित्रपुङ्खैः
Verse 44
तेवानरेन्द्रास्त्रिदशारिबाणैर्भिन्नानिपेतुर्भुविभीमकायाः ततस्तुतद्वानरसैन्यमुग्रंप्रच्छादयामाससबाणजालैः
Verse 45
तेवध्यमानाःपतिताःप्रवीरानानद्यमानाभयशल्यविद्धाः शाखामृगारावणसायकार्ताजग्मुश्शरण्यंशरणंस्मरामम्
Verse 46
ततोमहात्मासधनुर्धनुष्मानादायरामस्सहसाजगाम तंलक्ष्मणःप्राञ्जलिरभ्युपेत्यउवाचवाक्यंपरमार्थयुक्तम्
Verse 47
काममार्यस्सुपर्याप्तोवधायास्यदुरात्मनः विधमिष्याम्यहंचैतमनुजानीहिमांविभो
Verse 48
तमब्रवीन्महातेजारामस्सत्यपराक्रमः गच्छयत्नपरश्चापिभवलक्ष्मण संयुगे
Verse 49
रावणोहिमहावीर्योरणेऽद्भुतपराक्रमः त्रैलोक्येनापिसङ्क्रुद्धोदुष्प्रसह्योनसंशयः
Verse 50
तस्यच्छिद्राणिमार्गस्वस्वच्छिद्राणिचलक्ष्य चक्षुषाधनुषायत्ना प्रक्षात्मानंसमाहितः
Verse 51
राघवस्यवचश्श्रुत्वासपरिष्वज्याभिपूज्यच अभिवाद्यतत् रामंययौसौमित्रिराहवम्
Verse 52
सरावणंवारणहस्तबाहुंददर्शभीमोद्यतदीप्तचापम् प्रच्छादयन्तंशरवृष्टिजालैस्तान्वानराभनिन्नविकीर्णदेहान्
Verse 53
तमालोक्यमहातेजाहनूमान्मारुतात्मजः निवार्यशरजालानिप्रदुद्रावसरावणम्
Verse 54
रथंतस्यसमासाद्यबाहुमुद्यम्यदक्षिणम् त्रासयन्रावणंधीमान्हनूमान्वाक्यमब्रवीत्
Verse 55
देवदानवगन्धर्वायक्षाश्चसहराक्षैसैः अवश्यंतुत्वयाभग्नावानरेभ्यस्तुतेभयम्
Verse 56
एषमेदक्षिणोबाहुःपञ्चशाखःसमुद्यतः विधमिष्यतितेदेहाद्भूतात्मानंचिरोषितम्
Verse 57
श्रुत्वाहनुमतोवाक्यंरावणोभीमविक्रमः संरक्तनयनःक्रोधादिदंवचनमब्रवीत्
Verse 58
क्षिप्रंप्रहरनिःशङ्कंस्थिरांकीर्तिमवाप्नुहि ततस्त्वांज्ञातविक्रान्तंनाशयिष्यामिवानर
Verse 59
रावणस्यवचश्श्रुत्वावायुसूनुर्वचोऽब्रवीत् प्रहृतंहिमयापूर्वमक्षंतवसुतंतव
Verse 60
एवमुक्तोमहातेजारावणोराक्षसेश्वरः आजघानानिलसुतंतलेनोरसिवीर्यवान्
Verse 61
सतलाभिहतस्तेनचचालचमुहुर्मुहुः स्थित्वामुहूर्तंतेजस्वीस्थैर्यंकृत्वामहामतिः आजघानाभिसङ्कृद्धस्तलेनैवामरद्विषम्
Verse 62
ततस्ततेनाभिहतोवानरेणमहात्मना दशग्रीवःसमाधूतोयथाभूमिचलेऽचलः
Verse 63
सङ्ग्रामेतंतथादृष्टवारावणंतलताडितम् ऋषयोवानराःसिद्धानेदुर्देवास्सहासुरैः
Verse 64
अथाऽश्वास्यमहातेजारावणोवाक्यमब्रवीत् साधुवानर वीर्येणश्लाघनीयोऽसिमेरिपुः
Verse 65
रावणेनैवमुक्तस्तुमारुतिर्वाक्यमब्रवीत् धिगस्तुममवीर्येणयस्त्वंजीवसिरावण
Verse 66
सकृत्तुप्रहरेदानींदुर्भुद्धे किंविकत्थसे ततस्त्वांमामिकामुष्टिर्नयिष्यतियमक्षयम्
Verse 67
तोमारतिवाक्येनकोधस्तस्यतदाऽज्वलत् संरक्तनयनोयत्नान्मुष्टिमुद्यम्यदक्षिणम् पातयामासवेगेनवानरोरसिवीर्यवान्
Verse 68
तोमारतिवाक्येनकोधस्तस्यतदाऽज्वलत् संरक्तनयनोयत्नान्मुष्टिमुद्यम्यदक्षिणम् पातयामासवेगेनवानरोरसिवीर्यवान्
Verse 69
हनूमान् वक्षसिव्यूढेसञ्चचालहतःपुनः विह्वलंतुतदादृष्टवाहनूमन्तंमहाबलम् रथेनातिरथशशीघ्रंनीलंप्रतिसमभ्यगात्
Verse 70
राक्षसानामधिपतिर्धशग्रीवःप्रतापवान् पन्नगप्रतिमैर्भीमैःपरमर्माभिभेदिभिः शरैरादीपयामासनीलंहरिचमूपतिम्
Verse 71
राक्षसानामधिपतिर्धशग्रीवःप्रतापवान् पन्नगप्रतिमैर्भीमैःपरमर्माभिभेदिभिः शरैरादीपयामासनीलंहरिचमूपतिम्
Verse 72
सशरौघसमायस्तोनीलःकपिचमूपतिः करेणेकैनेशैलाग्रंरक्षोधिपतयेऽसृजत्
Verse 73
हनूमानपितेजस्वीसमाश्वस्तोमहामनाः विप्रेक्षमाणोयुद्धेप्सुस्सरोषमिदमब्रवीत् नीलेनसहसंयुक्तंरावणंराक्षसेश्वरम् अन्येनयुद्यमानस्यनयुक्तमभिधावनम्
Verse 74
हनूमानपितेजस्वीसमाश्वस्तोमहामनाः विप्रेक्षमाणोयुद्धेप्सुस्सरोषमिदमब्रवीत् नीलेनसहसंयुक्तंरावणंराक्षसेश्वरम् अन्येनयुद्यमानस्यनयुक्तमभिधावनम्
Verse 75
रावणोऽपिमहातेजास्तंच्छृङ्गंसप्तभिःशरैः आजघानसुतीक्ष्णाग्रैस्तद्विकीर्णंपपातह
Verse 76
तद्विकीर्णंगिरेश्शृङ्गंदृष्टवाहरिचमूपतिः कालानगिरिवजज्वालकोपेनपरवीरहा
Verse 77
सोऽश्वकर्णान्धान् शालांश्चूताश्चापिसुपुष्पितान् अन्यांश्चविविधान् वृक्षान्नीलश्चिक्षेपसंयुगे
Verse 78
सतान्वृक्षान् समासाद्यप्रतिचिच्छेदरावणः अभ्यवर्षत्सुघोरेणशरवर्षेणपावकिम्
Verse 79
अभिवृष्टश्शरौघेणमेघेनेवमहाबलः ह्रस्वंकृत्वाततोरूपंध्वजाग्रेनिपपातह
Verse 80
पावकात्मजमालोक्यध्वजाग्रेसमवस्थितम् जज्वालरावणःक्रोधात्ततोनीलोननादच
Verse 81
ध्वजाग्रेधनुषश्चाग्रेकिरीटाग्रेचतंहरिम् लक्ष्मणोऽथहनूमांश्चदृष्टवारामश्चविस्मिताः
Verse 82
रावणोऽपिमहातेजाःकपिलाघवविस्मितः अस्त्रमाहारयामासदीप्तमाग्नेयमद्भुतम्
Verse 83
ततस्तेचुक्रुशुर्हृष्टालब्दलक्षाःप्लवङ्गमाः नीललाघवसम्भ्रान्तंदृष्टवारावणमाहवे
Verse 84
वानराणांचनादेवसंरब्दोरावणस्तदा सम्भ्रमाविष्टहृदयोनकिञ्चित्प्रत्यपद्यत
Verse 85
आग्नेयेनाधसंयुक्तंगृहीत्वारावणश्शरम् ध्वजशीर्षस्थितंसीलमुदैक्षतनिशाचरः
Verse 86
ततोऽब्रवीन्महातेजारावणोराक्षसेश्वरः कपेलाघवयुक्तोऽसिमाययापरयाऽनया
Verse 87
जीवितंखलुरक्षस्वयदिशक्तोऽपिवानर तानितान्यात्मरूपाणिसृजसित्वमनेकशः
Verse 88
तथापित्वांमयामुक्तस्सायोकोऽस्त्रप्रयोजितः जीवितंपरिरक्षन्तंजीविताद्भ्रंशयिष्यति
Verse 89
एवमुक्त्वामहाबाहूरावणोराक्षसेश्वरः सन्धायबाणमस्त्रणचमूपतिमताडयत्
Verse 90
सोऽस्त्रयुक्तेनबाणेननीलोवक्षसिताडितः निर्धह्यमानस्सहसानिपपातमहीतले
Verse 91
पितृमहात्म्यसंयोगात्मनश्चापितेजसा जानुभ्यानुपतद्भूमौनतुप्राणैर्व्ययुज्यत
Verse 92
विसंज्ञंवानरंदृष्टवादशग्रीवोरणोत्सुकः रथेनाम्बुदनादेनसौमित्रिमभिदुद्रुवे
Verse 93
आसाद्यरणमध्येतंवारयित्वास्थितोज्वलन् धनुर्विष्फारयामासकम्पयन्निवमेदिनीम्
Verse 94
तमाहसौमित्रिरदीनसत्त्वोविष्फारयन्तंधनुरप्रमेयम् अभ्येहिमामद्यनिशाचरेन्द्रनवानरांस्त्वप्रतियोद्धुमर्हः
Verse 95
सतस्यवाक्यंप्रतिपूर्णघोषंज्याशब्दमुग्रंचनिशम्यराजा आसाद्यसौमित्रिमवस्थितंतंकोपान्वितोवाचमुवाचरक्षः
Verse 96
दिष्ट्यासिमेराघव दृष्टिमार्गंप्राप्तोऽन्तगामीविपरीतबुद्धिः अस्मिन् क्षणेयास्यसिमृत्युदेशंसम्पाद्यमानोममबाणजालैः
Verse 97
तमाहसौमित्रिरविस्मयानोगर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् राजन्नगर्जन्तिमहाप्रभावाविकत्थसेपापकृतांवरिष्ठ
Verse 98
जानामिवीर्यंतवराक्षसेन्द्रबलंप्रतापंचपराक्रमंच अवस्थितोऽहंशरचापपाणिरागच्छकिंमोघविकत्थनेन
Verse 99
सएवमुक्तःकुपितस्ससर्जरक्षोथिपस्सप्तशरान् सुपुङ्खान् तान्लक्ष्मणःकाञ्चनचित्रिपुङ्खैश्चिच्छेदबाणैर्निशिताग्रधारैः
Verse 100
तान् प्रेक्षमाणस्सहसानिकृत्तानिकृत्तभोगानिवपन्नगेन्द्रान् लङ्केश्वरःक्रोधवशंजगामससर्जचान्यान्निशितान्पृषत्कान्
Verse 101
सबाणवर्षंतुववर्षतीव्रंरामानुजःकार्मुकसम्प्रयुक्तम् क्षुरार्धचन्द्रोत्तमकर्णिभल्लैःशरांश्चचिच्छेदनचुक्षुभेच
Verse 102
सबाणजालान्यथतानितानिमोघानिपश्यंस्त्रिदशारिराजः विसिस्मियेलक्ष्मणलाघवेनपुनश्चबाणान्निशितान्मुमोच
Verse 103
सलक्ष्मणश्चापिशरान् शिताग्रान्महेन्द्रतुल्योऽशनितुल्यवेगान् सन्धायचापेज्वलनप्रकाशान् ससर्जरक्षोधिपतेर्वधाय
Verse 104
सतान् प्रचिच्छेदहिराक्षसेन्द्रःछित्वाचतन्लक्ष्मणमाजघान शरेणकालाग्निसमप्रभेणस्वयम्भुदत्तेनललाटदेशे
Verse 105
सलक्ष्मणोरावणसायकार्तश्चचालचापंशिधिलंप्रगृह्य पुनश्चसंज्ञांप्रतिलभ्यकृच्छ्राच्चिच्छेदचापंत्रिदशेन्द्रशत्रो
Verse 106
निकृत्तचापंत्रिभिराजघानबाणैस्तदादाशरथिश्शिताग्रैः ससायकार्तोविचचालराजाकृच्छ्राच्छसंज्ञांपुनराससाद
Verse 107
सकृत्तचापःशरताडितश्चमेदार्द्रगात्रोरुधिरावसिक्तः जग्राहशक्तिंस्वयमुग्रशक्तिस्स्वयम्भुदत्तांयुधिदेवशत्रुः
Verse 108
सतांसधूमानलसन्निकाशांवित्रासनींसंयतिवानराणाम् चिक्षेपशक्तिंतरसाज्वलन्तींसौमित्रयेराक्षसराष्ट्रनाथः
Verse 109
तामापतन्तींभरतानुजोऽस्त्रैर्जघानबाणैश्चहुताग्निकल्पैः तथापिसातस्यविवेशशक्तिर्भुजान्तरंदाशरथेर्विशालम्
Verse 110
सशक्तिमान् शक्तिसमाहतःसन् प्रजज्वालमुहुःरघुप्रवीरः तंविह्वलन्तंसहसाभ्युपेत्यजग्राहराजातरसाभुजाभ्याम्
Verse 111
हिमवान् मन्दरोमेरुस्तैलोक्यंवासहामरैः शक्यंभुजाभ्यामुद्धर्तुंनसङ् ख्येभरतानुजः
Verse 112
शक्त्याब्राह्म्याहिसौमित्रिस्ताडितास्तुस्तनान्तरे विष्णोरचिन्यन्त्यंस्वंभागमात्मानंप्रत्यनुस्मरत्
Verse 113
ततोदानवदर्पघ्नंसौमित्रिंदेवकण्टकः तंपीडयित्वाबाहुभ्यांनप्रभुर्लङ्घनेऽभवत्
Verse 114
अथवायुसुतःक्रुद्धोरावणंसमभिद्रवत् आजघानोरसिक्रुद्धोवज्रकल्पेनमुष्टिना
Verse 115
तेनमुष्टिप्रहारेणरावणोराक्षसेश्वरः जानुभ्यामपतद्भूमौचचालचपपातच
Verse 116
अस्यैश्चनेत्रैश्श्रवणैःपपातरुधिरंबहु विघूर्णमानोनिश्चेष्टोरथोपस्थउपाविशत्
Verse 117
विसंज्ञोमूर्च्छ्रितश्चासीन्नचस्थानंसमालभत् विसंज्ञंरावणंदृष्टवासमरेभीमविक्रमम् ऋषयोवानराश्चैवनेदुर्देवास्सवासवाः
Verse 118
हनूमानपितेजस्वीलक्ष्मणंरावणार्धितम् आनयद्राघवाभ्याशंबाहुभ्यांपरिगृह्यतम्
Verse 119
वायुसूनोःसुहृत्त्वेनभक्त्यापरमयाचसः शत्रूणामप्रकम्प्योऽपिलघुत्वमगमत्कपेः
Verse 120
तंसमुत्सृज्यसाशक्तिःसौमित्रिंयुधिदुर्जयम् रावणस्यरथेतस्मिन् स्थानंपुनरुपागता
Verse 121
आश्वस्तश्चनिशल्यश्चलक्ष्मणश्शत्रुसूदनः विष्णोर्भागममीमांस्यमात्मानंप्रत्यनुस्मरन्
Verse 122
रावणोऽपिमहातेजाःप्राप्यसंज्ञांमहाहवे आददेनिशितान् बाणान् जग्राहचमहद्धमः
Verse 123
निपातितमहावीरांद्रवन्तींवानरींचमूम् राघवस्तुरणेदृष्टवारावणंसमभिद्रवत्
Verse 124
अथैवमुपसङ्गम्यहनूमान्वाक्यमब्रवीत् ममपृष्ठंसमारुह्यराक्षसंशास्तुमर्हसि विष्णुर्यथागरुत्मन्तंबलवन्तंसमाहितः
Verse 125
अथैवमुपसङ्गम्यहनूमान्वाक्यमब्रवीत् ममपृष्ठंसमारुह्यराक्षसंशास्तुमर्हसि विष्णुर्यथागरुत्मन्तंबलवन्तंसमाहितः
Verse 126
तच्छ्रुत्वाराघवोवाक्यंवायुपुत्रेणभाषितम् आरुरोहमहाशूरंबलवन्तंमहाकपिम् रथस्थंरावणंसङ् ख्येददर्शमनुजाधिपः
Verse 127
तमालोक्यमहातेजाःप्रदुद्रावसराघवः वैरोचनिवक्रुद्धोविष्णुरभ्युद्यतायुधः
Verse 128
ज्याशब्दमकरोत्तीव्रंवज्रनिष्पेषनिस्वनम् गिरागम्भीरयारामोराक्षसेन्द्रमुवाचह
Verse 129
तिष्ठतिष्ठममत्वंहिकृत्वाविप्रियमीदृशम् क्वनुराक्षसशार्दूल गतोमोक्षमवाप्स्यसि
Verse 130
यदीन्द्रवैवस्वतभास्करान्वास्वयम्भुवैश्वानरशंकरान्वा गमिष्यसित्वंदशवादिशोवातथापिमेनाद्यगतोविमोक्ष्यसे
Verse 131
यश्चैवशक्त्याभिहतस्त्वयाऽद्यइच्छन्विषादंसहसाभ्युपेत्य सएषरक्षोगणराजमृत्युःसपुत्रपौत्रस्यतवाद्ययुद्धे
Verse 132
एतेनचात्यद्भुतदर्शनानिशरैर्जवस्थानकृतालयानि चतुर्धशान्यात्तवरायुधानिरक्षःसहस्राणिनिषूदितानि
Verse 133
राघवस्यवचश्श्रुत्वाराक्षसेन्द्रोमहाबलः वायुपुत्रंमहावेगंवहन्तंराघवंरणे रोषेणमहताविष्टःपूर्ववैरमनुस्मरन् आजघानशरैर्दीप्स्सैःकालानलशिखोपमैः
Verse 134
राघवस्यवचश्श्रुत्वाराक्षसेन्द्रोमहाबलः वायुपुत्रंमहावेगंवहन्तंराघवंरणे रोषेणमहताविष्टःपूर्ववैरमनुस्मरन् आजघानशरैर्दीप्स्सैःकालानलशिखोपमैः
Verse 135
राक्षसेनाहवेतस्यताडितस्यापिसायकैः स्वभावतेजोयुक्तस्यभूयस्तेजोऽभ्यवर्धत
Verse 136
ततोरामोमहातेजारावणेनकृतव्रणम् दृष्टवाप्लवगशार्दूलंक्रोधस्यवशमेयिवान्
Verse 137
तस्याभिसङ्क्रम्यरथंसचक्रंसाश्वध्वजच्छत्रमहापताकम् ससारथिंसाशनिशूलखडगंरामःप्रचिच्छेदशरैस्सुपुङ्खैः
Verse 138
अथेन्द्रशत्रुंतरसाजघानबाणेनवज्राशनिसन्निभेन भुजान्तरेव्यूढसुजातरूपेवज्रेणमेरुंभगवानिवेन्द्रः
Verse 139
योवज्रपातशनिसन्निपातान्नचक्षुभेनापिचचालराजा सरामबाणाभिहतोभृशार्तश्चचालचापंचमुमोचवीरः
Verse 140
तंविह्वलन्तंप्रसमीक्ष्यरामस्समाददेदीप्तमथार्थचन्द्रम् तेनार्कवर्णंसहसाकिरीटंचिच्छेदरक्षोधिपतेर्महात्मा
Verse 141
तंनिर्विषाशीविषसन्निकाशंशान्तार्चिषंसूर्यमिवाप्रकाशम् गतश्रियंकृत्तकिरीटकूटमुवाचरामोयुधिराक्षसेन्द्रम्
Verse 142
कृतंत्वयाकर्ममहत्सुभीमंहतप्रवीरश्चकृतस्त्वयाऽहम् तस्मात्परिश्रान्तइतिव्यवस्यन्नत्वांशरैर्मृत्युवशंनयामि
Verse 143
गच्छानुजानामिरणार्धितस्त्वंप्रविश्यरात्रिंचरराजलङ्काम् आश्वस्यनिर्याहिरथीचधन्वीतदाबलंप्रेक्ष्यसिमेरथस्थः
Verse 144
सएवमुक्तोहतदर्पहर्षोनिकृत्तचापश्चहताश्वसूतः शरार्दितःकृत्तमहाकिरीटोविवेशलङ्कांसहसास्मराजा
Verse 145
प्रविष्टेरजनीचरेन्द्रेमहाबलेदाववदेवशत्रौ हरीन् विशल्यान् सहलक्ष्मणेनचकाररामःपरमाहवाग्रे
Verse 146
तस्मिन्प्रभन्नेत्रिदशेन्द्रशतौसुरासुराभूतगणादिशश्च ससागरास्सर्षिमहोरगाश्चतथैवभूम्यम्बुचराश्चप्रहृष्टाः
0:000:00
Speed: