Book 6 • Chapter 60
Sarga 60
97 verses
Verse 1
सप्रविश्यपुरींलङ्कांरामबाणभयार्धितः भग्नदर्पस्तदाराजाबभूवव्यथितेन्द्रियः
Verse 2
मातङ्गइवसिंहेनगरुडेनेवपन्नगः अभिभूतोऽभवद्राजाराघवेणमहात्मना
Verse 3
ब्रह्मदण्डप्रतीकानांविद्युत्सदृशवर्चसाम् स्मरन्राघवबाणानांविव्यथेराक्षसेश्वरः
Verse 4
नकाञ्चनमयंदिव्यमाश्रित्यपरमासनम् विप्रेक्षमाणोरक्षांसिरावणोवाक्यमब्रवीत्
Verse 5
सर्वंतत्खलुमेमोघंयत्तप्तंपरमंतपः यत्समानोमहेन्द्रेणमानुषेणास्मिर्जितः
Verse 6
इदंतद्ब्रह्मणोघोरंवाक्यंमामभ्युपस्थितम् मानुषेभ्योविजानीहिभयंत्वमितितत्तथा
Verse 7
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः अवध्यत्वंमयाप्राप्तंमानुषेभ्योनयाचितम्
Verse 8
विदितंमानुषंमन्येरामंदशरथात्मजम् इक्ष्वाकुकुलजातेनअनरण्येनयत्पुरा उत्पत्स्यतेहिमद्वंशेपुरुषोराक्षसाधनु यस्त्वांसपुत्रंसामात्यंसबलंसाश्वसारथिम् निहनिष्यतिसङ्ग्रामेत्वांकुलाधम दुर्मते
Verse 9
विदितंमानुषंमन्येरामंदशरथात्मजम् इक्ष्वाकुकुलजातेनअनरण्येनयत्पुरा उत्पत्स्यतेहिमद्वंशेपुरुषोराक्षसाधनु यस्त्वांसपुत्रंसामात्यंसबलंसाश्वसारथिम् निहनिष्यतिसङ्ग्रामेत्वांकुलाधम दुर्मते
Verse 10
शप्तोऽहंवेदवत्याचयदासाधर्षितापुरा सेयंसीतामहाभागाजाताजनकनन्दिनी
Verse 11
उमानन्दीश्वरश्चापिरम्भावरुणकन्यका यथोक्तास्तन्मयाप्राप्तंनमिथ्याऋषिभाषितम्
Verse 12
एतदेवाभ्युपागम्ययत्नंकर्तुमहार्हथ राक्षसाश्चापितिष्ठन्तुचर्यागोपुरमूर्थसु
Verse 13
सचाप्रतिमगाम्भीर्योदेवदानवदर्पहा ब्रह्मशापाभिभूतस्तुकुम्भकर्णोविबोध्यताम्
Verse 14
सपराजितमात्मानंप्रहस्तंचनिषूदितम् ज्ञात्वारक्षोबलंभीममादिदेशमहाबलः
Verse 15
द्वारेषुयत्नःक्रियतांप्राकारश्चाधिरुह्यताम् निद्रावशसमाविष्टःकुम्भकर्णोविबोद्यताम्
Verse 16
सुखंस्वपितिनिश्चिन्तःकालोपहतचेतनः नवषट् सप्तचाष्टौचमासान् स्वपितिराक्षसः
Verse 17
मन्त्रयित्वाप्रसुप्तोऽयमितस्तुनवमेऽहनि तंतुबोधयतक्षिप्रंकुम्भकर्णंमहाबलम्
Verse 18
सतुसङ् ख्येमहाबाहुःककुदस्सर्वरक्षसाम् वानरान् राजपुत्रौचक्षिप्रमेवहनिष्यति
Verse 19
एषःकेतुःपरंसङ् ख्येमुख्योवैसर्वरक्षसाम् कुम्भकर्णःसदाशेतेमूढोग्राम्यसुखेरतः
Verse 20
रामेणहिनिरस्तस्यसङ्ग्रामेऽस्मिन् सुदारुणे भविष्यतिनमेशोकःकुम्भकर्णेविबोधिते
Verse 21
किंकरिष्याम्यहंतेनशक्रतुल्यबलेनहि ईदृशेव्यसनेघोरेयोनसाह्यायकल्पते
Verse 22
तेतुतद्वचनंश्रुत्वाराक्षसेन्द्रस्यराक्षसाः जग्मुःपरमसम्भ्रान्ताःकुम्भकर्णनिवेशनम्
Verse 23
तांप्रविश्यमहाद्वारंसर्वतोयोजनायताम् कुम्भकर्णगुहांरम्यांसर्वगन्धप्रवाहिनीम् कुम्भकर्णस्यनिःश्वासादवधूतामहाबलाः प्रतिष्ठमानाःकृच्छ्रेणयत्नात्प्रविविशुर्गुहाम्
Verse 24
तांप्रविश्यमहाद्वारंसर्वतोयोजनायताम् कुम्भकर्णगुहांरम्यांसर्वगन्धप्रवाहिनीम् कुम्भकर्णस्यनिःश्वासादवधूतामहाबलाः प्रतिष्ठमानाःकृच्छ्रेणयत्नात्प्रविविशुर्गुहाम्
Verse 25
तांप्रविश्यगुहांरम्यांशुभांकाञ्चनकुट्टिमाम् ददृशुर्नैरृतव्याघ्रंशयानंभीमविदर्शनम्
Verse 26
तेतुतंविकृतंसुप्तंविकीर्णमिवपर्वतम् कुम्भकर्णंमहानिद्रंसहिताःप्रत्यबोधयन्
Verse 27
ऊर्ध्वरोमाञ्चिततनुंश्वसन्तमिवपन्नगम् भ्रामयन्तम् न्विश्श्वसैःशयानम् भीमविदर्शमम् भीमनासापुटंतंतुपातालोविपुलाननम् शयनेन्यस्तसर्वाङ्गंमेदोरुधिरगन्धिनम् काञ्चनाङ्गदनद्धाङ्गंकिरीटिनमरिन्दमम् ददृशुर्नैरृतव्याघ्रंकुम्भकर्णमरिन्दमम्
Verse 28
ऊर्ध्वरोमाञ्चिततनुंश्वसन्तमिवपन्नगम् भ्रामयन्तम् न्विश्श्वसैःशयानम् भीमविदर्शमम् भीमनासापुटंतंतुपातालोविपुलाननम् शयनेन्यस्तसर्वाङ्गंमेदोरुधिरगन्धिनम् काञ्चनाङ्गदनद्धाङ्गंकिरीटिनमरिन्दमम् ददृशुर्नैरृतव्याघ्रंकुम्भकर्णमरिन्दमम्
Verse 29
ऊर्ध्वरोमाञ्चिततनुंश्वसन्तमिवपन्नगम् भ्रामयन्तम् न्विश्श्वसैःशयानम् भीमविदर्शमम् भीमनासापुटंतंतुपातालोविपुलाननम् शयनेन्यस्तसर्वाङ्गंमेदोरुधिरगन्धिनम् काञ्चनाङ्गदनद्धाङ्गंकिरीटिनमरिन्दमम् ददृशुर्नैरृतव्याघ्रंकुम्भकर्णमरिन्दमम्
Verse 30
ततश्चक्रुर्महात्मानंकुम्भकर्णाग्रतस्तदाचाग्रतः मांसानांमेरुसङ्काशंराशिंपरमतर्पणम्
Verse 31
मृगाणांमहिषाणांचवराहाणांचसञ्चयान् चक्रुर्नैरृतशार्दूलाराशिमन्नस्यचाद्भुतम्
Verse 32
ततश्शोणितकुम्भांश्चमद्यानिविविधानिच पुरस्तात्कुम्भकर्णस्यचक्रुस्त्रिदशशत्रवः
Verse 33
लिलिपुश्चपरार्ध्येनचन्दनेनपरन्तपम् दिव्यैराश्वासयामामासुर्माल्यैर्गन्धैस्सुगन्धिभिः
Verse 34
धूपंसुगन्धांश्चससृजुस्तुष्टवुश्चपरन्ततम् जलदाइवचानेदुर्यातुधानास्ततस्ततः
Verse 35
शङ्खांनापूरयामासुश्शशाङ्कसदृशप्रभान् तुमुलंयुगपच्छापिविनेदुश्चाप्यमर्षिताः
Verse 36
नेदुरास्फोटयामासुश्चिक्षिपुस्तेनिशाचराः कुम्भकर्णविबोधार्थंचक्रुस्तेविपुलंस्वनम्
Verse 37
सशङ्खभेरीपणवप्रणादमास्फोटितक्षेवळितसिंहनादम् दिशोद्रवन्तस्त्रिदिवंकीरन्तःश्रुत्वाविहंगाःसहसानिपेतुः
Verse 38
यदाभृशंतैर्निनदैर्महात्मानकुम्बकर्णोबुबुधेप्रसुप्तः ततोमुसुण्ठीर्मुसलानिसर्वेरक्षोगणास्तेजगृहुर्गदाश्च
Verse 39
तंशैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षैस्तरैर्मुद्गरमुष्टिभिश्च सुखप्रसुप्तंभुविकुम्भकर्णंरक्षांस्युदग्राणितदानिजघ्नुः
Verse 40
तस्यनिःश्वासवातेनकुम्भकर्णस्यरक्षसः राक्षसाबलवन्तोऽपिस्थातुनाशक्नुवन्पुरः
Verse 41
ततःपरिहितागाढंराक्षसाभीमविक्रमाः मृदङ्गपणवान् भेरीश्शङ्खकुम्भगणांस्तथा
Verse 42
दशराक्षससाहस्रंयुगपत्पर्यवारयन् नीलाञ्जनचयाकारंतेतुतंप्रत्यबोधयन् अभिघ्नन्तोनदन्तश्चनैवसंविविदेतुसः
Verse 43
यदाचैनंनशेकुस्तेप्रतिबोधयितुंतदा ततोगुरुतरंयत्नंदारुणंसमुपाक्रमन्
Verse 44
आश्वानुष्ट्रान् खरन्नागान् जघ्नुर्दण्डकशाङ्कुशैः भेरीशङ्खमृदङ्गांश्चसर्वप्राणैरवादयन्
Verse 45
निजघ्नुश्चास्यगात्राणिमहाकाष्ठकङ्करैः मुद्गरैर्मुसलैश्चापिसर्वप्राणसमुद्यतैः
Verse 46
तेननादेवमहतालङ्कासमभिपूरिता सपर्वतवनासर्वासोऽपिनैवप्रबुध्यते
Verse 47
ततस्सहस्रंभेरीणांयुगसत्समहन्यत मृष्टकाञ्चनकोणानामासक्तानांसमन्ततः
Verse 48
एवमप्यन्तिद्रिस्तुयदानैवप्रबुध्यत शापस्यवशमापन्नस्ततःक्रुद्धानिशाचराः
Verse 49
महाक्रोधसमाविष्टास्सर्वेभीमपराक्रमाः तद्रक्षोबोधयिष्यन्तश्चक्रुरन्येपराक्रमम्
Verse 50
अन्येभेरीस्समाजघ्नुरन्येचक्रुर्महास्वनम् केशानन्येप्रलुलुपुःकर्णावन्येदशन्तिच
Verse 51
उदकुम्बशतान्यन्येसमसिञ्चन्तकर्णयोः नकुम्भकर्णःपस्पन्देमहानिद्रावशंगतः
Verse 52
अन्येचबलिनस्तस्यकूटमुद्गरपाणयः मूर्ध्निवक्षसिगात्रेषुपातन् कूटमुद्गरान्
Verse 53
रज्जुबन्धनबद्धाभिश्शतघ्नीभिश्चसर्वशः वध्यमानोमहाकायोनप्राबुध्यतराक्षसः
Verse 54
वारणानांसहस्रंचशरीरेऽस्यप्रधावितम् कुम्बकर्णस्तदाबुद् ध्वास्पर्शंपरमबुध्यत
Verse 55
सपात्यमानैर्गिरिशृङ्गवृक्षैरचिन्तयंस्तान्विपुलान् प्रहारान् निद्राक्ष्यात् क्षुद्भयपीडितश्चविजृम्भमाणस्सहसोत्पपाप
Verse 56
सनागभोगाचलशृङ्गकल्पौविक्षिप्यबाहूगिरशृङ्गसारौ निवृत्यवक्त्रंवडवामुखाभंनिशाचरोऽसौविकृतंजजृम्भे
Verse 57
तस्यजाजृम्भमाणस्यवक्त्रंपातालसन्निभम् ददृशेमेरुशृङ्गाग्रेदिवाकरइवोदितः
Verse 58
सजृम्भमाणोऽतिबलःप्रद्धोनिशाचरः निःश्वासश्चास्यसञ्जज्ञेपर्वतादिवमारुतः
Verse 59
रूपमुत्तिष्ठतस्तस्यकुम्भकर्णस्यतद्बभौ तपान्तेसबलाकस्यमेघस्येवविवर्षतः
Verse 60
तस्यदीप्ताग्निसदृशेविद्युत्सदृशवर्चसी ददृशातेमहानेत्रेदीप्ताविवमहाग्रहौ
Verse 61
ततस्त्वदर्शयन् सर्वान्भक्ष्यांश्चविविधान् बहून् वराहान्महिषांश्चैवबभक्षसमहाबलः
Verse 62
आददुन्भुक्षितोमांसंशोणितंतृषितःपिबन् मेदःकुम्भांश्चमद्यांश्चपपौशक्ररिपुस्तदा
Verse 63
ततस्तृप्तइतिज्ञात्वासमुत्पेतुर्निशाचराः शिरोभिश्चप्रणम्यैनंसर्वतःपर्यवारयन्
Verse 64
निद्राविशदनेत्रस्तुकलुषीकृतलोचनः चारयन् सर्वतोदृष्टिंतान् ददर्शनिशाचरान्
Verse 65
ससर्वान् सान्त्वयामासनैरृतान् नैरृतर्षभः बोधनाद्विस्मितश्चापिराक्षसानिदमब्रवीत्
Verse 66
किमर्थमहमादृत्यभवद्भिःप्रतिबोधितः कच्छित्सुकुशलंराज्ञोभयंवानेषनकिम्
Verse 67
अथवाध्रुवमन्येभ्योभयंपरमुपस्थितम् यदर्थमेवत्वरितैर्भवद्भिःप्रतिबोधितः
Verse 68
अद्यराक्षसराजस्यभयमुत्पाटयाम्यहम् दारयिष्येमहेन्द्रंवाशातयिष्येतथानलम्
Verse 69
नह्यल्पकारणेसुप्तंबोधयिष्यतिमांगुरुः तदाख्यातार्थतत्त्वेनमत्प्रबोधनकारणम्
Verse 70
एवंब्रुवाणंसम्रब्धंकुम्भकर्णमरिन्दमम् यूपाक्षःसचिवोराज्ञःकृताञ्जलिरभाषत
Verse 71
ननोदेवकृतंकिञ्चिद्भयमस्तिकदाचन मानुषान्नोभयंराजंस्तुमुलंसम्प्रबाधते
Verse 72
नदैत्यदानवेभ्योवाभयमस्तिहितादृशम् यादृशंमानुषंराजन् भयमस्मानुपस्थितम्
Verse 73
वानरैःपर्वताकारैर्लङ्केयंपरिवारिता सीताहरणसन्तप्ताद्रामान्नस्तुमुलंभयम्
Verse 74
एकेनवानरेणेयंपूर्वंदग्धामहापुरी कुमारोनिहतश्चाक्षस्सानुयात्रःसकुञ्जरः
Verse 75
स्वयंरक्षोधिपश्चापिपौलस्त्योदेवकण्टकः मृतेतिसंयुगेमुक्तोरामेणादित्यतेजसा
Verse 76
यन्नदेवैःकृतोराजानापिदैत्यैर्नदानवैः कृतःसइहरामेणविमुक्तःप्राणसंशयात्
Verse 77
सयूपाक्ष्वचश्श्रुत्वाभ्रातुर्युधिपराभवम् कुम्भकर्णोविवृत्ताक्षोयूपाक्षमिदमब्रवीत्
Verse 78
सर्वमद्यैवयूपाक्षहरिसैन्यंसलक्ष्मणम् राघवंचरणेजित्वाततोद्रक्ष्यामिरावणम्
Verse 79
राक्षसांस्तर्पयिष्यामिहरीणांमांसशोणितैः रामलक्ष्मणयोश्चापिस्वयंपास्यामिशोणितम्
Verse 80
तत्तस्यवाक्यंब्रुवतोनिशम्यसगर्वितंरोषविवृद्धदोषम् महोदरोनैरृतयोधमुख्यःकृताञ्जलिर्वाक्यमिदंबभाषे
Verse 81
रावणस्यवचःश्रुत्वागुणदोषौविमृश्यच पश्चादपिमहाबाहो शत्रून्युधिविजेष्यसि
Verse 82
महोदरवचश्श्रुत्वाराक्षसैःपरिवारितः कुम्भकर्णोमहातेजास्सम्प्रतस्थेमहाबलः
Verse 83
सुप्तमुत्थाप्यभीमाक्षंभीमरूपपराक्रमम् राक्षसास्त्वरिताजुग्मर्दशग्रीन्विवेशनम्
Verse 84
ततोगत्वादशग्रीवमासीनंपरमासने ऊचुर्बद्धाञ्जलिपुटास्सर्वएवनिशाचराः
Verse 85
प्रबुद्धोऽयंकुम्भकर्णभ्रातातेराक्षसेश्वर कथंतत्रैवनिर्यातुद्रक्ष्यसेतमिहागतम्
Verse 86
रावणस्त्वब्रवीद्धृष्टोराक्षसांस्तानुपस्थितान् द्रष्टुमेनमिहेच्छामियथान्यायंचपूज्यताम्
Verse 87
तथेत्युक्त्वातुतेसर्वेपुनरागम्यराक्षसाः कुम्भकर्णमिदंवाक्यमूचूरावणचोदिताः
Verse 88
द्रष्टुंत्वांकांक्षतेराजासर्वराक्षसपुङ्गवः गमनेक्रियतांबुद्धिर्भ्रातरंसम्प्रहर्षयः
Verse 89
कुम्भकर्णस्तुदुर्धर्षोभ्रातुराज्ञायशासनम् तथेत्युक्त्वामहावीर्यश्शयनादुत्पपातह
Verse 90
प्रक्षाळ्यवदनंहृष्टस्स्नातःपरमभूषितः पिपासुस्त्वरयामासपानंबलसमीरणम्
Verse 91
ततस्तेत्वरितास्तत्रराक्षसारावणाज्ञया मद्यकुम्भांश्चविविधान् क्षिप्रमेवोपहारयन्
Verse 92
पीत्वाघटसहस्रेद्वेगमनायोपचक्रमे ईषत्समुत्कटोमत्तस्तेजोबलसमन्वितः
Verse 93
कुम्भकर्णोबभौहृष्टःकालान्तकयमोपमः भ्रातुस्सभवनंगच्छन्रक्षोबलसमन्वितः कुम्भकर्णःपदन्यासैरकम्पयतमेन्दिीम्
Verse 94
सराजमार्गंवपुषाप्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः जगामतत्राञ्जलिमालयावृतश्शतक्रतुर्गेहमिवस्वयम्भुवः
Verse 95
तंराजमार्गस्थममित्रघातिनंवनौकसस्तेसहसाबहिस्स्थिताः दृष्टवाऽप्रमेयंगिरिशृङ्गकल्पंवितत्रसुस्तेहरियूथपालाः
Verse 96
केचिच्छरण्यंशरणंस्मरामंव्रजन्तिकेचिद् व्यथिताःपतन्ति केचिद्धशस्मव्यथिताःपतन्तिकेचिद्भयार्ताभुविशेरतेस्म
Verse 97
तमद्रिशृङ्गप्रतिमंकिरीटिनंस्पृशन्तमादित्यमिवाऽत्मतेजसा वनौकसःप्रेक्ष्यविवृद्धमद्भुतं 3 भयार्धितादुद्रुविरेततस्ततः
0:000:00
Speed: